________________
२८८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
मयूरव्यंसकेत्यादयः ॥ ५७॥ [सि० ३।१।११६] एते तत्पुरुषाः समासा निपात्यन्ते । मयूरव्यंसकः । एहीडं वर्तते । अश्नीतपिबता क्रिया। एहिरेयाहिरा । कुरुकटो वक्ता । गतप्रत्यागतम् । शाकपार्थिवः । त्रिभागः ॥ ५७ ॥
"मयू." मयूरव्यंसक इति-विगतावंसावस्य व्यंसस्तत्तुल्यो व्यंसकस्तादृशो मयूरः । व्यसयति ५वा छलयति यः स व्यंसकः । लुब्धकानां मयूरो गृहीतशिक्षो योऽन्यान् वन्यान् छलयति तद्रूपेण
लोकस्यापि वश्चकः धूर्त इत्यर्थः ( एवं छात्रव्यंसकः, मुण्डश्चासौ कम्बोजश्च कम्बोजमुण्डः, एवं यवनमुण्डः, व्यसका चासौ मयूरी च मयूरव्यंसका कर्मधारयलक्षणः पुंवद्भावः ।) एतेषु विशेष्यस्य पूर्वनिपातो निपातनात् । एहीडादयोऽन्यपदार्थे एहि इडे स्त्रि इति जल्पो यस्मिन्कर्मणि काले वा तत् एहीड
मिति (एहि यवैरिति जल्पो यत्र कर्मणि काले वा तदेहियवं वर्तते । एतौ निपातनानपुंसको) एहि १० वाणिजेति जल्पो यस्यां क्रियायां सा एहिवाणिजा । (एवं एहिवाणिजा, अपेहिवाणिजा, एहिस्वागता,
अपेहिस्वागता, एहि द्वितीया, अपेहिद्वितीया, एहिप्रघसा, अपेहिप्रघसा, एहिविघसा, अपेहिविघसा, एहिप्रकसा, अपेहिप्रकसा, प्राहेकटमिति जल्पो यस्यां सा प्राहेकटा क्रिया, एवं प्राहेकर्दमा, प्राहेकपर्दा, उद्धम चूडे उद्धम चूडामिति वा जल्पो यस्यां सोद्धमचूडा क्रिया, आहार चेलमिति यस्यां सा आहारचेला क्रिया, एषमाहरवसना, आहारवितता, कृन्धि विचक्षणेति कृन्धि विचक्षणमिति वा यस्यां सा कृन्धि१५विचक्षणा क्रिया, भिन्धि लवणमिति यस्यां सा भिन्धिलवणा, एवं पचलवणा, उद्धरोत्सृजेति जल्पो
यस्यां सोद्धरोत्सृजा, एवमुद्धरावसृजा, उद्धमविधमा, उद्वपनिवपा, उत्पतनिपता, उत्पचनिपचा, कृन्धि विक्षिणीहीति विक्षणु इति वा यस्यां सा कृन्धिविक्षणा, उन्मृजावमृजेति यस्यां सोन्मृजावमृजा, अत एव निपातनादिहैव च मृजेही शो भवति । (आख्यातमाख्यातेन सातत्ये) आख्यातमाख्यातेन सातत्ये इति
शाकटायनसूत्रम् । अनीतपिबतेति-अनीतपिबतेति सातत्येनोच्यते यस्यां सा क्रिया। (एवं अनीतपचता। २० खादतमोदता, पचतभृजता, लुनीतपुनीता, खादाचामा, आहरनिवपा, आवपनिष्किरा, पचमकूला, इह द्वितीयेति यस्यां क्रियायां सेह द्वितीया, एवमिहपञ्चमी, अधद्वितीया, अद्यपञ्चमी) तथा एहिरे याहिरेति यस्यां क्रियायां सैहियाहिरा । एवं एहिरेगच्छरा, अहो अहं पुरुष इति यस्यां सा अहोपुरुषिका । अहं पूर्व इति यस्यां सा अहम्पूर्विका । एवमहम्प्रथमिका । अहमहमिति यस्यां सा अहमहमिका विकृतं प्रकृतं च यस्यां
सा विप्रक्रा, (विचप्रका ?) निश्चितं च प्रचितं च यस्यां सा निश्चप्रचा । या इच्छा यस्यां सा यदृच्छा । २५ एषु सर्वेषु क्रियैवान्यपदार्थस्तत्प्राधान्याचाप् । कुरुकटो वक्तेति कुरुकटमित्यभीक्ष्णं य आह स कुरुकटो वक्ता । 'ह्यन्तं स्वकर्मणा बहुलमाभीक्ष्ण्ये कर्तरि समासाभिधेये' । एवं जहिजोडमित्यभीक्ष्णं य आह स जहिजोडः, (एवमुजहिजोडः, जोडो दासः।जहिस्तम्बः, उज्जहिस्तम्बः, कुरुकटः, बहुलवचनान्न च भवति, पचौदनमित्यभीक्ष्णमाह, स्नात्वा कालीभूतः सात्वाकालकः, एवं पीत्वास्थिरकः, भुक्त्वासुहितः, प्रोष्य विप्रयुक्तो भूत्वा पापीयान्निःस्नेहो भवति स प्रोष्यपापीयान् , उत्पत्याकाशे भूत्वा या पाकलापाण्डुर्भवति ३०सोत्पत्यपाकला, निपत्य भूमौ निपतिता रोहिणी या रक्ता भवति सा निपत्यरोहिणी, निपद्य निषण्णा सती
श्यामा जाता निषद्यश्यामा, निषण्णा श्यामा जाता निषण्णश्यामा।)। उदक चावाक् चेति उच्चितं चावचितं चेति वा उच्चावचम् । उच्चैश्च नीचैश्च उचितं च निचितं चेति वा उच्चनीचम् । आचितं चोपचितं च आचोपचम् । आचितं चावचितं च आचोवचम् । आचितं च पराचितं च अर्वाक च परस्ताच्चेति वा
आचपराचम् । निश्चितं च प्रचितं च निश्चअचम् । निकुषितं च निस्त्वचितं च निश्चत्वचम् । न भवति ३५ किश्चन न कचिदुपयुज्यते इत्यकिश्चनम् । नास्य कुतो भयमस्तीत्यकुतोभयम् ॥ तथा अन्तरशब्दो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org