________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । तत्पुरुषः
२८९ भिन्नवाची मात्र काल्येऽवधारणे अन्तरमात्रशब्दाभ्यां सह नित्यसमासः अन्यो राजा राजान्तरं चिदेव चिन्मात्रमिति मनोरमायाम् ॥ गतप्रत्यागतादय इति-तं च तत्प्रत्यागतं च गतप्रत्यागतम् । एवं यातानुयातम् (महान् क्रयोऽल्पः क्रयिका क्रयावयवयोगात् क्रयः, क्रयिकावयवयोगात् क्रयिका, क्रयश्चासौ ऋयिका च क्रयक्रयिका समुदायः । एवं पुटापुटिका, फलाफलिका, मानोन्मानिका, एषु व्यवस्थितपूर्वोत्तरपदसमासः।) शाकपार्थिव इति-शाकप्रियः शाकभोजी शाकप्रधानो वा५ पार्थिवः पृथोरपत्यं शाकपार्थिवः पृथिव्या ईश्वरः पार्थिव इति वा तेन शाकपार्थिवः (कुतपवस्त्रसौश्रुतः, सुश्रुतोऽपत्यं सौश्रुतः कुतपसौश्रुतः । अजापण्यस्तौल्वलिः अजातौल्वलिः) । एवं यष्टिप्रहरणो मौद्गल्यो यष्टिमौद्गल्यः, परशुरामः, घृतप्रधाना रोटिः घृतरोटिः, एवम् ओदनपाणिनिः, आणिमाण्डव्यः, बलाकाकौशिकः, विदर्भीकौण्डिण्यः । सहस्रबाहुरर्जुनः सहस्रार्जुनः । व्यवयवा विद्या त्रिविद्या । एकाधिका दश एकादश । एवं द्वादश षोडश । एकविंशतिः द्वाविंशतिः ।१० एकेनाधिकं शतं एकशतम् द्विशतम् । दध्युपसिक्त ओदनः दध्योदनः, एवं घृतौदनः । गुडमिश्रा धाना गुडधानाः, एवं तिलपृथुकाः । अश्वयुक्तो रथो अश्वरथः, एवं गजरथः। घृतपूर्णो घटो घृतघटः । अत्र शाकपार्थिवादिषु प्रियादेरुत्तरपदस्य लोपः। त्रिभाग इति तृतीयो भागविभागः । एवं व्यंशः । षड्भागः षडंशः । त्रिदिवं तृतीयदिवम् , त्रिविष्टपं तृतीयविष्टपम् इत्यादिषु पूरणप्रत्ययस्य वा लुग भवति (तथा सर्वेषां श्वेततरः सर्वश्वेतः, एवं सर्वमहान्-अत्र गुणेन तरबन्तेन निर्धारणषष्ठीसमासस्तरब्लो-१५ पश्च । एवमविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः) यह लक्षणेनानुपन्नं तत्सर्वं निपातनासिद्धम् । इतिशब्दः स्वरूपावधारणार्थः तेन परमो मयूरव्यंसक इति समासान्तरं न भवति । उत्तरपदेन भवत्येवेत्यन्ये । मयूरव्यंसकप्रिय इत्यादि । बहुवचनमाकृतिगणार्थम् । तेन विस्पष्टम्पटुः विस्पष्टपटुः । पुना राजा पुनाराजः । एवं पुनर्गवः । पादाभ्यां ह्रियते इति पादहारकः । गले चोप्यते इति गलेचोपकः । सायन्दोहः, प्रातर्दोहः, पुनर्दोहः, सायमाशः, प्रातराशः इत्यादयो द्रष्टव्याः। २०
अथात्र लुगादेशादिकमाहसमासे यथायोगं लुगदीर्घहखादिकं वाच्यम् । मांस्पाक: मांसपाकः ।
समासे इत्यादि । मांस्पाक इति "मांसस्यानड्पत्रि पचि नवा" (३।२।१४१) । मांसशब्दस्यानडन्ते घमन्ते पचावुत्तरपदे लुग् वाऽऽदेशो भवति । मांसस्य पचनं मांस्पचनं मांसपचनम् । मांस्पचनी २ । अनघनीति किम् ? मांसपतिः । पचाविति किम् ? मांसदाहः । “कृत्येऽवश्यमो लुक" २५ (३।२।१३८) । अवश्यकार्यम् , एवं स्तुत्यं देयं कर्त्तव्यं करणीयम् । कृत्य इति किम् ? अवश्यंलावकः । "समस्ततहिते वा” ( ३।२।१३९) । सततं सन्ततम्, सन्तन्यतेस्म संहितम् सहितम् , सन्धीयतेस्म । “धागः" (४।४।१५) इति हिः । “तुमश्च मनः कामे" ( ३।२।१४०)। भोक्तुं मनोऽस्य भोक्तुमनाः । गन्तुं कामोऽस्य गन्तुकामः । सम्यग् मनोऽस्य समनाः । एवं सकामः । “ते लुग्वा" ( ३।२।१०८)। नामविषये ये पूर्वोत्तरपदे ते लुग् वा भवतः । देवदत्तः-देवः, दत्तः । सत्यभामा- ३० सत्या, भामा । देवदत्तवाचिनश्च देवशब्दस्य शब्दसाम्येऽपि प्रकरणादेरर्थनिश्चयः । “हविष्यष्टन: कपाले" (३।२।७३)। हविष्यभिधेयेऽष्टनशब्दस्य कपाले उत्तरपदे दीर्घोऽन्तादेशो भवति । अष्टसु कपालेषु संस्कृतं अष्टाकपालं हविः । “गवि युक्ते" (३।२।७४) । अष्टौ गावो युक्ता अस्मिन्निति ३३
१ निपात्यन्ते गम्यन्तेऽनुरूपाण्यविहितान्यपि लक्षणान्यस्मिनिति निपातनं सूत्रे लक्ष्यस्य स्वरूपेणोपादानमिति । २ ननु पूर्वपदस्योत्तरपदस्य वा लोपे यः समुदायमनुवर्तते देवादिशब्दः स देवदत्ताद्यर्थेन च त्रिदशार्थेन च समान इति कथं निश्चयो "भवति, अयं देवदत्तार्थ एव, न तु त्रिदशाद्यर्थ इत्याह-शब्देत्यादि-शब्दानां भिन्नार्थानां साम्येऽपि तुल्यरूपलेऽपि ।
है. प्रका० पूर्वा० ३७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org