Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai
View full book text
________________
३२४
महामहोपाध्याय श्रीविनय विजयगणिविरचिते खोपज्ञहैमलघु
पाणाम् । व्रीहिवापान माषवापानित्यत्र त्वनन्त्यस्येत्यधिकारान्न भवति । उत्तरपदेति किम् ? गर्गाणां भगो गर्गभगः । सोऽस्यास्तीति समासपदादिन गर्गभागिणी - अत्रोत्तरपदस्यान्तो नकारो न भवतीति विकल्पो न भवति । एकपदस्थत्वाच मातृभोगीण इत्यादिव नित्यमेव णत्वं भवति । अन्तादिग्रहणं किम् ? गर्गाणां भगिनी गर्गभगिनी । एवं दाक्षिभगिनी । अत्र न नकारोऽन्तः, किन्तु ङीप्रत्ययः । यद्येवं व्रीहिवापिणी ५ इत्यत्र नकारस्योत्तरपदान्तत्वाभावाद्विकल्पो न प्राप्नोत्यत्रोच्यते - गतिकारकोपपदानां कृद्भिः समासवचनं प्राक् प्रत्ययोत्पत्तेरिति न्यायात् प्रागेव स्त्रीप्रत्ययादन्तरङ्गत्वादश्वक्रीतीत्यादावकारान्तेनेव क्रीतशब्देन नकारान्तेन वापिन् शब्देनोपपदसमासः, पश्चात् स्त्रीप्रत्ययः । विभक्त्यन्तत्वाभावेऽपि च रूढत्वादुत्तरपदत्वम् । ततश्चोत्तरपदस्यान्तो नकार इति णत्वविकल्पो भवति । अयुव काल इति किम् ? आर्यन, प्रपकानि, दीर्घाह्नी शरत् । दीर्घाह्ना निदाघेन । त्र्यहनि । “सङ्ख्यासायवे रहस्याहन् ङौ वा” १० ( १।४।५० ) इत्यह्रस्याहनादेशः । अलचटतवर्गशसान्तर इत्येव - गर्दभवाहिनौ । " पूर्वपदस्थान्नाकयगः” ( २।३।६४ ) । पूर्वपदस्थाद्रवृवर्णादगकारान्तात्परस्य सामर्थ्यादुत्तरपदस्थस्य नकारस्य णकार आदेशो भवति, नान्नि संज्ञायां विषये । द्रुणसः, खरणसः, खरणाः, शूर्पणखा, चन्द्रणखा, वार्षीणसः, हरिवाहणः, पुष्पणन्दी, श्रीणन्दी स्त्री । नानीति किम् ? मेषनासिकः चर्मनासिकः । अग इति किम् ? ऋगयनम् । एकस्मिन्नेव पदे इति पूर्वसूत्रे विज्ञानादुत्तरपदस्थस्य समासे न प्राप्नोतीति वचनम् । कथं १५ देवदारुवनं कुबेरवनमित्यादौ संज्ञायां णत्वं न भवति ? । उच्यते - "कोटर मिश्रकसिधकपुर गंसारिकस्य वणे” ( ३।२।७६ ) इति णत्वनिपातनस्य नियमार्थत्वात्संज्ञायां कोटरादिभ्य एव वनस्य णत्वं नान्येभ्य इति । “नसस्य” ( २।३।६५ ) । पूर्वपदस्थाद्रादेः परस्य नसस्य णत्वं स्यात् । प्रगता प्रवृद्धा वा नासिका यस्य स प्रणसः, निर्णसम् प्रणसम् मुखमिति णत्वप्रकरणम् । इत्यादि सर्वं कचिदित्यादिवचनेन सङ्गृहीतं बोद्धव्यम् । "ग्रामा०" ( २।३।७१ ) । सूत्रं स्पष्टम् ॥ ८८ ॥
पृषोदरादयः ॥ ८९ ॥ [ सि० ३।२।१५५ ]
२०
साधवः ।। ८९ ॥
इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्याय श्री विनयविजयगणिविरचितायां हैमलघुप्रक्रियायां समासप्रक्रिया समाप्ता । पृषोदर इत्येवंप्रकाराः शब्दाः समासे विहितलोपागमवर्णविकाराः शिष्टैः प्रयुज्यमानाः साधवो भवन्ति । पृषदुदरमुदरेवाऽस्य पृषोदरः । पृषत उदरं पृषोदरम् । पृषत उद्वानं पृषोद्वानम् । पृषत २५ उद्धारं पृषोद्धारम् । अत्र तकारस्य लोपो निपात्यते । जीवनस्य जलस्य मूतः पुटबन्धः जीमूतः अत्र वनस्य लोपः । वारिणो वाहको बलाहकः, अत्र पूर्वपदस्य बः उत्तरपदादेश्व लादेशः । आध्यायन्ति तमित्याढ्यः, अत्र ध्यस्य ढ्यादेशः । कृच्छ्रेण दास्यते नास्यते दभ्यते च खलि दुष्टो, दासो, नासो, दम्भ, इति वा दूडाशः दूणाशः दूडभः । दुष्टं ध्यायति दूढ्यः । एषु पूर्वपदस्य दुसो दूभावः, उत्तरपदादेश्व डत्वणत्वडत्वढत्वानि दम्भेर्नलोपश्च । मह्यां रौतीति मयूरः, रौतेरच्यन्तलोपो महीशब्दस्य मयूभावः । मह्यां ३० शेते महिषः, अत्र पूर्वपदस्य ह्रस्वत्वं शस्य च षत्वम् । पिशितमश्नाति पिशाचः, अत्र पिशितस्य पिशादेशः अनातेः शस्य च चादेशः । शवानां शयनं श्मशानम्, पूर्वपदस्य इमादेशः उत्तरपदस्य च शानादेशः । ब्रुवन्तोऽस्यां सीदन्ति विषीदन्ति वृसी, अत्र डट्प्रत्ययः पूर्वपदस्य वृभावः । ऊर्द्धं खं बिलं वास्य उदूखलं उलूखलम् वा, अत्र पूर्वपदस्य उदूभावः उल्लूभावश्च, उत्तरपदस्य खलादेशः । दिवि द्यौर्वा ओक एषां दिवौकसः, अत्राकारागमः । अश्व इव तिष्ठति अश्वत्थः कपिरिव तिष्ठति कपयोऽस्मिंस्तिष्ठन्ति इति वा ३५ कपित्थः, दनि तिष्ठति दधित्थः, मह्यां तिष्ठति महित्थः, एषु तिष्ठतेः सकारस्य तकारः । मुहुः स्वनं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560