________________
२८६
महामहोपाध्याय श्री विनयविजयगणिविरचिते खोपज्ञ हैमलघु
पातः । "जर०" । अर्को जरत्या अर्द्धजरती । तत्तुल्यमर्द्धजरतीयम् " काकतालीयादयः” (७|१|११७) इति सिद्धिः । एवमर्द्धवैशसं अर्द्धा वैशसस्य-अर्द्धमरणमित्यर्थः । अर्द्धक्तमर्द्धविलोकितमित्यादि । पक्षे तु जरत्यर्द्ध इत्याद्यपि भवति । बहुवचनमाकृतिगणार्थम् । असमांशार्थोऽयमारम्भः । "साया" । एतेऽशितत्पुरुषाः साधवः स्युः । सायमह्नः सायाह्नः, मध्यमह्नः मध्याह्नः, मध्यं दिनस्य मध्यंदिनम्, मध्यं ५रात्रेः मध्यरात्रः, “उपारताः पश्चिमरात्रगोचरादपारयन्तः पतितुं जवेन गाम् । तमुत्सुकाश्च कुरवेक्षणोन्मुखं गवां गणाः प्रस्तुतपीवरौधसः” ॥ १ ॥ इति किरातार्जुनीये । बहुवचनमाकृतिगणार्थम् । पूर्वे पञ्चालाः, उत्तरे पञ्चाला इतिवत्समुदायवाचिनामंशेऽपि प्रवृत्तिदर्शनात्सामानाधिकरण्ये सति कर्मधारयेणैव सिद्धम् । पूर्वश्वासौ कायश्च पूर्वकायः । सायं च तदहश्च सायाह्नः इति । तत्पुरुषविधानं तु " पूर्वापर ० ” ( ३।१।१०३ ) इति सूत्रेऽत्र सूत्रे च अह्नः सायं कायस्य पूर्वमिति षेष्ठीसमासबाधनार्थम् ।
1
१०
1
अत्रादिशब्दानुवृत्तेः “द्वित्रिचतुः पूरणाग्रादयः " ( ३।१।५६ ) । पूरणप्रत्ययान्ता व्यादयोऽयादयांशवाचिनो भिन्नेनांशिना वा समस्यन्ते । द्वितीयं भिक्षाया द्वितीयभिक्षा । एवं तृतीयभिक्षा | चतुभिक्षा | तुर्यभिक्षा । तुरीयभिक्षा । अत्रं हस्तस्याग्रहस्तः । एवं तलपादः । पक्षे भिक्षाद्वितीयं हस्ताग्रमित्यादि । नित्याधिकाराभावाद्वाक्यसिद्धावप्यत्र वानुवृत्तेर्निषिद्धोऽपि पूरणेन षष्ठीसमासो भवति । "कालो द्विगौ च मेयैः” ( ३।१।५७ ) । कालवाचि नामैकवचनान्तं द्विगौ च विषये वर्त्तमानं मेयवाचिना १५ समस्यते । मासो जातस्य मासजातः । द्विगौ- एको मासो जातस्य एकमासजातः । द्वे अहनी सुप्तस्य व्यह्रसुप्तः । कथं व्यहजातः ? समाहारद्विगोर्जातेन काल इत्यंशेन समासः । यद्यप्यत्र जातादि कालस्य विशेषणं तथापि शब्दशक्तिस्वाभाव्यात्समासो जातादिप्रधानस्तेन समासे तदीयं लिङ्गादिकं भवति । काल इति चैकवचनं द्विगोर्रन्यत्र प्रयोजकम् तेन मासौ मासा वा जातस्येत्यत्र न भवति । द्विगौ तु ( द्वौ
यो वा मासा जातस्य द्विमासजातः त्रिमासजात इत्यपि ) भवति । द्विगुग्रहणं त्रिपदसमासार्थम्, २० अन्यथा नाम नाम्न्नेत्यनुवृत्तेर्द्वयोरेव स्यात् । मेयैरिति किम् ? मासश्चैत्रस्य, जातादेरेव हि मेयत्वम्, जन्मादेः प्रभृति जातादिसम्बन्धित्वेनैवादित्यगति परिच्छेदान्न द्रव्यमात्रस्य । क्तान्तेनैव मेयेन प्रायेणायं समासस्तेन मासो गच्छत इत्यादौ समासो न भवति । षष्ठीसमासापवादोऽयं योगः । " स्वयं सामी तेन" ( ३|१|५८ ) । एते अव्यये क्तान्तेन समस्येते । स्वयं धौतौ पादौ, धौत इति कर्मकर्त्तरि वा क्तः, यतः करणशक्तेः कर्तृशक्तेर्वा वाचकः स्वयंशब्दः, स्वयमात्मनेत्यर्थः - अत्र करणे कर्त्तरि वा २५ तृतीया । सामिकृतं अर्द्धमित्यर्थः । “सामिघटिता मुक्तानुमन्दाकिनीति” नैषधीये । ऐकपद्यं तद्धितात्पत्तिश्च समासप्रयोजनम् - स्वायंधौतिः सामिकृतिः ॥ ५२ ॥
I
गतिक्वन्यस्तत्पुरुषः ॥ ५३ ॥ [ सि० ३|१|४२ ]
गतिसंज्ञाः कु इत्यव्ययं च नाम्ना समस्यते । समासोऽन्यो बहुव्रीह्यादिलक्षणरहितस्तत्पुरुषः स्यात् । ऊरीकृत्य । प्रणम्य । कुत्सितो ब्राह्मणः कुब्राह्मणः । नित्यसमासोऽयमविग्रहोऽख पदविग्र३० हश्च नित्यसमासः स्यात् ॥ ५३ ॥
“गति०” । कु इत्यव्ययं पापाल्पयोर्वर्त्तते । प्रागुक्ता गतिसंज्ञकाः कुश्च नाम्ना सह नित्यं समस्यन्ते, ३२ समासस्तत्पुरुषसंज्ञो भवति । ऊरीकृत्य । कुत्सितो ब्राह्मणः कुब्राह्मणः । अव्ययमित्येव - कुर्विंशाला,
१ ननु सायमोऽव्ययत्वात् 'तृप्त०' इत्यादिना षष्ठीसमासस्य निषेधेन प्राप्तिरेव नास्ति, किमुच्यते षष्ठीसमासबाधनार्थमिति ? उच्यते । यदाऽकारान्तः सायंशब्दोऽनव्ययं नपुंसकलिङ्गस्तदा प्राप्नोति । २ अन्यत्र चरितार्थमित्यर्थः, द्विगौ तु द्विवचनाद्यन्तमणि समस्यते इति भावः । ३ अत्र न मासश्चैत्रस्य परिच्छेदकत्वेन सम्बन्धी कि तूत्सवास्पदत्वेनान्येन वा प्रकारेणेति ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org