________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः
३२९ उदपान, विकर, विनद, महानद, महानस, महाप्राण, महाप्रयाण, तरुण, तलुन, धेनु, पति, जगती, बृहती, त्रिष्टुभ् , अनुष्टुभ् , जनपद, भरत, उशीनर, प्रीष्म, अच्छन्दसि, पीलुकुण, उदस्थान, देशे, वृषद्, अंशे, वृषदंश इत्यन्ये । अच्छन्दसीत्यादयोऽर्थविशेषनिर्देशार्थाः सप्तम्यन्ताः । भल्लकीय, रथन्तर, मध्यन्दिन, बृहत् , महिमन् , मिहदित्यपि केचित्, सत्वच्छदी मत्वन्तः । सत्वतोऽपत्यं तत्र भवो वा सात्वतः । अन्ये तु नागममिच्छन्ति सात्वन्तः । कुरु, पश्चाल, इन्द्रावसान, उष्णिह्, ककुभ् अकारान्तावेतावित्यन्ये ।५ सुवर्ण, हंसपथ, वर्द्धमान, इत्युत्सादिः एकचत्वारिंशत्परिमाणः। “वष्कयादसमासे' (६।१।२०)। बष्कते गोर्दूरं "गयहृदयादयः” (उ० ३७०) बष्कतेऽल्पक्षीरतां अच् पृषोदरादित्वात् षत्वम् । “आतो डो." (५।११७६) इति डे "ड्यापो बहुलं नाम्नि" (२।४।९९) इति हस्खे बष्कयस्तस्यापत्यं बाष्कयः । समासे तु इनेव. सुबाष्कयिः । “देवाद्यञ्च " (६।१।२१) चकारादपि । देवस्येदं देवादागतं वा दैव्यम् दैवम् । यत्रन्दादमन्ताच त्यां दैवी वाक् । “यमो डायन् च वा” (२।४।६७) १० इति डायनि दैव्यायनीत्यपि । केचित्तु अप्रत्ययमिच्छन्ति, तन्मते दैव्या। "अः स्थान:” (६।१।२२) स्थामनशब्दात् प्राग्जितीयेऽर्थे अः प्रत्ययः स्यात् । अश्व इव तिष्ठति "मन्वनक्वनिप्०” (५।१११४७) पृषोदरादित्वात्सस्य तः इष्टिवशात्तदन्तविधिः । अश्वस्येव स्थाम यस्येति बहुव्रीहिरिति केचित् । अश्वस्थान्नोऽपत्यं आश्वत्थामः "नोऽपदस्य तद्धिते” (७।४।६१) इत्यन्तस्वरादिलुक् । “लोनोऽपत्येषु" (६।१।२३)। अः स्यात् । उडुलोनोऽपत्यानि उडुलोमाः । उडुलोमैः । अपत्येष्विति बहुवचनादेकस्मि-१५ नपत्ये द्वयोश्च बह्वादित्वादिभेव-औडुलोमिना। "द्विगोरनपत्ये यखरादेलबद्विः" (६।१।२४ )। अपत्यार्थ विनान्यस्मिन् प्राजितीयेऽर्थे उत्पन्नस्य द्विगोः परस्य यकारादेः स्वरादेश्च प्रत्ययस्य सकल्लुब्भवति, न तु द्विः । द्वयो रथयोरिथ्या वायं वोढा द्विरथः "रथात्सादेश्च वोदऽङ्गे" (६।३।१७५) इति यः, तस्य लुप् । पञ्चसु कपालेषु पञ्चकपाल्यां वा संस्कृतः पश्चकपालः । पञ्चेन्द्राण्यः पञ्चेन्द्राणि वा देवताऽस्य पञ्चेन्द्रः । चतुरोनुयोगान् चतुरनुयोग वाऽधीते चतुरनुयोगः । एवं त्रिवेदः, एध्वणो लुप् । २० द्विगोरिति किम् ? पौर्वशाल:-पूर्वा चासौ शाला च । तत्र "भवे” (६।३।१२३) ऽण् । यदा तु पूर्वस्या शालायां भवः, तदा "दिक्पूर्वादनानः" (६।३।२३) इति णः । “विगधिकम्०" (३३१४९८) इति समासश्च । व्यवयवा विद्या त्रिविद्या तामधीते त्रैविद्यः, नायं द्विगुरिति । अनपत्य इति किम् ? द्वैमातुरः। पाञ्चनापितिः । यस्वरादेरिति किम् ? पञ्चभ्यो गर्गेभ्य आगतं पश्चगर्गमयम् । अद्विरिति किम् ? पञ्चसु कपालेषु संस्कृतं पश्चकपालं, तस्येदं पाञ्चकपालम् । एवं त्रैवेदम् । प्राग्जितादित्येव-द्वौ रथौ वहति २५ द्विरथ्यः । “वहति०” (७।१।२) इत्यादिना यः, तस्य लुब् न भवति ॥ "प्रागवतः स्त्रीपुंसानञ्लम्" (६।१।२५)। प्राग्वतो येऽर्थास्तेष्वनिदम्यणपवादे च स्त्रीशब्दात् पुंसशब्दाच्च यथासङ्ख्यं नञ्नब्प्रत्ययौ भवतः । स्त्रिया अपत्यं स्त्रीणां समूहः स्त्रीषु भवं बैणम् । एवं पौस्नम् । स्त्रीणामियं जैणी एवं पौंस्नी । स्त्रीणां निमित्तं संयोग उत्पातो वा त्रैणः । पौनः । स्त्रीभ्यो हितं स्त्रैणम् । पौत्नम् । प्रागवत इति किम् ? स्त्रिया अहं कृत्यं स्त्रिया तुल्यं वर्तत इति वा स्त्रीवत् । बकारो मित्कार्यार्थः ॥३० "त्वे वा” (६।१।२६)। त्वे विषये भावे इति यावत् एतौ नसमौ वा स्याताम् । स्त्रिया भावः त्रैणम् , स्त्रीत्वम् , स्त्रीता । पौंस्नम्, पुंस्त्वम् , पुंस्ता । पुनर्वाग्रहणं प्रत्ययविकल्पार्थम् ॥ "गोः खरे य" (६।१।२७) । गोशब्दात् स्वरादितद्धितप्रसङ्गे यः प्रत्ययो भवति । गोरपत्यं गवि भवं गोरिदं गव्यम् । गौर्देवताऽस्य, गवा चरति, गव्यः । स्वर इति किम् ? गोभ्यो हेतुभ्य आगतं गोरूप्यम् । गोमयम् ॥ “गोत्रोत्तरपदाद्गोत्रादिवाजिह्वाकात्यहरितकात्यात्" (६।१।१२)। गोत्रमपत्यम् । गोत्रप्रत्ययान्तमुत्तरपदं यस्य तस्मात्समुदायात् गोत्रप्रत्ययान्तं यदुत्तरपदं तस्मादिव वक्ष्यमाणः प्रत्ययो ३६
है• प्रका० पूर्वा० ४२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org