________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । तत्पुरुषः
२८७ पृथ्वीत्यर्थः । तत्पुरुषस्य सामान्यतो लक्षणमाह-अन्य इति बहुव्रीयादिलक्षणरहित इत्यर्थः । तेन कुत्सिताः पुरुषा यस्य स कुपुरुषकः, अत्रान्यपदार्थप्राधान्याद्बहुव्रीहिरेव (बहुव्रीहित्वात्कच् भवति)। तत्पुरुषप्रदेशाः “गोस्तत्पुरुषात्” (७।३।१०५) इत्यादयः ।
अथात्रादेशविशेषानाह
"कोः कत्तत्पुरुषे” (३।२।१३०)। स्वरादौ परे । कदन्नम् । “स्थवदे” (३।२।१३१)।५ तथा । कद्रथः । कद्वदः। _ "को"। तत्पुरुष इति किम् ? कुत्सिता उष्ट्रा अस्मिन् कूट्रो देशः । स्वरादावित्येव-कुब्राह्मणः । "रथ."। कुत्सितो रथः कुत्सितो रथोऽस्येति वा कद्रथः । वदतीति वदः "अच्” (५।१।४९) कुत्सितो वदः, कुत्सितो वदोऽस्येति वा कद्वदः । तत्पुरुष एवेच्छन्त्येके । अन्यत्र कुरथो राजा कुवदो मूर्खः । एवं “तृणे जातो" (३।२।१३२) । कुत्सितं तृणमस्याः कत्तॄणा नाम रौहिषाख्या १० तृणजातिः । जाताविति किम् ? कुत्सितानि तृणानि कुतृणानि । “कत्रि" (३।२।१३३)। कुशब्दस्य किंशब्दस्य वा त्रिशब्दे उत्तरपदे कदादेशो निपात्यते । कुत्सितात्रयः के वा त्रयः कत्रयः । कुत्सितात्रयः के वा त्रयोऽस्य कत्रिः । किमो नेच्छन्त्येके कित्रयः ॥ ५३ ॥
काऽक्षपथोः॥ ५४॥ [सि० ३।२।१३४ ] अनयोः परयोः कोका सात् । काक्षः। कापथम् । “पुरुषे वा” (३२।१३५)। कापुरुषः१५ कुपुरुषः ॥ ५४॥
"काक्ष०” । अक्षशब्दस्याकारान्तस्य कृतसमासान्तस्य च ग्रहणम् । कुत्सितो अक्षः पाशकादिः काक्षः, कुत्सितमक्षमिन्द्रियं काक्षम् , कुत्सितोऽक्षोऽस्य काक्षो रथः । कुत्सितमक्षमक्षि वाऽस्य काक्षः । कुत्सितः पन्थाः कापथम् पथः सङ्ख्याव्ययेति नपुंसकत्वम् । अमरो गौडश्च पुंस्त्वमाह-व्यध्वौ विपथकापथौ इति । कुत्सितः पन्था अस्मिन् कापथो देशः । साकोऽपि भवति । ककुःकुत्सितोऽक्षः २० काक्षः । पथिनिर्देशात्तत्पर्यायेऽव्युत्पन्ने पथशब्दे न भवति ।-कुत्सितः पथः कुपथः (न तु कुपथम् )। कुपथं वनम् । अनीषदर्थं वचनम् । “पुरुष०” कुत्सितः पुरुषः, कुत्सिताः पुरुषा अस्मिन्निति विग्रहे वा कापुरुषः, कुपुरुषो ग्रामः । अनीषदर्थे विकल्पः । ईषदर्थे तूत्तरेण नित्यमेव । तत्रापि विकल्प एवेति कश्चित् ॥ ५४॥
अल्पे ॥ ५५॥ [सि० ३।२।१३६ ] ईषदर्थस्य कोः का स्यात् । काच्छम् ॥ ५५॥ "अ०" । कु ईषदच्छं काच्छम् । स्वरादावपि परत्वात् कादेश एव न तु कदादेशः ॥ ५५ ॥
काकवौ वोष्णे ॥ ५६ ॥ [ सि० ३।२।१३७ ] ईषदर्थस्य कोरुष्णे परे का कवौ वा स्याताम् । कोष्णम् । कवोष्णम् । कदुष्णम् ॥ ५६ ॥
"का०" । कु ईषत् कुत्सितं वोष्णं कवोष्णं कोष्णम् । पक्षे यथाप्राप्तमिति । तत्पुरुषे कदुष्णम् । बहुव्रीहौ तु कदादेशो न भवति । कूष्णो देशः। अन्यस्तु अनावपीच्छति-कामिः कवाग्निः कदग्निः ॥५६॥३१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org