________________
२८०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुचतस्रति किम् ? अर्द्धन कृताश्चत्वारो द्रोणाः ॥ “ऊनार्थपूर्वायैः” ( ३।११६७)। तृतीयान्तमूनाथैः पूर्वाद्यैश्च समस्यते । माषेणोनं माषोनम् , एवं माषविकलम् । मासेन पूर्वः मासपूर्वः, एवं मासावरः । पूर्व अवर सदृश सम कलह निपुण मिश्र लक्ष्ण इत्यष्टौ पूर्वाद्याः । आकृतिगणोऽयम् , तेन धान्येनार्थः धान्यार्थः । आत्मना पञ्चमः । आत्मना षष्ठः । आत्मनः पूरण इत्यलुक्समासः । माषणाधिकं माषा५धिकम् कार्षापणम् , भ्रात्रा तुल्यः भ्रातृतुल्यः । एकेन द्रव्यत्वम् एकद्रव्यत्वम् इत्यादि सिद्धम् । पूर्वादियोगे यथायोगं हेत्वादौ तृतीया ॥ "कारकं कृता" (३।१।६८)। कारकवाचि तृतीयान्तं सामर्थ्यात् कर्तृकरणरूपं कृदन्तेन समस्यते । कर्तृ-आत्मना कृतम् आत्मकृतम् । "कृत् सगतिकारकस्यापि" (७।४।११७) विशेषणम् । चैत्रेण नखनिर्भिन्नः चैत्रनखनिर्भिन्नः। एवं सुजनसुलभः । दुर्जनदुर्लभः ।
अरिदुर्जयः । करण-परशुना च्छिन्नः परशुच्छिन्नः । एवं नखनिर्मिन्नः। पादप्रहारः । पादाभ्यां ह्रियते १०पादहारकः । तलाहृतिः । शस्त्रप्रहृतिः । बहुलाधिकारात् स्तुतिनिन्दार्थतायां प्रायेण कृत्यैः समासःकर्तृ. काकपेया नदी-एवं पूर्णेत्यर्थः । श्वलेह्यः कूपः-एवमासन्नोदक इत्यर्थः । कुक्कुटसम्पात्या ग्रामाएवमासन्ना इत्यर्थः । करण. कण्टकसञ्चय ओदनः-एवंनाम विशद इत्यर्थः । बाष्पच्छेद्यानि तृणानिएवंनाम मृदूनीत्यर्थः । अन्यत्रापि बुसोपेन्ध्यम् तृणोपेन्ध्यम् -तेजसोऽल्पताख्यायते । छनघात्यः-- कृच्छ्रसाध्यत्वमुच्यते । कारकमिति किम् ? विद्ययोषितः । अन्नेनोषितः । तेन हेतुनेत्यर्थः । (पुत्रेण १५ गतः छात्रेणागतः, तेनै सहेत्यर्थः । कृतेति किम् ? गोभिर्वपावान् , धान्येन धनवान् , बहुलाधिकारादेव क्तवतुना क्त्वया तव्यानीयाभ्यां च न भवति । दात्रेण लूनवान , परशुना छिन्नवान् , दात्रेण कृत्वा, परशुना छित्त्वा, काकैः पातव्यः, श्वमिलेंढव्यः ।) “नविंशत्यादिनैकोऽच्चान्तः” (३।१।६९) तृतीयान्त एकशब्दो नविंशत्यादिना समस्यते । एकशब्दस्य चादन्तो भवति । एकान्नविंशतिः । पक्षे एकाद् नविंशतिः । एवम् एकान्नत्रिंशत् इत्यादि । नविंशत्यादिनेति निर्देशात् “नबत्" २० (३।२।१२५) (इति नमोऽत् ) न भवति । इति तृतीयातत्पुरुषः ।
"चतुर्थी प्रकृत्या" (३।११७०)। प्रकृतिः परिणामिकारणम् , चतुर्थ्यन्तं विकृतिवाचि प्रकृतिवाचिना समस्यते । यूपाय दारु यूपदारु । प्रकृत्येति किम् ? रन्धनाय स्थाली । मूत्राय सम्पद्यते यवागूरित्यादौ तु विकारस्याप्रधानस्य सम्पद्यते इत्यादि क्रियासापेक्षत्वात् न भवति ॥ “हितादिभिः ” (७।३।७१)।
चतुर्थ्यन्तं हितादिभिः समस्यते । गोभ्यो हितं गोहितम् । हित सुख रक्षित बलि इति चत्वारो २५ हितादयः । आकृतिगणश्वायम् । तेन अश्वघासः, श्वश्रूसुरा, श्वश्रूसुरम् , हस्तिविधानम् , धर्मनियमः, धर्मजिज्ञासा, नाट्यशाला, आत्मनेपदम् , परस्मैपदम् इत्यादि सिद्धम् । कृत्यप्रत्ययान्तं चेह पठ्यतेदेवदेयम् । इह न भवति-ब्राह्मणाय दातव्यम् ॥ इति चतुर्थीतत्पुरुषः।
"पश्चमी भयाद्यः" (३।११७३) । पञ्चम्यन्तं भयाद्यैः समस्यते । वृकाद्भयं वृकभयम् । भय भीत भीति भी भीरु भीलुक निर्गत जुगुप्स अपेत अपोत मुक्त पतित अपत्रस्त इति त्रयोदश भयादयः । ३० आकृतिगणश्चायम् , तेन द्वीपान्तरानीतः, स्थानभ्रष्टः, तात्परः, तपर इति सिद्धम् । बहुलाधिकारात्
इह न भवति-प्रासादात्पतितः ॥ "क्तेनासत्त्वे" (३।१।७४) । असत्त्वे वर्तमाना या पञ्चमी, तदन्तं ३२ नाम कान्तेन समस्यते । स्तोकान्मुक्तः । "स्तोकाल्पकृच्छ्र०” (२।२।७९) इति पञ्चमी, ततोऽनेन
१नात्र निन्दा स्तुतिर्वा किन्तु स्वरूपकथनम् । २ घात्यस्य काठिन्यं प्रतिपाद्यते । ३ एवं शिक्षया परिव्राजक इतीत्थम्भूतलक्षणेऽप्यनुक्तमपि ज्ञेयम् । अनीयप्रयोग श्वभिलेहनीय इत्याद्यपि द्रष्टव्यम् । ४ पचत इत्येवमादीनामात्मा स्वभावस्तदर्थं पदम् ते आते इत्यादि आत्मनेपदम् । ५ तिवाद्यवयवापेक्षया प्रकृतिप्रत्ययसमुदायः पचतीत्यादिलक्षणः परोऽर्थस्तदर्थ तिवादिकं पदम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org