________________
२८२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु
- इत्यादिशब्दाच "क्तेन" (३।११९२ ) सप्तम्यन्तं क्तान्तेन समस्यते, क्षेपे गम्यमाने । भस्मनि हुतम् , प्रवाहे मूत्रितम् , उदके विशीर्णम् ; निष्फलं कृतमेवमुच्यते । अवतप्ते नकुलस्थितम् कार्येष्वनस्थितत्वमुच्यते, सर्वत्रोपमानेन क्षेपो गम्यते नित्यसमासाश्चैते । “तत्राहोरात्रांशम्" (३।१।९३) पृथग्योगात् क्षेप इति निवृत्तम्, तत्रेत्येतत्सप्तम्यन्तं नाम अहरवयवा राज्यवयवाश्च सप्तम्यन्ताः ५क्तान्तेन समस्यन्ते । तत्र कृतं तत्र भुक्तम् । पूर्वाह्वे कृतं पूर्वाहकृतम् । एवमपराकृतं पूर्वरात्रकृतम् , तद्धिताद्युत्पत्तिः समासफलम्-तात्रकृतिः । "नाग्नि" (३।२९४) संज्ञाविषये सप्तम्यन्तं नाम नाम्ना समस्यते । अरण्ये तिलकाः, पूर्वाह्ये स्फोटकाः । “कृयेनावश्यके" (३।१।९५) सप्तम्यन्तं नाम “य एचातः” (५।१।२८) इति कृद्यप्रत्ययान्तेन समस्यते, अवश्यम्भावे गम्यमाने । मासे अवश्यं देयं मासदेयम् । य इति किम् ? मासे स्तुत्यः, मासे दातव्या भिक्षा, संवत्सरकर्त्तव्यमिति तु बहुलाधिकारात् । १० आवश्यफ इति किम् ? मासे देया भिक्षा इति सप्तमीतत्पुरुषः । अत्र विशेषमाह ।
तदर्थार्थेन ॥ ४५ ॥[सि० ३।१।७२ ] चतुर्थ्यर्थनार्थशब्देन चतुर्थ्यन्तं समस्यते । पूजार्था सम् । “परः शतादिः" (३।११७५)। पश्चमीतत्पुरुषाः । “सर्वपश्चादादयः” (३।१६८०)। षष्ठीतत्पुरुषाः (पात्रेसमितेत्यादयश्च)
सप्तमीतत्पुरुषा निपात्याः। (यत्नजषष्ठयन्तं न समस्यते) सर्पिषो नाथितम् ॥ ४५ ॥ १५ "तद०" पूजार्था सगिति । डेऽर्थो वाच्यवदिति वाच्यलिङ्गता तेन उदकार्थो घटः, पित्रर्थ पयः
इत्यादि । नित्यसमासश्चायं चतुल्यैव तदर्थस्योक्तत्वादर्थशब्दाप्रयोगे वाक्यासम्भवात् समासस्तु बचनाद्भवति । तदर्थेत्यर्थविशेषणं किम् ? पित्रेऽर्थः-तदर्थ धनमित्यर्थः । “पर शतादिः" इत्यादि-शतात्परे-परःशताः, सहस्रात्परे परःसहस्राः, लक्षालक्षाया वा परे परोलक्षाः । परशब्दस्य पूर्वनिपातः सकारागमश्च । निपातनात् परशब्दसमानार्थः परः शब्दः सकारान्तोऽस्तीत्यन्ये । “सर्व२० पश्चादादयः" इति सर्वेषां पश्चात्पदं वर्त्तते । सर्वचिरं जीवति । तदुपरिष्टाद्रुक्मं निदधाति ।
अव्ययप्रतिषेधापवादोऽयम् । बहुवचनं शिष्टप्रयोगानुसरणार्थम् । “गुणान्तरेण तरलोपश्चेति वक्तव्यम् । तरबन्तं यद्गुणवाचि तेन सह समासः 'न निर्धारण' इति 'पूरणगुण' इति च निषेधस्य प्रतिप्रसवोऽयम् । सर्वेषां श्वेततरः सर्वश्वेतः, सर्वेषां महत्तरः सर्वमहान्” इति कौमुद्याम् । “पात्रेसमितेत्यादयः" (३।१।९१) इति क्षेपे गम्ये एते सप्तमीतत्पुरुषा निपात्यन्ते । पात्रे एव समिता इति पात्रशब्देन २५पात्रसहचारि भोजनं लक्ष्यते, ततो भोजन एव समिता मिलिताः सन्ति न कार्यान्तरे इत्यवधारणात् क्षेपो
गम्यते । एवं गेहे नर्दी गेहे शूर इत्यादि । इतिशब्दः समासान्तरनिवृत्त्यर्थस्तेन परमाः पात्रे समिताः पात्रे समितानां पुत्र इत्यादिषु समासो न भवति । निपातनात् सप्तम्या अलुप् । बहुवचनमाकृतिगणार्थम् ।
अथ षष्ठीसमासनिषेधमाह-“षष्ठययनाच्छेशे" (३।११७५) । यत्नजेत्यादि-यस्या विधानाय सूत्रान्तरकरणं सा यत्नजा षष्ठी तदन्तं नाम न समस्यते । सर्पिषो नाथितमिति-"नाथः” ( २।२।१०) ३० इति सूत्रेण व्याप्ये षष्ठी । एवं मातुः स्मृतम् सर्पिषो दयितं मातुरीशितम् "स्मृत्यर्थदयेशः” (२।२।११)
इति षष्ठी । एधोदकस्योपस्कृतम् "कृगः प्रतियत्ने” (२।२।१२) इति षष्ठी । चौरस्य रुग्णं "रुजार्थस्याऽज्वरिसन्तापेर्भावे कर्त्तरि" (२।२।१३) इति षष्ठी । चौरस्योज्जासितं “जासनाटकाथपिषो हिंसायाम्” (२।२।१४ ) इति षष्ठी । यत्नजशेषषष्ठ्यन्तमिति किम् ? गोस्वामी पृथिवीश्वर इत्यादौ ३४ समासो भवत्येव "स्वामीश्वरा०” (२।२।९८) इत्यादिसूत्रस्य नित्यं षष्ठीप्राप्तौ सप्तमीविधानार्थत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org