________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । अपत्यप्रत्ययाधिकारः
प्रलयादागतं प्रालेयं हिमम् । “तत आगते” ( ६ | ३ | १४९ ) इत्यण् । “देविकाशिंशपादीर्घसत्रश्रेयसस्तत्प्राप्तावा: " ( ७।४।३) एषां चतुर्णामादिस्वरस्य वृद्धिप्रसङ्गे आकार आदेशो भवति । देविकायां भवं दाविकमुदकम् । देविकाकूले भवा दाविकाकूलाः शालयः । पूर्वदेविका नाम प्राच्यग्रामस्तत्र भवः पूर्वदाविकः; अत्र “प्राग्ग्रामाणाम् ” ( ७|४|१७ ) इत्युत्तरपदवृद्धिप्राप्तिः ॥ शिंशपाया विकारः शशिपः स्तम्भः । शिंशपास्थले भवाः शांशपास्थलाः शालयः । पूर्वशिंशपा नाम प्राच्य ५ ग्रामस्तत्र भवः पूर्वशांशपः ॥ दीर्घसत्रे भवं दार्घसत्रम् ॥ श्रेयोऽधिकृत्य कृतं श्रायसं द्वादशाङ्गम् ॥ तत्प्राप्ताविति किमर्थम् ? सुदेविकायां भवः सौदेविक इत्यत्र निषेधार्थम्, पूर्वोत्तरपदानामपि यथा स्यादित्येवमर्थं च, अन्यथा हि केवलानामेव स्यात् ॥ "वहीनरस्यैत्" ( ७|४|४) अस्य णिति तद्धि परे आदिस्वरस्य ऐः स्यात् । वहीनरस्यापत्यं वैहीनरिः । वहीनरस्येवं वैहीनरम् । विहीनरस्य वृद्ध्या सिद्ध्यति, वहीनरस्य वाहीनरिर्मा भूदिति वचनम् । “प्रोष्ठभद्राज्जाते" ( ७।४।१३ ) पदस्येति अनु- १० वर्त्तते । आभ्यां परस्य पदशब्दस्य आदिस्वरस्य जातार्थे विहिते ञ्णिति तद्धिते परे वृद्धिः स्यात् । प्रोष्ठपदासु जातः प्रोष्ठपादः, भद्रपादो माणवकः । जात इति किम् ? प्रोष्ठपदासु भवः प्रौष्ठपदो मेघः । ऊर्ध्वमौहूर्तिक इति “सप्तमी चोर्ध्वमौहूर्त्तिके” ( ५| ४ | ३० ) इति निपातनात् । गुरुलाघवमिति गुरोलाघवम् गुरुश्च गुरुत्वं लाघवं चेति वा । संहतपारार्थ्यमिति, संहते पारार्थ्यमिति सिद्धमतो नार्थ उत्तरपदवृद्ध्येति । "अंशाहतो : " ( ७|४|१४ ) । अंशवाचिनः शब्दात्परस्य ऋतुवाचिन उत्तरपदस्यादिवरस्य १५
३३१
ति तद्धिते वृद्धिः स्यात् । पूर्वासु वर्षासु भवः पूर्ववार्षिकः "वर्षाकालेभ्य” ( ६।३।८० ) इतीकण् । पूर्वशारदः, अपरनैदाघः, पूर्वमनः; ऋत्वण् । अंशादिति किम् ? पूर्वासु ऋत्वन्तरैर्व्यवहितासु वर्षासु भवः पौर्ववर्षिकः । “सुसर्वार्द्धाद्राष्ट्रस्य ” ( ७|४|१५ ) । उत्तरपदस्यादिस्वरवृद्धिः, व्णिति । सुपाश्र्वालकः । सर्वपाञ्चालकः । अर्द्धपाश्चालकः । सुमागधकः । सर्वमागधकः । “बहुविषयेभ्यः” ( ६।३।४५ ) इत्यकं । "अमद्रस्य दिशः" ( ७|४|१६ ) | दिग्वाचिनः परस्य राष्ट्रवाचिशब्दस्य २० मद्रशब्दवर्जितस्य उत्तरपदस्यादिस्वरवृद्धिः, व्णिति तद्धिते । पूर्वपाञ्चालकः । अपरपाञ्चालकः । अमद्रस्येति किम् ? पौर्वमद्रः । दिश इति किम् ? पूर्वं पञ्चालानां पूर्वपञ्चालाः, अंशिसमासः; तेषु भवः पौर्वपचालकः । अवयववृत्तेरपि पूर्वशब्दस्य दिशि दृष्टत्वेन दिक्शब्दत्वात्तदन्तविधौ सति "बहुविषयेभ्यः" इत्यकम् । ये एकत्वस्य दिक्शब्दत्वं नेच्छन्ति, तन्मते तदन्तविध्यभावेऽणेव - पौर्वपञ्चालः । "प्राग्ग्ग्रामाणाम्” (७|४|१७ ) । प्राग्देशप्रामवाचिनां योऽवयवो दिग्वाची ततः परस्यावयवस्य २५ दिशः परेषां च प्राग्ग्रामवाचिनां णिति तद्धिते परे आदिस्वरस्य वृद्धिः स्यात् । पूर्वकृष्णमृत्तिका नाम प्राक्षु ग्रामस्तत्र भवः पूर्वकार्ष्णमृत्तिकः । एवमपरकार्ष्णमृत्तिकः । पूर्वेषु कामशमी नाम प्राग्ग्रामस्तत्र भवः पूर्वेषुकामशमः । एवमपरेषुकामशमः । बहुवचनात् ग्रामग्रहणेन नगरमपि गृह्यते । पूर्वस्मिन कन्यकुब्जे भवः पूर्वकान्यकुब्जः । अपरकान्यकुब्जः । एवं पूर्वपाटलिपुत्रकः । प्राग्ग्रहणं किम् ? देवदत्तं नाम वाहीकग्रामः, पूर्वस्मिन् देवदत्ते भवः पौर्वदेवदत्तः । आपरदेवदत्तः । " सङ्ख्याधिकाभ्यां ३० वर्षस्याsभाविनि ” ( ७।४।१८ ) । सङ्ख्यावाचिनोऽधिकशब्दाच्च परस्य वर्षशब्दस्य ति तद्ध आदिस्वरस्य वृद्धिः स्यात्, न चेत्स तद्धितो भावीत्यर्थे विहितः स्यात् । द्वाभ्यां वर्षाभ्यां निवृत्तो भूतोऽधीष्टो द्वे वर्षे भूतो वा द्विवार्षिकः । त्रिवार्षिकः । अधिकवार्षिकः । अभाविनीति किम् ? द्वे वर्षे भावि द्वैवर्षिकं त्रैवर्षिकं धान्यम् । द्वाभ्यां वर्षाभ्यां भृतोऽधीष्टो वा कर्म करिष्यति द्विवार्षिको मनुष्य इति । अधीष्टभृतयोः प्रत्ययो न भाविनीति निषेधो न भवति । गम्यते ह्यत्र भविष्यत्ता न तु प्रत्ययार्थः । "मानसंवत्सरस्याऽज्ञाणकुलिजस्यानान्नि” ( ७|४|१९ ) । मीयते परिच्छिद्यते येन तन्मानं ३६
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International