________________
२९०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
त्रिपदे बहुव्रीहौ कृते उत्तरपदे परे द्वयोर्द्विगुः । " गोस्तत्पुरुषात् ” ( ७।३।१०५ ) इत्यट्समासान्तस्तत्र दीर्घत्वेन युक्तार्थसम्प्रत्ययाद्गतार्थत्वाद्युक्तशब्दस्य निवृत्तिः । अष्टागवं शकटम् | "नाम्नि” ( ३।२।७५ ) । अष्टौ पदान्यत्र अष्टापदः कैलाशः । अष्टापदं सुवर्णम्, अष्टसु लोहेषु पदं प्रतिष्ठा यस्येति । " कोटरमिश्रकसिभकपुरगसारिकस्य वणे" ( ३।२।७६ ) । कोटरावणम् । “पूर्वपदस्थान्नान्यगः ” ५ ( २/३ | ६४ ) इति णत्वे सिद्धे अत्र वणनिर्देशो नियमार्थस्ततो दीर्घसन्नियोग एव पूर्वपदस्थादिति वनस्य णत्वमन्यत्र तु कुबेरवनमित्यादौ संज्ञायामपि णत्वं न भवति । "अञ्जनादीनां गिरौ” ( ३।२।७७)। अञ्जनागिरिः । अञ्जन भाञ्जन किंशुक किंशुलुक साल्व लोहित कुक्कुट खद्रूण to पिङ्गल इति दशकोऽञ्जनादिः । बहुवचनमाकृतिगणार्थम् । "ऋषौ विश्वस्य मित्रे” ( ३।२।७९ ) विश्वामित्रः । " नरे” ( ३।२।८० ) । विश्वे नरा अस्य विश्वानरो नाम कश्चित् । वसु१० राटो: " ( ३।२।८१) । पृथग्योगान्नान्नीति निवृत्तम् । विश्वं वस्वस्य विश्वावसुः, विश्वस्मिन् राजते इति च विश्वाराट् । राडिति विकृतनिर्देशादिह न भवति - विश्वराजौ । “स्वामिचिह्नस्याऽविष्टाऽष्टपञ्चभिन्नछिन्नछिद्रश्रुवस्वस्तिकस्य कर्णे” ( ३।२।८४ ) । स्वामी चिह्नयते येन तत् स्वामिचिह्नम्, तद्वाचिनो विष्टादिवर्जस्य कर्णे उत्तरपदे दीर्घः स्यात् । दात्रं चिह्नं कर्णे यस्य स दात्राकर्णः पशुः । विष्टादिवर्जनं किम् । विष्टकर्णः, अष्टकर्णः । “गतिकारकस्य नहिवृतिवृषिव्यधिरुचिसहि१५ तनी कौ" ( ३|२|८५ ) । गतिसंज्ञस्य कारकवाचिनश्च नद्यादिषु सप्तसु किबन्तेषु उत्तरपदेषु परेषु दीर्घो ऽन्तादेशो भवति । उपनयति उपनयते वा उपानत्, परीणत् । वृत्-नीवृत् उपावृत् । वृष्- प्रावृट् परीवृट् । व्यधू- श्वावित् मर्मावित् । रुच्-नीरुक् अतीरुक् अभीरुं । सह- तुरासद् तुरेर्जुहोत्यादिपाठात्तोर्त्ति "नाम्युपान्त्य ० " ( ५।१।५४ ) इति कः । तुरं सहति तुरासद् । तुरासाडिति तु छान्दसः । अभिधानचिन्तामणौ तु तुरं त्वरितं साहयत्यभिभवत्यरीन् (तुरं वेगं सहते वा) पृषोदरादित्वात् तुरा२० षाट् । (अरणमृतिः पीडा तां सहते ) ऋतीषट् भीरुष्ठानादित्वात् षत्वम् । जलाषट् ॥ तन्- परीतत् । "गमां कौ” (४।२।५८) इति न लोपः ॥ गतिकारकस्येति किम् ? पटुरुक् तिग्मरुक् तीव्ररुक् श्वेतरुक् कमलरुक् । केचित्तु रुजाविच्छन्ति न रुचौ । तेन रुचिरुज्योर्मतभेदेन विकल्पः सिद्धः । रुज्-निरुक् नीरुक् । रुच्-अतीरुक् अतिरुक् । काविति किम् ? उपनद्धम् विततम् । इह किग्रहणादन्यत्र धातुग्रहणे तदादिविधिर्लभ्यते । तेनायस्कृतम् अयस्कार इत्यादौ सकारः सिद्धो भवति । अन्यथा ह्ययस्कृदित्यत्रैव २५ स्यात् । “घञ्युपसर्गस्य बहुलम् ” ( ३।२।८६ ) । घनन्त उत्तरपदे परे उपसर्गस्य बहुलं दीर्घोऽन्तादेशो भवति । नीक्छेदः नीमेदः नीमार्गः नीवारः प्रावारः नीशारः । कचिन्न भवति - निषादः विषादः प्रतापः प्रभावः प्रहारः । कचिद्विकल्पः - प्रतीवेश: प्रतिवेशः, प्रतीबोधः प्रतिबोधः, परीणामः परिणामः, प्रतिहारः प्रतीहारः, प्रतीकारः प्रतिकारः, अतीसारः अतिसारः, वीसर्पः विसर्पः । कचिद्विषयभेदेनप्रासादो गृहम्, प्रसादोऽन्यः । प्राकारो वप्रः, प्रकारोऽन्यः । अपामार्गः औषधिः, अपमार्गोऽन्यः । ३० नीहारो हिमम्, निहारोऽन्यः । परीरोधो मृगावरोधः परिरोधोऽन्यः । परीहारो देशानुग्रहः परिहारोऽन्यः । वीतंसः पक्षिबन्धनम्, वितंसोऽन्यः । उपसर्गस्येति किम् ? चन्दनसारः, खदिरसारः, मार्गमतिक्रान्तः अतिमार्गः । घनीति किम् ? अवसाय : अवहारः - णप्रत्ययोऽयम् । बहुलवचनादनुपसर्गस्यापि अन्यपि च भवति । दक्षिणापथः उत्तरापथः । कचिद्विकल्पः - अन्धतमः अन्धातमः । अन्धतमसं अन्धातमसम् । क्वचिद्विषयभेदेन - अधीदन्तः अधीकर्णः अधीकण्ठ अधीपादः; एते आधिक्ये । अन्यत्र अधिदन्त इत्यादि भवति । कचिदनुत्तरपदेऽपि विकल्पः- पूरुषः पुरुषः, नारक: नरकः, सादनं सद्३६ नम् । अतिशायनम् अतिशयनम् । काशशब्दे च घनन्ते विकल्पः-नीकाशः निकाशः, प्रतीकाशः प्रति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org