________________
३६६
बाध्यते । औदुम्बरमिति - उदुम्बरा अस्मिन् देशे सन्ति औदुम्बरं पुरम् । औदुम्बरो देशो पर्वतो वा ॥ तेषां निवासः, तस्माद्दूरभवमिति - अत्र सूत्रम् " निवासादूरभवे इति देशे नाम्नि” (६।२।६९) षष्ठ्यन्तात् नाम्नो निवास अदूरभव इत्यनयोरर्थयोर्यथाविहितं प्रत्ययः स्यात् । प्रत्ययान्तं चेदेशस्य नाम स्यात् । इति शब्दो विवक्षार्थ:, तेनानुवृत्ते व्यवहारमनुपतिते नाम्नि ज्ञेयं न सङ्गीते । निवसन्त्यस्मिन्निति ५ निवासः । शैबमिति - शिबीनां निवासः शैबं पुरम् । वैदिशमिति - विदिशाया नगर्या अदूरभवं वैदिशं नगरम् । वैदिशो जनपदः । एवं वरणा च असिश्व, एवंनान्यौ नद्यौ तयोरदूरभवा वाराणसी पुरी । त्रीहित्या हिमतम् । यवमत्या यावमतम् । इह केचिदङ्गानां निवासः अङ्गाः । वङ्गाः, कलिङ्गाः, सुह्माः, मगधाः, पुण्ड्राः, कुरवः, पञ्चालाः, मत्स्याः । वरणानामदूरभवं वरणानाम नगरम् । शृङ्गशाल्मलीनां शृङ्गशाल्मयो ग्रामः । गोदयोर्हृदयोगदौ ग्रामः । आलन्यायनपर्णानां आलन्यायनपर्णा ग्रामाः । १० शफण्ड्याः शफण्डी, जालपदाया जालपदा, मथुराया मथुरा, उज्जयन्या उज्जयनी, गयानां गया, उरशाया उरशा, तक्षशिलायास्तक्षशिला, कटुबदर्याः कटुबदरी । खलतिकस्य खलतिकं वनानीत्यादिषु प्रत्ययमुत्पाद्य लुपमारभन्ते, सत्यां च लुपि प्रकृतिवल्लिङ्गवचने च मन्यन्ते । तदयुक्तम् । अत्र हि प्रकृतिमात्रमेव देशनाम न प्रत्ययान्तम्, प्रत्ययान्तस्य च देशनामत्वे प्रत्ययो विधीयते इति न भवति । तस्य निवास इत्यादिविवक्षायां तु वाक्यमेव । प्रत्ययाभावाच्च लुबपि न वक्तव्या । अङ्गवरणादीनां च १५ क्षत्रियवृक्षादिवज्जनपदनगरादौ स्वत एव वृत्तिर्न प्रत्ययमयोगात्, लिङ्गसयोपादानं च स्वगतमेवेति ॥ तेन निर्वृत्तं चेति अत्र सूत्रम् " तेन निर्वृत्ते च" ( ६।२।७१ ) तेनेति तृतीयान्तान्निर्वृत्तमित्यस्मिन्नर्थे यथाविहितं प्रत्ययः स्यात्, देशे नाम्नि । यदा अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्तीति कर्मणि निर्वृत्तशब्दो व्युत्पाद्यते, तदा तेनेति कर्त्तरि करणे वा तृतीया । यदा त्वकर्मविवक्षया कर्त्तरि निर्वृत्तशब्दस्तदा हेतौ तृतीया । कौशाम्बीति - कुशाम्बेन निर्वृत्ता कौशाम्बी । एवं ककन्दे - २० न काकन्दी । मकन्देन माकन्दी | सगरैः सागरः । सहस्रेण निर्वृत्ता साहस्री परिखा । चकारश्चतुर्णा योगानामुत्तरत्रानुवृत्त्यर्थः, तेनोत्तरे प्रत्यया यथायोगं चतुर्ष्वर्थेषु देशे नानि च भवन्ति । *उदुम्बरावतीति-अत्र सूत्रम् “नद्यां मतुः " ( ६।२।७२ ) नद्यां देशे नाम्नि चातुरर्थिको मतुः स्यात् । अगोऽपवादः । उदुम्बरा अस्यां सन्ति उदुम्बरावती नदी । एवं मशकावती वीरणावती पुष्करावती इक्षुमती अमरावती इक्षुवती द्रुमवती शरावती इरावती " अनजिरादिबहुखरशरादीनां २५ मतौ ” ( ३।२।७८) अजिरादिवर्जित बहुस्वराणां शरादीनां च मतौ दीर्घः स्यात् । बहुस्वर उदुम्बरावतीत्यादि शरादि . शरावतीत्यादि । एवं वंशावती । शुचीमति "नोर्म्यादिभ्यः” ( २।१।९९ ) इति वत्वाभावः । वार्दावान्नामगिरिः । वेटावान्नाम गिरिः । शर, वंश, शुचि, कुश, धूम, अहि, कपि, मुनि, मणि, वार्द, वेट इत्येकादश शरादयः । बहुवचनमाकृतिगणार्थम् तेन ऋषीवती मृगावती पद्माती वातावती भोगावतीत्यादि सिद्धम् । बहुस्वरशरादीनामिति किम् ? त्रीहिमती इक्षुमती द्रुमती ३० मधुमती । बहुस्वरस्यानजिरादिविशेषणं किम् ? अजिरवती, खदिरवती, स्थविरवती, पुलिनवती, मलयवती, हंसकारण्डवती, चक्रधारवती, चक्रवाकवती चक्रस्येव वाको वाग् यस्य स चक्रवाकः; अलङ्कारवती, शशाङ्कवती, हिरण्यवती, अजिरादिराकृतिगणः । नाम्नीत्येव - वलयवती कन्या शरवती ३३ तूणा || भगीरथेन निर्वृत्ता भागीरथी, भैमरथी, जाह्नवी, सौवास्तवी । अमत्वन्तान्येव भागीरथ्यादीनि
1
महामहोपाध्याय श्री विनयविजयगणिविरचिते खोपज्ञहै मलघु
-
१ केवलैव प्रकृतिः प्रत्ययमन्तरेण देशनाम इत्यर्थः । २ स्वमतमेव द्रढयन्नाह । ३ वरं ददातीति 'आतो डः' इति ङः, वार्दा मेघाः ते सन्त्यत्र मध्वादेः' इति मतुः । ४ वेदन्ति पक्षिभिः वेटा वृक्षास्ते सन्त्यत्र ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org