________________
२९१
प्रक्रियावृत्तिसपे श्रीहैमप्रकाशे समासप्रक्रिया । तत्पुरुषः काशः, अजन्ते तूत्तरो विधिः । नामिनः काशे" (३।२।८७) । नाम्यन्तस्योपसर्गस्य "अच्" (५।११४९) इत्यजन्ते काशशब्दे उत्तरपदे परे दीर्घोऽन्तादेशो भवति । निकाशते निकाश्यत इति वा नीकाशः, वीकाशः, अनूकाशः, प्रतीकाशः । बहुलाधिकारान्निकाश इत्यपि । नामिन इति किम् ? प्रकाशत इति प्रकाशः । “चितेः कचि” (३।२।८३)। चितिशब्दस्य कचि प्रत्यये दीर्घः स्यात् । एका चितिरस्मिन् एकचितीकः । द्विचितीकः । त्रिचितीकः । “अपील्वादेवहे" (३।२।८९) । वहतीति ५ यहम् । "अच्" इत्यच् । ऋषीणां वहं ऋषीवहम् । मुनीवहम् , कपीवहम् , एवं नामानि नगराणि । घान्ते तु ऋषीवह इत्यादि । अपील्वादेरिति किम् ? पीलुवहम् दारुवहम् चारुवहम् । “शुनः" ( ३।२।९०)। श्वन इत्यस्योत्तरपदे दीर्घः । शुनो दन्तः श्वादन्तः । श्वाकर्णः (श्वाकर्दः, श्वाकूर्दः, श्वावहम् । बहुलाधिकारात् क्वचिद्विकल्पः श्वापुच्छम् श्वपुच्छम् । कचिद्विषयान्तरे-शुनः पदमिव पदमस्य श्वापदं व्याघ्रादि । कचिन्न-श्वफल्कः (कल्पः १)।
कचित्समासे पूर्वपदस्य हखत्वं स्यात् । "वेदतोऽनव्ययवृदीचङीयुवः पदे" (२।४।९८) । ईकारोकारयोरुत्तरपदे परे हखो वा स्यात् । नचेत्ताव्ययौ तौ ईज्रूपौ डीरूपी इयुवस्थानौ च भवतः । लक्ष्मिपुत्रः लक्ष्मीपुत्रः । ग्रामणिपुत्रः २ । ब्रह्मबन्धुपुत्रः २ । खलपुपुत्रः २ । ईदूत इति किम् ? खट्वापादः, गोकुलम् । अव्ययादिवर्जनं किम् ? अव्यय. काण्डीभूतम् ऊरीकृत्य । वृत्. इन्द्रं ह्रयतीति “असरूपोऽपवादे०"१५ (५।१।१६) इत्यणपवादे, किपि “यजादिवचेः किति” (४।१।७९) इति वृति, "दीर्घमवोऽन्त्यम्" (४।१।१०३) इति दीर्घ इन्द्रहपुत्रः । ईच्. कारीषगन्धीपुत्रः । डी. गार्गीपुत्रः । इयुवू . श्रीकुलम भ्रुकुलम् यवक्रीकुलम् कटप्रूकुलम् । उत्तरपद इति किम् ? अग्नी पश्य, पटू पश्य । “ड्यापो बहुलं नाम्नि" (२।४।९९)। ड्याबन्तस्य उत्तरपदे बहुलं हवः स्यात् , नाग्नि विषये । भरणिगुप्तः रोहिणिमित्रः महित्रातः शिलवहम् शिलप्रस्थम् । कचिद्विकल्पः-रेवतिमित्रः रेवतीमित्रः । पृथिविदत्तः २ ।२० पृथिविगुप्तः २ । गङ्गमहः गङ्गामहः । गङ्गदेवी २ । शिंशपस्थलम् २ । कचिन्न भवति-फल्गुनीमित्रः, नान्दीमुखम् , नान्दीतूर्यम् , नान्दीकरः, नान्दीघोषः, महीफलम् , महीकरः, महीविशाल:, लोमकागृहम् , लोमकाखण्डः, लेपिकागृहम् , लेपिकाखण्डः, गङ्गाद्वारम् । झ्याप इति किम् ? श्रीपुरम् । "भ्रुवोऽच कुंसकुट्योः ” (२।४।१०१)। भ्रूशब्दस्यानयोरुत्तरपदयोहखोऽकारश्च स्यात् । भ्रुकुंसः भ्रकुंसः। भ्रुसु (?) भूपरः कुंसो नटः स्त्रीवेशधारकः । भ्रुकुटिः भ्रकुटिः। भ्रुकुंसभ्रूकुटिशब्दावपि इच्छन्त्यन्ये ।२५ "मालेषीकेष्टकस्यान्तेऽपि भारितूलचिते" (२।४।१०२)। मालाप्रभृतीनां त्रयाणां केवलानामन्ते वर्तमानानां च भारिप्रभृतिषु त्रिषूत्तरपदेषु ह्रस्वः स्यात्, यथासङ्ख्यम् । मालां बिभर्तीत्येवंशीलो मालभारी । उत्पलमालभारी । मालभारिणी उत्पलमालभारिणी । इषीकतूलम् मुखैषीकतूलम् । इष्टकचितम् पक्केष्टकचितम् । इदमेवान्तग्रहणं ज्ञापकम्-ग्रहणवता नाना न तदन्तविधिरिति । तेन दिग्धपादोपहतः सौत्रनाडीरित्यादौ पदादेशायनप्रभृतयो न स्युः । “गोण्या मेये" (२।४।१०३ ) १० गोणीशब्दस्य मानवाचिन उपचारान्मेये वर्तमानस्य हवः स्यात् । गोण्या मितो गोणिः। "यादीदूतःके” (२।४।१०४) डीप्रत्ययस्याकारेकारोकाराणां च के प्रत्यये हस्वः स्यात् । कुमारिका पट्विका सोमपकः कीलालपकः । सोमपिका कीलालपिका लक्ष्मिका तत्रिका वधुका यवागुका ब्रह्मबन्धुका । ङीग्रहणं पुंवद्भावबाधनार्थम् । सोमपिकेत्यादौ ह्रखस्य, दारदिकेत्यादौ च पिति पुंवद्भावस्य सावकाश-३४ १ अत्र वहशब्दोऽजन्तो घान्तश्च गृह्यते, लिङ्गाच्च विशेषो वाच्यः। २ भृकुंसभृकुटिशब्दावपि नारायणकण्ठी मन्यते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org