________________
२८४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुद्वौ नौ प्रकृतौ लोके पर्युदासप्रसज्यको ।
पर्युदासः सदृग्ग्राही प्रसज्यस्तु निषेधकृत् ॥१॥ तदन्यतद्विरुद्धादयो ननोर्थाः । “नजत्" (३।२।१२५)। असाधुः । “त्यादौ क्षेपे" (३।२।१२६)। नञः अ स्यात् अपचसि त्वं जाल्म ॥४९॥ ५ "न" । द्वौ नबावित्यादि कारिकाया अयं भावः-निवर्त्यमानतद्भाव उत्तरपदार्थः पर्युदासे नञ्समासार्थः, स चतुर्की-तत्सदृशः १ तद्विरुद्धः २ तदन्यः ३ तदभाव ४ श्च । अब्राह्मणः अशुक्ल इति तत्सदृशः क्षत्रियादिः पीतादिश्च प्रतीयते १ । अधर्मः असित इति तद्विरोधी पाप्मा कृष्णश्च प्रतीयते २ । अनग्निरवायुरिति ताभ्यामन्यः प्रतीयते ३ । अवचनमवीक्षणमिति तदभावः प्रतीयते ४ । उत्तरपदार्थस्य तद्भावनिवृत्तिस्तु अर्थत एव नतु शब्दतः, तेनासः अतस्मिन् इत्यादौ उत्तरपदप्राधान्यात्सर्वादिकार्य १० गणकार्य च सिद्धं भवति-यथा अत्वन्त्वं सम्पद्यते त्वद्भवतीत्यत्र युष्मदर्थस्य गौणत्वेन प्रथमत्रिकेऽपि
शब्दमात्राश्रयात्त्वादेशो भवति। नन्वस्योत्तरपदार्थप्राधान्येन तल्लिङ्गसङ्ख्यत्वे सति कथं किरातादौ "भवन्त्यनेके जलधेरिवोर्मय” इत्यादिप्रयोगे बहुवचनम् ? असाधव एवेदृशाः शब्दाः इति श्रीसूरिपादाः । कश्चिदेकशब्दस्यान्यार्थस्यैकशेषादेके इति साधयित्वा पश्चान्नन्समासं मन्यन्ते । “अध्यारोपितैकत्वानां
प्रकृत्यर्थतया तत्र वास्तवबहुत्वाभिप्रायं बहुवचनम्, यद्वा समुदायबहुत्वे बहुवचनं रथोऽश्वो गजश्च १५प्रत्येकमनेकस्ततः अनेकश्चानेकश्चानेकश्चेत्येकशेष इति" तु मनोरमायाम् । प्रसज्यप्रतिषेधे तु नञ् पदान्तरेण सम्बध्यते इत्युत्तरपदं वाक्य इव स्वार्थे एव वर्त्तते, तत्रासामर्थेऽपि यथाभिधानं बाहुलकात्समासः । सूर्यमपि न पश्यन्त्यसूर्यम्पश्या राजदाराः, पुनर्न गीयन्ते अपुनर्गेयाः श्लोकाः, श्राद्धं न मुझेऽश्राद्धभोजी, वत्सेभ्यो न हितोऽवत्सीयः, वधं नाहतीत्यत्रावध्यो ब्राह्मण इत्यादि । अन्यत्र तु घटो
नास्तीत्यादावसामर्थ्यादेव न समासः । अन्य इत्येव-न विद्यन्ते मक्षिका अत्रेत्यमक्षिकाकः, मक्षिकाणाम२० भावोऽमक्षिकम् , अन्यपदार्थप्राधान्ये बहुव्रीहिः, पूर्वपदार्थप्राधान्येऽव्ययीभावः, उत्तरपदार्थप्राधान्ये तत्पुरुष इति विवेकः।
"तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नर्थाः षट् प्रकीर्तिताः" ॥१॥
अब्राह्मणः, अपापं, अनश्वः, अनुदरा कन्या, अपशवोऽन्ये गोभ्यः, अधर्म इति क्रमेणोदाहरणानीति । तथा आरोपितत्वं नबा द्योत्यते आरोपमात्रविषयत्वं तु संसर्गः । तथा च अब्राह्मणशब्दादारोपितो २५ ब्राह्मण इति बोधे अर्थाद् ब्राह्मणभिन्न इति पर्यवस्थति, अत एवानुपसर्जनत्वादतस्मिन्नित्यादौ सर्वनाम
कार्य सिद्ध्यति । तत्पुरुषस्यौत्सर्गिकमुत्तरपदार्थप्राधान्यमप्येवं सति निर्बाधम् । “मीमांसकादयस्तु ब्राह्मणभिन्न इत्यादि शाब्दबोध एवेत्याहुस्तन्मतेऽस इत्यादेसतिसर्व इत्यादि समकक्षत्वात्सर्वनामसंज्ञाकार्य गणकार्य च न स्यात्" इत्यादि मनोरमायाम् । "त्यादौ०" । त्याद्यन्ते पदे परतः क्षेपे गम्ये नञ्
अकारो भवति । "अ मो नो नाः प्रतिषेधे” इत्यकारेण निषेधार्थेन सिद्धौ, क्षेपे नत्रः श्रवणवारणामर्थ३० समासार्थं च वचनम् ॥ ४९ ॥
अन् खरे ॥ ५० ॥ [सि० ३।२।१२९ ] स्वरादौ परे ननोऽन् स्यात् । अनार्यः ॥ *नखनासत्यादयो निपात्याः (अत्र “नखादयः" (३२।१२८) इति सूत्रं ज्ञेयम् ) ॥५०॥
"अन्” । अन् इति स्वरूपनिर्देशात् नलोपो द्वित्वं च न भवति । *"नख०" नास्य खमस्तीति ३५नखः । सत्सु साधुः सत्यः, न सत्यः असत्यः, न असत्यः, नासत्यौ अश्विनीपुत्रौ । आदिशब्दात् न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org