________________
३३२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहमलघुपरिमाणादि । सङ्ख्याया अधिकशब्दाच परस्य शाणकुलिजवर्जितस्य मानवाचिनः संवत्सरशब्दस्य च ब्णिति तद्धिते आविखरस्य वृद्धिः स्यात्, अनान्नि असंज्ञिविषये । सङ्ख्याधिकाभ्यां मानसंवत्सरस्य वचनभेदान्न यथासङ्ख्यम् । द्वौ कुडवो प्रयोजनमस्य द्विकौडविकः । अधिककौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकं, त्रिसौवर्णिकं, अधिकसौवर्णिकम् । द्वाभ्यां षष्टिभ्यां निवृत्तो द्वाभ्यां ५षष्टिभ्यां भृतोऽधीष्टो वा द्वेषष्टीभूतो भावी वा द्विषाष्टिकः । त्रिषाष्टिकः । द्विसाप्ततिकः । त्रिसाप्ततिकः । अधिकसाप्ततिकः । द्विषष्ट्यादिशब्दाः सयेये काले वर्तन्ते इति कालाधिकारविहितं प्रत्ययमुत्पादयन्ति । द्वाभ्यां नवतिभ्यां क्रीतमिति "मूल्यैः क्रीते" (६।४।१५०) इति इकण तस्य "अनान्यद्विः प्लुप्" (६।४।१४१) इति लुपि द्विनवति द्रव्यम्, तेन द्वौ च नवतिश्च द्विनवतिस्तया वा क्रीतं द्विनावतिकं त्रिनावतिक संवत्सरः । द्वाभ्यां संवत्सराभ्यां निवृत्तो भृतोऽधीष्टो वा, द्वौ १० संवत्सरौ, भूतो भावी वा द्विसांवत्सरिकः । त्रिसांवत्सरिकः । संवत्सरग्रहणात्कालो मानग्रहणेन न गृह्यते । तेन द्वसमिकः । समिकः । द्वैराशिकः । त्रैराशिकः । अशाणकुलिजस्येति किम् ? द्वाभ्यां शाणाभ्यां क्रीतं द्वैशाणम् । त्रैशाणम् । द्वे कुलिजे पचति सम्भवत्यवहरति च द्वैकुलिजिकः । त्रैकुलिजिकः । अनानीति किम् ? पश्चलोहिन्यः परिमाणमस्य पाञ्चलोहितिकम् । पाञ्चकलायिकम् । तद्धितान्तमिदं परिमाणविशेषस्य नाम । “अर्धात्परिमाणस्याऽनतो वा त्वादेः” (७४।२०) । अर्द्ध१५शब्दात्परस्य परिमाणवाचिन: कुडवादेः शब्दरूपस्य मिणति तद्धिते आदेः स्वरस्यानतोऽकाररहितस्य
वृद्धिः स्यात् । परिमाणात्पूर्वस्य त्वर्द्धशब्दस्य वा भवति । अर्द्धकुडवेन क्रीतं अर्द्धकौडविकम् , आर्द्धकौडविकम् । अर्द्धमौष्टिकम् , आर्द्धमौष्टिकम् । अर्द्धद्रौणिकम् आर्द्धद्रौणिकम् । परिमाणस्येति किम् ? अर्द्धक्रोशः प्रयोजनमस्य आर्द्धकौशिकम् । अनत इति किम् ? अर्द्धप्रस्थिकम् , आर्द्धप्रस्थिकम् । अर्द्धकंसिकम्
आर्द्धकंसिकम् । अर्द्धचमसिकम् , आर्द्धचमसिकम् । आदिविकल्प उत्तरपदवृद्ध्यनपेक्ष इति भवत्येव । २० अतः प्रतिषेधादाकारस्य वृद्धिर्भवत्येव । अर्द्धखायाँ भवः अर्द्धखारी । कः पुनरत्र विशेषः सत्यां
असत्यां वा वृद्धौ ? उच्यते-अर्द्धखारी भार्या यस्य अर्द्धखारीभार्य इति । यद्यत्र वृद्धिप्रतिषेधः स्यादयं तद्धितो न वृद्धिहेतुरिति पुंवद्भावप्रतिषेधो न स्याद्यथा अर्द्धप्रस्थे भवा अर्द्धप्रस्थी । सा भार्या अस्य अर्द्धप्रस्थभार्य इति । "प्राद्वाहणस्यैये” (७४।२१)। वात्वादेरिति वर्तते । प्रशब्दात्परस्य वाहणशब्दस्य एये ब्णिति तद्धिते परे आविखरस्य वृद्धिः स्यात्, प्रशब्दस्य तु वा । प्रवाहयति प्रवाहणः, २५ प्रवाहणस्यापत्यं प्रवाहणेयः प्रावाहणेयः "शुभ्रादित्वात्" (६।११७३) एयण् । अत्राप्युत्तरवृद्धेः प्रागुक्तमेव प्रयोजनम् । तेन प्रवाहणेयीभार्य इति पुंवद्भावप्रतिषेधो भवति । “एयस्य" (७।४।२२)। एयप्रत्ययान्तावयवात्प्रशब्दात्परस्य वाहणस्य णिति तद्धिते आदिवरस्य वृद्धिः स्यात् , आदेस्तु प्रशब्दस्य वा । प्रवाहणेयस्यापत्यं युवा प्रवाहणेयिः, प्रावाहणेयिः । प्रवाहणेयस्येदं सवादि तस्य भावो वा प्रवाहणेयकम् , प्रावाहणेयकम् । बाह्यतद्धितनिमित्ता वृद्धिरेयाश्रयेण विकल्पनाशक्या बाधितुमिति ३० सूत्रारम्भः । “नमः क्षेत्रज्ञेश्वरकुशलचपलनिपुणशुचे" (७।४।२३)। नषः परेषां क्षेत्रज्ञादीनां षण्णां प्रकृत्यवयवानां णिति तद्धिते आदिखरस्य वृद्धिः स्यात् आदेस्तु नबो वा । अक्षेत्रज्ञस्येदं अक्षैत्रज्ञम् , आक्षेत्रज्ञम् । अक्षेत्रज्ञस्य भावः कर्म वा अक्षेत्रज्यम् , आक्षेत्रश्यम् । राजादित्वात् ट्यण् । एवमनैश्वरम् , आनेश्वरम् । अनैश्वर्यम् , आनैश्वर्यम् । अकुशलस्येदं अकौशलम् , आकौशलम् । एवमचापलमाचापलम् । अनैपुणमानैपुणम् । न शुचिरशुचिस्तस्येदं अशौचमाशौचम् । न विद्यते
शुचिरस्येति वा अशुचिस्तस्य भावः कर्म वा अशौचमाशौचम् । क्षेत्रज्ञकुशलचपलनिपुणानां नपूर्वा३६णामपि युवादिपाठादणमिच्छन्त्येके । आयथातथ्यमिति समासात्प्रत्ययः । अयाथातथ्यमिति प्रत्यया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org