SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । चातुरर्थिकप्रत्ययाधिकारः ३६७ नदीनामानीति मतुर्न भवति । मिधुमानिति-अत्र सूत्रम् “मध्वादेः" (६।२।७३) । एभ्यश्चातुरर्थिको मतुर्देशे नाग्नि । अणोऽपवादः । अनद्यर्थ आरम्भः । एवं विसवान् स्थाणुमान् । मधु, बिस, स्थाणु, ऋषि, इक्षु, वेणु, कर्कन्धु, कर्कन्धू, शमी, करीर, हिम, किसर, सार्पण, रुवत् , पार्दा, कीशरु, इष्टका, पार्दाकी, शरु, शुक्ति, आसुति, स्तुत्या, आसन्दी, शकली, वेट, पीडा, अक्षशिल, अक्षशिला, तक्षशिला, आमिषी इति मध्वादिः । “नड."। (६।२।७४) सूत्रं स्पष्टम् । नड्वान् कुमुद्वान् इति-५ एवं वेतवान् । महिष्मान देशः, तत्र भवा माहिष्मती नगरी । डित्त्वमन्त्यस्वरादिलोपार्थम् । “नड." (६।२।७५) आभ्यां डिद्वलः प्रत्ययः स्यात् । मत्वणाद्यपवादः । आदिशब्दोपादानात् “शिखाया:" (६।२७६) अस्मात् वलः स्यात्, चातुरर्थिको देशे नाम्नि । अणोऽपवादः । पृथग्योगाड्डिदिति निवृत्तम् । शिखावलं नाम नगरम् । मतुप्रकरणे शिखाया वेलचं वक्ष्यति तत् अदेशार्थं वचनम् । "शिरीषादिककणो” (६।२।७७ ) । शिरीषाणाम-१० दूरभवो ग्रामः शिरीषिकः, शैरीषकः । “शर्कराया इकणीयाऽण् च" (६।२।७८ ) । शर्कराशब्दात् इकण ईय. अण. चकारात् इक. कण. इत्येते पञ्च प्रत्यया भवन्ति । शर्करा अस्मिन्देशे सन्ति शार्करिकः शर्करीयः शार्करः शर्करिकः शार्करकः । शिरीषाः शर्करा इति प्रत्यययोगमन्तरेणापि देशे वृत्तिरिति पूर्ववत्प्रत्ययो न भवति । "रोऽश्मादेः" (६।२७९) । अश्मरः, यूपरः । अश्मन् , यूष, ऊष, गूथ, (यूथ ? ), मीन, गुद, दर्भ, कूट, गुहा, वृन्द, नग, कण्ड, गह्व, कन्द, पामन् , इत्य-१५ श्मादयोऽष्टादश । "प्रेक्षादेरिन्” ( ६।२।८०) प्रेक्षी, फलकी । प्रेक्षा, फलका, बन्धुका, धुवका, ध्रुवका, क्षिपका, कूप, पू (पु ? ) क, धू (धु) क, इकट, कङ्कट, सङ्कट, मह, गर्त्त, न्यग्रोध, परिवाप, यवाष, हिरण्य इति प्रेक्षादयोऽष्टादश । “तणादे: सल" (६।२।८१) । तृणसा नदसा। तृण, नद, जन, पर्ण, वर्ण, अर्णसू, वरण, बिल, तुस, वन, पुल, इति तृणादय एकादश । "काशादेरिल" (६।२।८२) । काशिलम् वाशिलम् । काश, वाश, अश्वत्थ, पलाश, पीयुक्षा, २० पाश, विश, तृण, नल, वन, नलवन कर्दम, कर्पूर, बर्बर बबूल (वर्तल ?), शीपाल, कण्टक, गुहा, कपित्थ इति काशादय एकोनविंशतिः । “अरीहणादेरकण्” (६।२।८३ ) । आरीहणकम् । अरीहण, खण्डु, खण्डू, द्रुघण, किरण, खदिर, भगल, भलन्दन, उलुन्द, खावुरायण, १० खापुरायण खानुरायण, कौष्ठायन, कौद्रायण, भात्रायण, त्रैग"यन, रैवत, रायस्पोष, विपथ, विपाश, २० उद्दण्ड, उदञ्चन, ऐडायन, जाम्बवत, जाम्बवत्, शिंशपा, वीरण, धौमतायन, यज्ञदत्त, सुयज्ञ ३० २५ बधिर, बिल्व, जम्बू, साम्बुरायण, सौशायन, सौमायन, शाण्डिल्यायन, श्वित्रायणि, साम्बरायण, कश , ४० कृत्स्न, सुदर्शन ४२ इत्यरीहणादयो द्विचत्वारिंशत् । “सुपन्थ्यादेयः” (६।२।८४)। २७ १'कृष्यादिभ्यो वलच् । २ न वाच्यं सामान्यनोत्तरेण देशेऽप्यदेशेपि भविष्यतीति यतोऽत्राणोपवाद इत्युक्तम् । ततश्चादेशे तस्य चरितार्थत्वात् देशे "निवासादूरभवे" इत्यादयः स्युः । ३ नम्वेवंविधान्यपि देशनामानि दृश्यन्ते तदर्थ प्रययलुप् वक्तव्येत्याशङ्का । ४ सुपन्ध्यादिर्विचार्यते । शोभनः पन्थाः सुपन्थाः सुपन्थिन् गणपाठात् वले सुवन्थिन् । सङ्काशते अच् सङ्काशः । कं सुखं पीलति कम्पीलः । सुष्ट पिपत्ति 'खरेभ्य इ.' सुपरिः । 'यूसुक'-इति यूपः । 'गम्यमि-' इति 'उखनख'इति वा अङ्गः । नाथति अच् नाथः । कूटति 'नाम्युपान्य-' इति के कुटः । कुट्यति अचि कूटः । माद्यन्तं प्रयुते माद्यते स्म मादितः । मार्जनं मर्शनं मर्षणं वा मृष्टिः । 'अगपुलाभ्याम्'-इति अगस्यः तस्यापत्य-मृष्यण आगस्त्यः । शरयतेऽच शूरः। विरमति 'पुतपित्त'-इति यद्वा विरमतीति औणादिके तृप्रत्यये विरन्तरमाचष्टे णिजि विरन्तयति । अचि विरन्तः । विकरोति अचि विशिष्टौ करौ यस्य वा विकरः। नसते 'नसिवसि'-इति नासिका। प्रगदतीत्येवंशीलः प्रगदी। मां गदतीत्येवंशीलः 'डयापो बहुलं नाम्नि' इति ह्रखे मगदी। कटिं ददाति पाति वाति वा कटिदः । कटिपः । कटिवः । चुदण् 'द्वार'-इति चूदारः 'अग्य. गि-' इति मदारः। मृजुमजशन्दे । मजति 'अग्यङ्गि' इति बहुवचनादार-इति वा मजारः । कमेः 'कोविद'-इति कोविदारः ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy