________________
२९२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
त्वात्पद्विकेत्यादौ चोभयप्राप्तौ परत्वात्पुंवद्भावे पद्विकेत्यादि न सिद्ध्यतीति ङीग्रहणम्, तद्धि निरवकाशत्वात्युंवद्भावं बाधते । काकः पाक इत्यादौ तु "प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम्” इति न्यायान स्यात् । अथात्रादेशविशेषमाह
उदक्रादेरुदादिर्यथायोगम् । उदधिः । उदकुम्भः उदककुम्भः । उदबिन्दुः उदकबिन्दुः । ५ लवणोदः । *द्वीपम् । अनूपः ।
I
उदकादेरित्यादि, अदधिरिति - "उदकस्योदः पेषन्धिवासवाहने ” ( ३।२।१०४ ) । उदकेन पिनष्टि उदपेषं पिनष्टि तगरम् । उदकं धीयतेऽस्मिन्निति उदधिर्घटः । उदकस्य वास उदवासः । एवं उदवाहनः । अनामार्थं वचनम् । नान्युत्तरेणैव सिद्धम् । “वैकव्यञ्जने पूर्ये” ( ३।२।१०५)। पूरयितव्यवाचिन्यसंयुक्तव्यञ्जनादावुत्तरपदे तथा । उदकुम्भः उदककुम्भ इति । व्यञ्जन इति किम् ? १० उदकामत्रम् । एक इति किम् ? उदकस्थालम् । पूर्य इति किम् ? उदकपर्वतः । " मन्थौदन-सक्तुबिन्दु वज्र-भार-हार-वीवध गाहे वा” (३।२।१०६) । उमन्थः उदकमन्थ इत्यादि । 'मुक्ताफलद्युतिमुपैति ननूदबिन्दुः' । अपूर्यार्थो यत्नः । “नान्युत्तरपदस्य च ” ( ३।२।१०७ ) । चकारात् पूर्वपदस्य । उदमेघो नाम, यस्यौदमेधिः सुतः । उदपानं निपानम् । उदधिः समुद्रः । उत्तरपदस्य लवणोदः, क्षीरोदः, कालोदः एते समुद्राः । लोहितोदा क्षीरोदा नाम नदी । अच्छोदम्, सितोदम्, १५ अरुणोदम्, लोहितोदम् एवन्नामानि सरांसि । * द्वीपमिति - "ह्यन्तरनवर्णोपसर्गादप ईपू "
( ३।२।१०९ ) । द्विधा गता आपोऽस्मिन्निति । द्वीपम् । एवमन्तरीपम्, नीपम्, प्रतीपम्, समीपम्, अन्वीपम् वीपम् | "अनोदेशे उप्” ( ३।२।११०) । अनुगता आपो अस्मिन् अनूपो देशः । देश इति किम् ? अन्वीपं वनम् । कथं कूपः सूपः, यूपः ? पृषोदरादित्वात् । "हृदयस्य हृल्लासलेखाण्ये" ( ३।२।९४ ) । लासलेखयोरणि ये च प्रत्यये हृदयस्य हृदादेशः । हृदयस्य लासो हृल्लासः, हृदयं लिखतीति २० हृल्लेखः । अण् सन्निधानाल्लेखशब्दोऽणन्तो गृह्यते, तेन घञन्ते न भवति । हृदयस्य लेखो हृदयलेखः ।
अणू. हृदयस्येदं हाईम्, सौहार्द्दम् दौहार्दम् । य. हृदयस्य प्रियो हृद्यः । हृदये भवं हृदयाय हितं हृद्यम् । "पदः पादस्याज्यातिगोपहते” (३।२।९५) । आज्यादिषूत्तरपदेषु पादस्य पद इत्यादेशो भवति । पादाभ्यामजति अतति वेत्यौणादिके इंणि पदाजिः पदातिः । अत एव निर्देशादजेर्वी न भवति । पादाभ्यां गच्छति पदगः । “नाम्नो गम ०" ( ५ | १|१३१ ) इति डः । पादाभ्यामुपहतः पदोपहतः । २५ पदशब्देनैव सिद्धौ आज्यादिषु पादप्रयोगनिवृत्त्यर्थं वचनम् । “हिमहतिकाषिये पद्” (३।२।९६) । हिमादिषूत्तरपदेषु पादस्य पदित्यादेशः । पादयोर्हिमं पद्धिमम् । पादाभ्यां हतिः पद्धतिः । पादौ कषतीत्येवंशीलः, पुनः २ पादौ कषति, पादाभ्यां साधु कषतीति' पत्काषी । य. पादौ विध्यन्ति पद्याः शर्कराः । पादयोर्भवाः पद्याः पांसवः । पादाभ्यां हितं पद्यं घृतम् । कथं पादार्थमुदकं पाद्यम् ? " पाद्यार्थ्ये" (७/१।२३ ) इति निपातनात् । "ऋचः श्शसि ” ( ३।२।९७ ) । ऋचः सम्बन्धिनः पादस्य शस्३० प्रत्यये पदादेशः स्यात् । पादं पादं गायत्र्याः शंसति पच्छो गायत्रीं शंसति । " शब्दनिष्कघोषमिश्रे वा" ( ३।२।९८ ) । पादयोः शब्दः पच्छन्दः, पादशब्दः । पन्निष्कः २ । पद्घोषः २ । पादाभ्यां मिश्रः पन्मिश्रः पादमिश्रः । “नस् नासिकायास्तः क्षुद्रे” (३।२।९९) । तस्प्रत्यये क्षुद्रे चोत्तरपदे नासिकाया नसित्यादेशः स्यात् । नस्तः, नः क्षुद्रः । “दिक्शब्दात्तीरस्य तारः” (३।२।१४२) । वा । दक्षिणस्या दिशो दक्षिणस्य वा देशस्य तीरं दक्षिणतारम् २ || दिक्शब्दादिति ३५किम् ? गङ्गातीरम् इत्यादि सर्वमुदकादेरित्यादिना सङ्गृहीतं ज्ञेयम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org