Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 422
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । अपत्यप्रत्ययाधिकारः ३३५ अनपत्येऽणि अन्त्यस्वरादेर्लुक् स्यात् । ब्रह्मण इदं ब्राह्ममस्त्रम् । ब्राह्मो मन्त्रः । योगविभाग उत्तरार्थः । " जातौ ” ( ७|४|५८ ) । ब्रह्मण इयं ब्राह्मी औषधिः । पूर्वेण सिद्धे अनपत्य एवेति नियमार्थं वचनम् । तेनोत्तरसूत्रेणापत्ये लुग् न भवति । ब्रह्मणोऽपत्यं ब्राह्मणः । जाताविति किम् ? ब्रह्मणोऽपत्यं ब्राह्मो नारदः । “अवर्मणो मनोऽपत्ये " ( ७|४|५९ ) । वर्मन् शब्दवर्जितस्य मन्नन्तस्यापत्यार्थेऽणि अन्त्यस्वरादेर्लुक् स्यात् । सुषान्नोऽपत्यं सौषामः । माद्रसामः । अवर्मण इति किम् १५ चाक्रवर्मणः । न इति किम् ? सौत्वनः । अपत्य इति किम् ? चर्मणा छन्नः चार्मणो रथः । "तेन छन्ने रथे” ( ६।२।१३१ ) इत्यण् । “हितनाम्नो वा" ( ७|४|६०) । अपत्येऽणि अन्त्य - स्वरादेर्लुक् वा भवति । हितनान्नोऽपत्यं दैतनामः, हैतनामनः । अपत्य इत्येव - हैतनामनः । लुकू" इत्यत आरभ्य सर्वेऽणीत्यस्यापवादाः ॥ ७ ॥ “उक्षणो इञ् ॥ ८॥ [ सि० ६।१।३१ ] अदन्तात्षष्ठयन्तादपत्ये इन् स्यात् । ञकारो वृद्ध्यर्थः । " अवर्णवर्णस्य " ( ७।४।६८) इत्लुकि दक्षिः ॥ ८ ॥ "अत०" । दाक्षिरिति- अणोऽपवादः । एवं अस्यापत्यं इः । अत इति किम् ? शुभं यातीति, कीलालं पिवतीति, शुभंयुः कीलालपाः । तस्यापत्यं शौभंयः कैलालपः । केचित्तु अभ्यामणमपि नेच्छन्ति । कथं, “प्रदीयतां दाशरथाय मैथिली ?” “तस्येदम् ” ( ६।३।१६० ) इति विवक्षायामण् । १५ अपत्यविवक्षायां तु दाशरथिरित्येव भवति । अथ काकबकशुकादेः कस्मादिन् न स्यात् ? उच्यतेजात्यैवापत्यार्थस्य पौत्रादेरनन्तरस्य चाभिहितत्वात् । यत्र त्वर्थप्रकरणादेर्विशेषप्रतीतिरस्ति, तत्र भवत्येव"कुतञ्चरति मायूरिः केन कौपिञ्जलिः कृशः " । एतेन काक्यादिभ्य एयणादयोऽपि व्याख्याताः । कथं तर्हि क्रौञ्चः कौकिलः गौधेरः चाटकैर इति ? जातिशब्दा एवैते यथाकथविव्युत्पाद्यन्ते । यथा क्षत्रं क्षत्रियः राजा राजन्यः मनुः मनुष्यः मानुष इति । अनभिधानाच्च शतसर्ववृद्धकारकराजपुरुष - २० माथुरकुररादिभ्यो न भवति ॥ ८ ॥ बाह्रादिभ्यो गोत्रे ॥ ९ ॥ [ सि० ६।१।३२ ] स्वापत्यसन्तानस्य स्वव्यपदेशहेतुर्य आद्यपुरुषस्तदपत्यं गोत्रम् । बाह्वादिभ्यो गोत्रे इ‍ स्यात् । बाह्रविः । *कचिदिनि स्लुक । भूयसामपत्यं भौयिः आम्भिः ॥ ९ ॥ 1 “बाह्वा०” आद्यपुरुष इति । ऋषिरनृषि वेति शेषः । गोत्र इति गोत्रापत्येऽर्थे इत्यर्थः । अन- २५ कारान्तार्थो बाधकबाधनार्थश्वारम्भः । बाहोरपत्यं बाहविः । एवं औपवाकविः । नैवाकविः औदनिः । होदचितिपैलादिषु चोदनीति सनकारस्य पाठादनर्चायामपि नलोपाभावः । गोत्र इति किम् ? यो - धत्वे बाहुर्नाम तस्यापत्यं बाहवः । सम्भवापेक्षं च गोत्रग्रहणम्, तेन पञ्चानामपत्यं पाञ्चिः साप्तिः आष्टिः इत्यादि । बाहु, उपवाकु, निवाकु, वटाकु, चटाकु, उपबिन्दु, चाटाकु, कला, कृकला, चूडा, बलाका, जङ्घा, छगला, भगला, लगहा, ध्रुवका, धुवका, मूषिका, सुमित्रा, दुर्मिंत्रा | ३० ब्रुकलादिभ्यो यथासम्भवमेयणो मानुषीनामलक्षणस्य चाणोऽपवादोऽयमिन् । युधिष्ठिर, अर्जुन, राम, सङ्कर्षण, कृष्ण, गद, प्रद्युम्न, सा ( शा ? ) म्ब, सत्यक, शूर, असुर, अजीगर्त, मध्यन्दिन, एषु ऋध्याद्यणोऽपवादः । सुधावत्, स्वधावत्, पुष्करसद्, अनुहरत्, अनडुहू, पञ्चन्, सप्तन्, अष्टन्, क्षेम - ३३ १ व्यक्तिवाचिनतु ब्रह्मणोऽपत्ये ब्राह्म इति भवत्युत्तरेण लोपात् । सूत्राकरणे तु ब्राह्मण इति स्यात् । Jain Education International १० For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560