________________
३२८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुदीन् ब्यो बाधिष्यते, किमणपवादग्रहणेनेत्यत्रोच्यते । अत्र प्राजितीयस्याणोऽन्योऽपवादो नास्ति । दित्यदित्यादौ, तत्र व्यः सावकाश इति । याम्यवानस्येत्यादावुभयप्राप्तौ परत्वादिनादिरेव स्यात् । अणपवादे चेति वचनात्तुल्य एव स्यादिति । अण्ग्रहणं किम् ? असत्यण्ग्रहणे केवलमपवादे चेत्युक्ते
खापवादविषयेऽपि स्वसमावेशः स्यात्तथा च, वास्तोष्पतिर्देवतास्या इति वाक्ये "देवता" ५(६।२।१०१) इत्यणपवादोऽनेन न्यः प्राप्तस्तदपवादो "द्यावापृथिवी.” (६।२।१०८) इति यस्तस्याप्यपवादोयं पत्युत्तरपदलक्षणो व्यः स्यात्ततश्च "तद्धितः स्वरवृद्धिहेतुः०" (३।२।५५) इत्यादिना पुंवद्भावनिषेधाद्वास्तोष्पत्या भार्य इति स्यात् । अण्ग्रहणे तु अणपवादे एव ञ्यस्य प्राप्तिन तु व्यस्यापवादेऽपीति । “द्यावापृथिवी.” इति ये सति वास्तोष्पत्याभार्य इति स्यादिष्टं चैतदिति ।
अनिदमीति किम् ? अदितेरपत्यमादित्यस्तस्येदमादितीयम् । “तद्धितयस्वर०" (२।४।९२) इति य१० लुप् । अत्र इदमर्थे अणपवादे "दोरीय" (६।३।३२ ) एव न तुल्यः । व्य इत्यत्र अकारस्य वृद्धिः ।
"बिषादणियोः" (६।१।१४०) इति च प्रयोजनम् । तञ्चैवम्-यमस्य वृद्धमपत्यं याम्यस्तस्य युवापत्यं 'अत इज्' तस्य “बिदार्षादणियोः” इति लोपे याम्यः पिता पुत्रश्चेति । “बहिषष्टीकण च" (६।१।१६)। बहिषशब्दात प्रागजितीयेऽर्थे टीकण्व्यश्च स्यात्। बहिर्जातो बाहीकः बाह्यः, "प्रायोऽव्ययस्य"
(७।४।६५) इत्यन्त्यस्वरादिलोपः, टकारो यर्थः, बाहीकी । बाहीक इति जातेऽर्थे, भवे तु “यज्ञे ज्यः" १५ (६।३।१३४) इत्यधिकारे “गम्भीरपञ्चजन०” (६।३।१३५) इति ज्य एव स्यान्न टीकण् । ज्योऽप्यत्र
जात एव, भवे तु सिद्ध एव । "कल्यग्नरयण्” (६।१।१७)। आभ्यामेयण् स्यात् । इतः सूत्रादारभ्य "देवाद्यञ् च” (६।१।२१) इति सूत्रान्तषट्सूत्र्यां प्राग्जितीयेऽर्थेऽनिदम्यणपवादे चेति द्वयमनुवर्तनीयम् । कलिर्देवतास्य, कलौ भवं, कलिना दृष्टं साम, कलेरिदं कालेयम् , एवमाग्नेयम् । अण
पवादे च. कलेरागतं कालेयमानेयमत्र "नृहेतुभ्यो रूप्यमयटौ वा” (६।३।१५६) इति रूप्यमयटौ २० स्याताम् । अन्ये तु जितार्थात्परेष्वपि प्राग्वतीयेष्वर्थेषु एयणमिच्छन्ति । कलये हितं कालेयम् , आग्ने
यम् । कलेनिमित्तमुत्पातः संयोगो वा कालेयः, आग्नेयः । “पृथिव्या भाञ्” (६।१।१८)। पृथिव्यां भवः पार्थिवः बानोः स्त्रियां विशेषः । पार्थिवा पार्थिवी । अणपवादे च. पृथिव्या अपत्यं पार्थिवः । अत्र एयण् स्यात् । ङी-बहुषु लुप्, सङ्घादिष्वणिति प्रयोजनमविधानस्य । “उत्सादेरम्" (६।१।१९) उत्सस्येदमौत्समौदपानम् । अणपवादे च. उत्सस्यापत्यमौत्सः, औदपानः । अत्रात इञ् २५ प्राप्नोति, उत्सो निर्झरः। "उत्सः सवः प्रस्रवणमिति वचनात" । तस्यापत्यं तु गाड्यादिवत । तरुण्या
अपत्यं तारुणः, तालुनः । अत्र "डयाप्त्यूङः” (६।११७०) इत्येयण प्राप्नोति । पञ्चालेषु भवः पाञ्चाल:अत्र “ईतोऽकम्” (६।३।४१) इत्यधिकारे “बहुविषयेभ्यः” ( ६।३।४५) इत्यकञ् प्राप्नोति । कुरोरपत्यं कौरव्य इति ब्यविधौ कुरुशब्दोपादानस्यानवकाशत्वाद्भवति । राष्ट्रक्षत्रियवाचकस्य दुनादीत्यादिना ब्राह्मणवाचकस्य तु "कुर्वादेर्व्यः” (६।१।१००) इति व्यः । कौरव इति त्वपत्यस्यापीदमर्थविवक्षायां
भवति । उत्तरत्र बष्कयशब्दस्य समासे प्रतिषेधादुत्साद्यन्तस्यापीह प्रत्ययः । तेन गोधेनुभ्यां आगतं ३१ गौधेनवम्, “जङ्गलधेनु०” (७।४।२४ ) इति वोत्तरपदवृद्धिः, अन्यथा रूप्यमयटौ स्याताम् । उत्स,
१ पार्थिवेति जातिखेऽप्यजादित्वादाप, यद्वा प्रत्ययद्वय विधानस्य व्याप्तिपुरःसरखेन व्याख्यानादाबित्यनेनैवाप न तु जातिद्वारा डीः।-बहुषु लुबिति । पृथिव्या अपत्यानि, अनेनाव् वा यवनः-इति लुप् 'ड्यादे:'--इति डीनिवृत्तिन गौरादौ पृथिवीति पाठात् । “गोश्चान्तः"-हखले जसि पृथिवयः । संघादिष्विति । पृथिव्या अपत्यानि अओ लुपि पृथिवीनां सवादीति विवक्षायां 'गोत्राददण्ड'-इत्यक विषये 'न प्राग्जितीये'-इति अओ लुबभावे अकबाधके 'सङ्घघोषाक'इत्यणि पार्थिवः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org