________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । तत्पुरुषः
२८३ सङ्घस्य भद्रं भूयादित्यादौ त्वाशिषि षष्ठ्याः समासो न भवति, असामादनभिधानाद्वा-नहि समभद्रं भूयादित्युक्ते सङ्घस्य भद्रं भूयादिति प्रतीयते किन्तु सङ्घसम्बन्धि भद्रं कस्यचिद्भूयादिति प्रतीयते ॥४५॥
न कर्त्तरि ॥ ४६ ॥ [सि० ३१११८२] कर्तृजषष्ठयन्तमकान्तेन न समस्यते । तव शायिका ॥ ४६॥
"न क०" । तव शायिकेति शयितुं पर्यायः शायिका "पर्यायाहोत्पत्तौ च णकः” (५।३।१२०)५ इति णकः ॥ ४६ ॥
कर्मजा तृचा च ॥४७॥ [सि० ३२११८३] कर्मजषष्ठयन्तमकान्तेन तृजन्तेन च न समस्यते । भक्तस्य भोजकः । अपां स्रष्टा । "तृतीयाम्” (३।१।८४)। कर्तरि । आश्चर्यो गवां दोहोऽअगोपेन ॥४७॥
"कर्म०" । कर्मजषष्ठ्यन्तमिति-कर्त्तरीत्यनुवर्त्तते तच्चाकस्य विशेषणम्, कर्मणि विहिता षष्ठी १० कर्मजा, तदन्तं नाम कर्तरि विहितो योऽकप्रत्ययस्तदन्तेन तृजन्तेन च न समस्यते । कर्मजेति किम् ? सम्बन्धषष्ठ्याः प्रतिषेधो मा भूत् । गुणो गुणिविशेषकः, गुणिनः सम्बन्धी विशेषक इत्यर्थः । कथं भूभा वज्रभ" इति ? भर्तृशब्दो यः पतिपर्यायस्तेन सम्बन्धषष्ठ्या, याजकादिपाठात्कर्मषष्ट्या वाऽयं समासः । क्रियाशब्दस्य तु तत्राग्रहणादनेन प्रतिषेधः । भुवो भर्ता वनस्य भो । “तृती." कर्तरीति-कर्तरि या तृतीया तस्यां सत्यां कर्मजा षष्ठी न समस्यते इत्यर्थः ॥ ४७॥
तृप्तार्थपूरणाव्ययाऽतृश्शत्रानशा ॥ ४८॥ [सि० ३११८५] एभिः षभिः सह षष्ठयन्तं न समस्यते । फलानां तृप्तः। तीर्थकृतां षोडशः राज्ञः साक्षात् । रामस्य द्विषन् । चैत्रस्य पचन् । मैत्रस्य पचमानः । “ज्ञानेच्छा र्थाधारक्तन" (३३११८६)। राज्ञा ज्ञातः इष्टः पूजितः । इदमेषां यातम् । “अखस्थगुणैः" (३।११८७) । पटस्य शुक्लः। काकस्य कार्ण्यम् ॥४८॥
"तृप्ता" । सुगमम् । “ज्ञाने"। "ज्ञानेच्छा र्थाञ्बीच्छील्यादिभ्यः क्तः" (५।२।९२) इति सूत्रेण ज्ञानेच्छार्चार्थेभ्यो वर्तमाने विहितो यः क्तो यश्च "अद्यर्थाश्चाधारे" (५।१।१२) इति सूत्रेणाधारे विहितः क्तस्तदन्तेन षष्ट्यन्तं न समस्यते । “अख."। ये गुणाः स्वात्मन्येवावतिष्ठन्ते न द्रव्ये ते स्वस्थास्तत्प्रतिषेधेनास्वस्थगुणवाचिभिर्नामभिः सह षष्ठ्यन्तं न समस्यते । पटस्य शुक्ल:-अत्रार्थात्प्रकरणाद्वाऽपेक्ष्यस्य वर्णादेर्निीने योऽयं शुक्लादिः स पटादेरिति सामोपपत्तेः समासः प्राप्नोतीति प्रति-२५ षिध्यते । तथा पटस्य शौक्नुधं गुडस्य माधुर्यमत्र पूर्वत्र च शुक्लादेर्गुणस्य शुक्लः पट इत्यादौ द्रव्येऽपि वृत्तिदर्शनादस्वास्थ्यमस्त्येव । शौक्लयशब्दश्च यद्यपि शुक्लवत्साक्षात्पटे न वर्त्तते तथापि भूतपूर्वगत्या द्रव्यवृत्तिरित्यस्याप्यस्वस्थत्वम् । गुणाश्वेह लोकप्रसिद्धा रूपरसगन्धस्पर्शा अभिप्रेतास्तत्तद्विशेषैरेवायं प्रतिषेधस्तेन यत्नगौरवं बुद्धिकौशलं करणपाटवं भेरीशब्दो गौशब्दमित्यादौ प्रतिषेधो न भवति । अस्वस्थगुणैरिति किम् ? घटवर्णः कन्यारूपं कपित्थरसः चन्दनगन्धः स्तनस्पर्शः । बहुलाधिकारात् कण्टकस्य ३० तैक्ष्ण्यम् वृषलस्य धाष्टमित्यादिषु समासो न भवति, चन्दनसौरभ्यमित्यादिषु च भवतीति ॥ ४८ ।।
नञ् ॥ ४९ ॥ [सि० ३११५१ ] नञ् नाना सह समस्यते, स तत्पुरुषः ।
२०
३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org