________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । तत्पुरुषः
२८१
समासः । दूरादागतः “आरादयैः " ( २।२।७८) इति पञ्चमी, ततोऽनेन समासः । सर्वत्र “असत्त्वे ङसेः” (३।२।१०) इत्यलुप्समासे तद्धिताद्युत्पत्तिः फलम् । स्तोकान्मुक्तिरित्यादि । इति पञ्चमीतत्पुरुषः ।
“षष्ठधयत्नाच्छेषे” ( ३।१।७६ ) उक्तकारकव्यतिरिक्तः शेषस्तत्र तद्न्तं नाम नाम्ना समस्यते । अयत्नात्, न चेत्स शेषो “नाथः " ( २।२।१० ) इत्यादिर्यनाद्भवति । राज्ञः पुरुषः राजपुरुषः । ऋद्धस्य राज्ञः पुरुष इत्यादौ सापेक्षत्वात्समासो न भवति । देवदत्तस्य गुरुकुलम्, जिनदत्तस्य दास - ५ भार्येत्यादौ तु सापेक्षत्वेऽपि गमकत्वाद्भवति । अयत्नादिति किम् ? सर्पिषो नाथितम् । मातुः स्मृतम् । "कृति" (३।१।७७)। “कर्मणि कृतः” ( २।२।८३ ) इति कर्त्तरि ” ( २।२।८६ ) इति च सूत्राभ्यां या षष्टी, तद्न्तं नाम नाम्ना समस्यते । गणधर्रोक्तिः । इध्मत्रश्चनः । " याजकादिभिः” (३।१।७८) । एभिः षष्ठ्यन्तं समस्यते । ब्राह्मणानां याजकः ब्राह्मणयाजकः । एवं गुरुपूजकः । याजक पूजक परिचारक परिवेषक स्नापक अध्यापक आच्छादक उन्मादक उद्वर्त्तक होतृ भर्तृ इति एकादश याजकादयः । १० आकृतिगणोऽयम् । तेन तुल्यार्था अपि-गुरुसदृशः गुरुसमः । तथा अन्यत्कारकम् विश्वगोप्ता, तीर्थकर्त्ता तत्प्रयोजको हेतुश्च, जनिकर्तुः प्रकृतिः इत्यादि सिद्धं भवति । " पतिरथौ गणकेन” (३।१।७९) । पत्तिगणकः रथगणकः। " अकेन क्रीडाजीवे” (३।१।८१) । आजीवो जीविका, क्रीडायामाजीवे च गम्यमाने षष्ठ्यन्तमकप्रत्ययान्तेन समस्यते । शालभञ्जिका - क्रीडायाः संज्ञा, दन्तलेखकः - दन्तलेखनमस्याजीवः । क्रीडाजीवौ वाक्येन न गम्येते इति नित्यसमासा एते "कर्मजा तृचा च” ( ३।१।८३ ) इति १५ प्रतिषेधे प्राप्ते सूत्रत्रयम् । क्वचित्षष्ठीतत्पुरुषे पूर्वपदस्य पुंवद्भावो वा स्यात् । तथाहि - " मृगक्षीरादिषु वा" ( ३।२।६२ ) । एतेषु समासशब्देषु परतः स्त्रीलिङ्गमनेकार्थे अरूयेकार्थे चोत्तरपदे पुंवद्वा स्यात् । मृग्याः क्षीरं मृगक्षीरं मृगीक्षीरं, मृगपदम् मृगीपदम्, मृगशावः मृगीशावः, कुक्कुटाण्डं कुक्कुट्यण्डम्, मयूराण्डं मयूर्यण्डम्, काकाण्डं काक्यण्डम्, काकशावः काकीशावः । मृगक्षीरादयः प्रयोगतोऽनुसर्त्तव्याः । पुंस्त्रीलिङ्गपूर्वपदभेदेन समासविवक्षायां सूत्रानारम्भे मृगक्षीरादयो न सिद्ध्यन्ति । इति षष्ठी - २० तत्पुरुषः ।
1
"सप्तमी शौण्डाद्यैः ” ( ३।१।८८ ) । सप्तम्यन्तं शौण्डाद्यैः समस्यते । पाने प्रसक्तः शौण्डः पानशौण्डः मद्यपः । अक्षेषु प्रसक्तः शौण्ड इव अक्षशौण्डः, शौण्डशब्द इह गौणो व्यसनिनि वर्त्तते, वृत्तौ प्रसक्तिक्रियाया अन्तर्भावादप्रयोगः । शौण्ड धूर्त्त कितव व्याल सव्य, आयस व्यान एतौ अलसासक्तपर्यायौ । सवीण दक्षिणपर्यायोऽयम् । अन्तर् अधीन पटु पण्डित कुशल चपल निपुण सिद्ध २५ शुष्क पक बन्ध इत्येकोनविंशतिः शौण्डादयः । बहुवचनमाकृतिगणार्थम्, तेन शिरः शेखरः, हस्तकटकः, आपातरमणीयः, अवसानविरसः, पृथिवीविदितः, पृथिवीप्रणतः, अन्तेगुरुः, मध्येगुरुः, गलेवोपकः(?) त्वचिसारः, ऋणेऽधमः अधमर्णः, ऋणे उत्तमः उत्तमर्णः, राजदन्तादित्वात्परनिपातः इत्यादि सिद्धम् । “सिंहा०” ( ३|१|८९ ) । समरसिंह इति समरे सिंह इवेति उपमयात्र पूजा गम्यते । एवं कलियुधिष्ठिरः । बहुवचनमाकृतिगणार्थम् । “ काका ० " ( ३|१| ९० ) । तीर्थकाक इति तीर्थे ३० काक इव उपमयाऽत्र क्षेपो गम्यते । एवं तीर्थध्वाङ्गः तीर्थवायसः तीर्थबकः तीर्थश्वा तीर्थसारमेयः तीर्थकुक्कुटः तीर्थशृगालः । यथा काकादिस्तीर्थफलमजानन्न चिरस्थायी भवति; एवं यः कार्याण्यारभ्य तेष्वनिर्वाहकः सोऽनवस्थित एवमुच्यते । बहुवचनं प्राग्वत्
३३
१ ननु मृगस्य पदं मृगपदम्, मृग्याः पदं मृगीपदमिति कृते सेत्स्यति किमर्थमिदमित्याशङ्का । २ आदिशब्दात् मयूराण्ड - मित्यादि । एतच्च मृग्याः क्षीरमिति कृते द्रष्टव्यम् ।
2.
Jain Education International
० प्रका० पूर्वा० ३६
For Personal & Private Use Only
www.jainelibrary.org