________________
३३०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
1
भवति, जिह्वाकात्यहरितकात्यौ वर्जयित्वेति । यथेह ईयो भवति - चारायणीयाः, पाणिनीयाः, जैमिनीयाः, रौढीयाः; तथा कम्बलचारायणीयाः, ओदनपाणिनीयाः, कडार जैमिनीयाः, धृतरौढीया इत्यादावपि भवति ॥ यथा वेहान् भवति - शाकलाः, काण्वाः, दाक्षाः, पान्नागाराः; तथा त्रैहिशालाः पैङ्गलकाण्वाः, कापिलदाक्षाः, क्षैरपान्नागाराः, इत्यत्रापि भवति । अजिह्वाकात्यहरितकात्यादिति किम् ? ५ यथेह ईयो भवति, कात्यस्य छात्राः कातीयाः, तथा इह न भवति - जिह्वाचपलः कात्यो जिह्वाकात्यस्तस्येमे छात्रा जैह्राकात्याः । हारितकात्याः ॥ १ ॥
उपगोरपत्यम् अनन्तरं वृद्धं चेति वाक्ये | उपगोरपत्यमित्यादि, अत्र सूत्रम् ।
षष्ठ्यन्तान्नाम्नोऽपत्येऽर्थे *यथाभिहितमणादयः स्युः ॥ २ ॥
"ङसो ०" ङसूग्रहणस्य षष्ठयुपलक्षणत्वात्षष्ठी लभ्यते । *यथाभिहितमिति - उपगोरपत्यं औपगवः । धानपतः । दैत्यः । औत्सः । स्त्रैणः । पौनः । अपत्य इत्यपत्यमात्रं विवक्षितं, न लिङ्गसङ्ख्यादि; तेन द्वयोर्बहुषु स्त्रीलिङ्गादौ च भवति । औपगवौ । औपगवाः । औपगवीत्यादि । उस इति किम् ? देवदत्तेऽपत्यम् । अपत्ये इति किम् ? भानोरयं भानवीयः 'तस्येदम् ' ( ६।३।१६० ) इत्येवाणादिसिद्धाव१५ पत्यविवक्षायां तदपवादबाधनार्थं वचनम् । तेन भानोरपत्यं भानवः अत्र “दोरीयः” ( ६।३।३२ ) इतीयो न भवति । कम्बल उपगोरपत्यं दत्तस्येत्यत्र तु असामर्थ्यान्न भवति ॥ २ ॥
१०
ङसोऽपत्ये ॥ २ ॥ [ सि० ६ १२८ ]
आद्यात् ॥ ३ ॥
अपत्यार्थप्रत्यया आद्यात्परमप्रकृतेरेव स्युः । "ऐकार्थ्ये ० " ( ३।२।८ ) इति विभक्तिलपि उपगु अणू इति स्थिते, णकारो वृद्ध्यर्थः ॥ ३ ॥
२५
[ सि० ६।१।२९ ]
२०
“आद्या०” परमप्रकृतेरेवेति - पौत्राद्यपत्यं सर्वं पूर्वजानामापरमप्रकृतेः पारम्पर्येण सम्बन्धादपत्यं भवति । तत्र तैस्तैः सम्बन्धविवक्षायामनन्तरवृद्धयुवभ्योऽपि प्रत्ययः प्राप्नोतीति नियमार्थमारम्भः । उपगोरपत्यमनन्तरं वृद्धं वा औपगवः, तस्याप्यौपगवः, औपगवेरप्यौपगवः; गर्गस्यापत्यं पौत्रादि गार्ग्यः, गार्गेरपि गार्ग्यः । गार्ग्यस्यापि गार्ग्यः, गार्ग्यायणस्यापि गार्ग्यः । अनन्तरादयोऽपि परमप्रकृतिरूपेणैवापत्ये प्रत्ययमुत्पादयन्ति ॥ ३ ॥
वृद्धिः स्वरेष्वादेर्जिणति तद्धिते ॥ ४ ॥ [ सि० ७|४|१] ञिति णिति च तद्धिते परे प्रकृतेराद्यस्वरस्य वृद्धिः स्यात् । औपगवः ॥ ४ ॥
“वृद्धिः०” स्वरेष्विति व्यञ्जनापेक्षाव्युदासार्थम् । तेन स्वरापेक्षया य आदिस्वरस्तस्य वृद्धिर्भवतीति । अत्रायं विशेष:-“केकयमित्रयुप्रलयस्य यादेरियू च" ( ७१४।२) एषां त्रयाणामादिस्वरस्य वृद्धिर्यादेश्व शब्दरूपस्य इयादेशो भवति । केकयस्यापत्यं कैकेयः । “राष्ट्र क्षत्रियात् ० " ( ६।१।११४ ) इत्यन् । मित्रं यातीति "पीमूगमित्र ० " ( उणा० ७४१ ) इति सूत्रेण किदुप्रत्यये मित्रयु - मित्रवत्सलः । मित्रयोर्भावः मैत्रेयिकया लाघते "गोत्रचरण ०" ( ७/११७५ ) इत्यादिनाकञ् ।
३१
Jain Education International
१ तस्य तस्येदमित्यणोऽपवादो यो दोरीय इत्यादिस्तस्य बाधनार्थमन्यथा दुसंज्ञकादपत्यविवक्षायामपि ईय एव स्यात् ।
२ अयमर्थः - उपगोरित्यस्य कम्बलेन सम्बन्धिवान तत्सम्बन्धित्वेनापत्यं वक्तुमण्प्रत्ययः समर्थः ।
For Personal & Private Use Only
www.jainelibrary.org