________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । तत्पुरुषः
२८५ न भ्राजते इति नभ्राट् । न न मुञ्चतीति नमुचिः । न न कुलमस्य नकुलः । सर्वत्र पृषोदरादित्वादेकस्य नयो लोपः, यद्वा न भ्राजते इति नभ्राट् इत्येकेनैव नया रूपाणि ॥ न पुमान स्त्रीति नपुंसकम् , अत एव निपातनात् स्त्रीपुंसयोः पुंसकादेशः ॥ न क्षीये न क्षरति वा नक्षत्रम् । न कामति न क्रीणाति वा नक्रः । नास्मिन्नंदुः खमस्ति नाकं । एवं नमः, नागः, नभागः नाराचः नापितः नमेरुः ननन्दा, नान्तरेण भवति नान्तरीयकम् । नाचिकेतः । आकृतिगणत्वाच्च नास्तिकः नमः नारङ्गमित्यादयो५ द्रष्टव्याः । तथा "नगोऽप्राणिनि वा" (३।२।१२७) । न गच्छतीति नगः अगो वा गिरिः । अप्राणिनीति किम् ? अगो वृषलः शीतेन ॥ ५० ॥
दुनिन्दाकृच्छ्रे ॥५१॥ [सि० ३।१।४३ ] एतनिन्दाकृच्छ्रवृत्तिनाम्ना समस्यते । दुर्जनः दुष्कृतम् । “सुः पूजायाम्" (३।११४४)। सुजनः ॥५१॥ "दु०” । निन्दितो जनो दुर्जनः । कृच्छ्रेण कृतम् दुष्कृतम् ॥ "सुः०” । स्पष्टम् ॥ ४९ ॥
अतिरतिक्रमे च ॥ ५२ ॥ [सि० ३३११४५] अतिरतिक्रमेऽर्चायां च समस्यते । अतिस्तुत्यः अतिराजा । “आङल्पे" (३।११४६)। आकडारः। “पूर्वापराधरोत्तरमभिन्ननाशिना” (३।११५२)। समस्यते । पूर्वकायः। “समेंऽशेऽर्धन वा" (३।१।५४) अर्धपिप्पली पिप्पल्यर्धम् । “जरत्यादिभिः " (३।११५५)। अप्य| १५ वा समस्यते । अर्धजरती जरत्यर्थः । “सायालादयः” (३।१।५३)। साधवः ॥५२॥ ___ "अति०" । अतिस्तुयेति-अतिक्रमेण स्तुत्वेत्यर्थः । शोभनो राजातिराजेत्यर्थः । “आ०"। ईषकडारः आकडारः । “पूर्वा०" । अंश एकदेशस्तद्वानंशी । पूर्वादयोऽशवाचिनोऽशिना समस्यन्ते न चेत्सोऽशी भिन्नः प्रतीयते । पूर्वः कायस्य पूर्वकायः । एवमपरकायः अधरकायः उत्तरकायः । पूर्वादिग्रहणं किम् ? दक्षिणं कायस्य । अभिन्नेनेति किम् ? पूर्व छात्राणामामत्रयस्ख, बहुवचनाद्भेदप्रतीतिः-२० छात्रानां सम्बन्धिनं कस्मादपि छात्रात्पूर्वमित्यर्थः । प्रसज्यप्रतिषेधः किम् ? पूर्व पाणिपादस्य अत्र समाहारस्यैकत्वेऽपि पाणिः पाद इति भेदप्रतीतेनं भवति । पूर्वग्राम इत्यादौ तु न ग्रामशब्दात्प्रासादादिभेदप्रतीतिः । अंशिनेति किम् ? पूर्वो नाभेः कायस्य-अत्र नाभेर्यः पूर्वो भागः स कायस्यावयव इत्यर्थः । नाभेरिति दिग्योगलक्षणा पञ्चमी । अत्र पूर्वस्य भागस्य नाभिरवधिनत्वेकदेशिनी अतो नाभ्या सह समासो नेत्यर्थः । कायेन तु स्यादेव । पूर्वकायो नाभेरिति । "समें"।समेंऽशे वर्तमानमर्द्धमभिन्ने-२५ नाशिना समस्यते । अर्द्धपिप्पलीति-परलिङ्गो द्वन्द्वोऽशीति लिङ्गानुशासनात् स्त्रीत्वम् । पक्षे पिप्पल्यर्द्धमिति तुल्यभागेऽर्द्धमिति नपुंसकत्वम् । समेंऽश इति किम् ? ग्रामाद्धः, अत्र अर्द्धसुदर्शनेति पुंस्त्वम् । अर्द्ध च सा पिप्पली चेति कर्मधारयेणैव सिद्धे भेदविवक्षायां पक्षे षष्ठीसमासबाधनार्थं अर्द्ध पिप्पलीनामिति असमांशे चार्द्धश्चासौ ग्रामश्चेति कर्मधारयनिषेधार्थं वचनम् । कथमर्द्धपिप्पल्य इति ? अर्द्ध पिप्पल्या इत्यभिन्नेन समासे सत्येकशेषात् , अर्द्धराशिरित्यत्र राशेरभेदप्रतिभासाद्भविष्यति । अत्र समेंशेऽर्द्धशब्द ३० आविष्टलिङ्गो नपुंसकलिङ्गः, असमासे तु पुंल्लिङ्गः । अन्ये त्वसमांशे वाच्यलिङ्गमेनमाहुरसमांश एव च । षष्ठीसमासम् , समांशे तु नित्यमंशितत्पुरुषमिच्छन्ति । अर्द्धपिप्पलीत्यादावर्द्धशब्दस्य प्रथमोक्तत्वात्प्राग्नि-३२
१ अयमर्थः-सूत्राभावे मेदामेदविवक्षायां प्रयोगद्वयं सिद्ध्यति । सूत्रकृतौ तु मेदविवक्षायामेव पक्षे षष्ठीसमासं बाधित्वा प्रयोगद्वयं सिद्धम् । अन्यथा मेदे षष्ठीसमास एव स्यात् । २ पिप्पल्याख्यस्यांशिनोऽनेकद्रव्यखभाववादभिन्नखात्समासाभावः । षष्ठीसमासस्तु भवत्येते पिप्पल्यर्द्धमिति । प्रकरणादिना बहुलस्याप्यन्तर्गतबहुवचनान्तस्यापि प्रवृत्तिरविरुद्धा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org