Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 444
________________ ६५७ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । अपत्यमत्ययाधिकारः पश्चालाः । सौराष्ट्रक इति-अयं केवलं राष्ट्रवाची । न तु क्षत्रियस्वरूपः । एवं दाशरथिरिति । अयं हि केवलक्षत्रियवाची नतु राष्ट्रवरूपः । आदिशब्दात् “गान्धारिसाल्वेयाभ्याम्" (६।१।११५) गान्धारिसाल्वेयशब्दौ इयणन्तौ सरूपी राष्ट्रक्षत्रियवचनौ । ताभ्यां प्राग्वत् दिसंज्ञोऽञ् स्यात् । दुलक्षणस्य व्यस्थापवादः (वचनभेदो यथासायनिवृत्त्यर्थः) गान्धारीणां राजा गान्धारे राज्ञोऽपत्यं वा गान्धारः । गान्धारौ । गान्धारयः ।५ बहुवबो लुप् । एवं साल्वेयः । साल्वेयौ । साल्वेयाः । एकत्वद्वित्वयोस्त्वपत्यार्थविवक्षायां "अब्राह्मणात्” ( ६।१।१४१) इति लुप् न स्यात् , विधानसामर्थ्यात् । अन्यथा न्यविधावेवानयोः प्रतिषेधः क्रियेत, तथा च पूर्वेणैवाऽन् सिद्ध्यति ॥ ३६॥ पुरुमगधकलिङ्गशूरमसद्विखरादण ॥३७॥ [सि० ६।१।११६ ] पुर्वादिभ्यो द्विखरेभ्यश्वाण द्रिः स्यात् । पौरवः । आङ्गो राजाऽपत्यं वा ॥ ३७॥ १० "पुरु०” । पौरव इति । पुरोरपत्यं पौरवः । पुरवः । मगधानां राजा मगधस्यापत्यं वा मागधः । मगधाः । एवं कालिङ्गः कलिङ्गाः । शौरमसः शूरमसाः । द्विस्वर. आङ्गः अङ्गाः । एवं वाङ्गः वङ्गाः । सौह्मः सुराः । पौण्ड्रः पुण्ड्राः । दारदः दरदः । द्विस्वरत्वेनैव सिद्धे पुरुग्रहणमराष्ट्रसरूपार्थम् । अस्ति राजा पुरुर्नाम नतु राष्ट्रम् । तस्यौत्सर्गिकेणैवाणा सिद्धे बहुषु लुबर्थमिदमविधानम् । अजैव सिद्धे अग्विधानं सङ्घाद्यबाधनार्थम् । तेनाकम् भवति । पौरवकं मागधकं कालिङ्गकम् , शौरमसकम् , १५ आङ्गकम्, वाङ्गकम् । अवन्ताद्धि गोत्रात् "-अब्यविनः" (६।३।१७२) इत्यण् बाधकः स्यात् । ___ आदिशब्दात् “साल्वांशप्रत्यग्रथकलकूटाऽश्मकादिर" (६।१।११७ ) साल्वा नाम जनपदस्तदंशेभ्यः प्रत्यप्रथादिभ्यश्च इनिभ्यः सरूपेभ्यो यथाई राजन्यपत्ये दिरिब् स्यात् । उदुम्बराणां राजा उदुम्बरस्यापत्यं वा औदुम्बरिः । “उदुम्बरास्तिलखला मकारा युगन्धराः । भुलिङ्गाः शरदण्डाश्च साल्वांशा इति कीर्तिताः ॥ १॥ अजमीढाजकुन्दबुधास्तूदुम्बरादिविशेषाः, तेऽपि साल्वांशा एव । २० प्रत्यप्रथाविग्रहणमसाल्वांशार्थम् ॥ ३७॥ दुनादिकुर्विकोशलाऽऽजादाभ्यः ॥३८॥ [सि० ६।१।११८] दुसंज्ञेभ्यो नादेः कुरोरिदन्तेभ्यः कोशलाऽऽजादाम्यां च द्रियः स्यात् । आम्बष्ठयो राजाऽपत्यं वा । एवं नैषध्यः कौरव्यः आवन्त्यः कौशल्य: आजाबः ॥ "पाण्डोर्यण्” (६।१।११९) पाण्ड्यः ॥ "शकादिभ्यो दुर्लुप्" (६।१।१२०)। शकः । यवनः ॥ ३८॥ इत्यपत्यप्रत्ययाधिकारः । "दुना०" आम्बष्ठानां राजा आम्बष्ठस्यापत्यं वा आम्बष्ठयः, आम्बष्ठाः । सौवीराणां सौवीरस्य वा सौवीर्यः सौवीराः । काम्बव्यः काम्बवाः । दायः दार्वाः । द्विस्वरलक्षणोऽण् परत्वादनेन बाध्यते । एवं दुसंज्ञकाः ॥ निषधानां निषधस्य वा नैषध्यः निषधाः । नैचक्यः निचकाः । नेप्यः नीपाः इत्यादि नादयः ।। कुरूणां कुरोर्वा कौरव्यः कुरवः । अवन्तीनामवन्तेर्वा आवन्त्यः अवन्तयः । कौन्त्यः कुन्तयः । वासात्यः वसातयः । चैद्यः चेदयः । काश्यः काशयः इत्यादि इदन्ताः । कोशलानां कोश-३१ १ ननु गान्धार इत्यत्र लुबभावे फलमस्ति यतो लुप्ते गान्धारिरिति स्यात् , स्थिते तु गान्धारः; साल्वेय इत्यत्र तु किं फलम् ? उच्यते । अत्रालुपि सङ्घादिविवक्षायामण् लुपि तु 'गोत्राददण्ड'-इत्यकञ् स्यात् । २ ननु दुलक्षणभ्यस्य बाधनेन विधानमिदं चरितार्थमिति कुतो विधानसामर्थ्यादित्युक्तमित्याह अन्य० । ३ अगान्धारिसाल्वेयदुनादिकुर्वितकोशलाऽऽजादाय इत्यनया युक्त्या प्रतिषेधे कृते राष्ट्रक्षत्रियादित्यनेनाञ् भविष्यतीत्यर्थः । २५ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560