________________
३२७
३२७
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । अथ तद्धिता निरूप्यन्ते
प्रणम्य परमब्रह्मस्वरूपं ज्योतिरान्तरम् ।
खोपज्ञप्रक्रियावृत्तौ तद्धिते किश्चिदुच्यते ॥ १ ॥ अथ-क्रमप्राप्तं तद्धितं निरूपयितुमाह।
तद्धितोऽणादिः ॥ १॥ [सि० ६।१।१] *वक्ष्यमाणाः प्रत्ययास्तद्धितसंज्ञाः स्युः । “वाद्यात्" (६।१।११) "प्रागजितादण" (६।१।१३) इित्याद्यधिकृतम् । उपगोरपत्यम् अनन्तरं वृद्धं चेति वाक्ये ॥१॥ ___ "तद्धि०” । तस्मै लौकिकवैदिकशब्दसन्दर्भाय, ताभ्यः प्रकृतिवृत्तिभ्यो वा हितः । आयं मतं जैनेन्द्रस्य, द्वितीयमुत्पलस्य; “हितादिभिः" (३।१।७१) इति समासः । *वक्ष्यमाणाः प्रत्यया इत्यत्र अणादय इति शेषः । “वाद्या."। वा इति आद्यादिति द्वयमधिकृतं ज्ञेयम् । तत्र वाऽधिकारात् १० (इत ऊर्द्ध) वक्ष्यमाणाः प्रत्यया विकल्प्यन्ते । तेन पक्षे वाक्यं समासश्च भवति । उपगोरपत्यमुपग्वमिति-उत्सर्गरूपस्तु तद्धितोऽपवादविषये "पीलासाल्वामण्डूकाद्वा” (६।१।६८) इत्यादौ वाग्रहणान्न भवति । आद्यादित्यधिकारात्सूत्रे यदादौ निर्दिष्टं तस्मात्प्रत्ययो भवति । तेन "सास्य०" (६।२।९८) इत्यधिकारे "देवता" (६।२।१०१ ) इत्यादौ सेति प्रकृतिरस्येति प्रत्ययार्थो व्यवस्थितो भवति । इन्द्रो देवताऽस्य ऐन्द्रो मत्र इति । "प्राग्०” । तद्धितचतुर्थपादस्यादौ “तेनजितजयदीव्यत्खनत्सु"१५ (६।४।२) इति द्वितीयसूत्रे यज्जितशब्दसङ्कीर्तनं तस्मात्प्राक् सम्पूर्ण पादत्रयं यावद्येऽपत्यादयोऽर्थास्तेष्वपवादविषयं विहायाण अधिकृतो भवति । णकारो वृद्ध्यर्थः । अधिकारः परिभाषाविधिर्वायमिति । इित्यादिकरणाच "धनादेः पत्युः" (६।१।१४) धनादेर्गणात्परो यः पतिशब्दस्तदन्तात्प्रागजितीयेऽर्थेऽणप्रत्ययो वा भवति । धनपतेरपत्यं तत्र भवस्तत आगतो वा धानपतः । आश्वपतः । राष्ट्रपतेरिदं राष्ट्रपतम् ।, धन अश्व, गज, शत, गण, कुल, गृह, पशु, धर्म, धन्वन् , सेना, सभा, क्षेत्र, २० (अति ? ) अधि, राष्ट्र, धान्य, प्राण इति सप्तदशको धनादिः । केचिद् गृहसेनाशब्दौ न पठन्ति । तन्मते गार्हपत्यं सैनापत्यमित्युत्तरेण व्य एव । पत्युत्तरपदलक्षणस्य ज्यस्य, राष्ट्रादित्रये "दोरीयः" ( ६।३।३२ ) इति ईयस्य चापवादोऽयम् ॥ “अनिदम्यणपवादे च दित्यदित्यादित्ययमपत्युत्तरपदायः " (६।१।१५)। दिति-अदिति-आदित्य-यमशब्देभ्यः पत्युत्तरपदाच्च प्रागजितीयेऽर्थे इदमर्थवर्जितेऽपत्यादावर्थे योऽणोऽपवादः प्रत्ययस्तद्विषये च व्यः स्यात् । दितेरपत्यं दितिर्देवतास्य २५ वा दैत्यः । एवं अदितेरादित्यः । आदित्यस्य आदित्य्यः । यमस्य याम्यः । पत्युत्तरपद. बृहस्पतेरपत्यं बृहस्पतिर्देवतास्य वा बार्हस्पत्यः । एवं प्राजापत्यः । अणपवादे च यमस्यापत्यं याम्यः-अत्र परत्वात् "अत इञ्” (६।१।३१) स्यात् । वनस्पतीनां समूहो वानस्पत्यम्-अत्राचित्तलक्षण इकण् स्यात् । ननु व्योऽप्यणपवाद इसादयोऽपि, तत्र यदीनादयो बाधन्ते तदा ज्योऽनवकाशः स्यादितीबा-२९
१ नन्वत्र यथा वक्ष्यमाणतद्धितप्रत्ययानां विकल्पनात्पक्षे वाक्यसमासौ दश्येते, तथा कथमपवादप्रत्ययानां विकल्पने पक्ष नोत्सर्गप्रत्यय इत्याह-उत्स० । २ आद्यादिति विना तु अस्येति प्रकृतिर्देवतार्थे इत्यपि स्यात् । ३ ननु कोऽत्र परिभाषाधिकारयोर्भेदः, उच्यते, परिभाषा हि एकदेशस्थैव सकलं शास्त्रमभिज्वलन्ती व्यवहितेऽपि अनन्तरोत्तरादौ प्रवर्तमाना न प्रतिहत. शक्तिर्भवति, अधिकारस्तु नदीस्रोतोरूपतया अनन्तर एव प्रवर्त्तते न व्यवहिते, विधिरपि युज्यते एव यतः प्राग्जितायेऽर्थाः तेषामिह बुद्ध्या सङ्कलय्य निर्देशातू, तेनानेनैव सर्वेष्वर्थेष्वण विधीयते, अतः पक्षत्रयेऽप्यदोष इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org