________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । तत्पुरुषः
२७९ प्रागेव समास"। "तृतीयोक्तं नवा" (३३११५०)। मूलकेनोपदंशं मूलकोपदंशं भुङ्क्ते । पार्श्वयोः पार्थाभ्यां वोपपीडं पार्थोपपीडं शेते ॥४४ ॥ *यथायोगं द्वितीयाद्यन्तं नाम प्रथमान्तेन समस्यते, स द्वितीयादितत्पुरुष इति वक्तव्यम् । धर्मप्राप्तः । मदपटुः । आत्मकृतम् । यूपदारु । गोहितम् । वृकभयम् । राजपुरुषः पानशौण्डः "सिंहाथैः पूजायाम्” (३।१८९) । सप्तम्यन्तं समस्यते । समरसिंहः, भूमिवासवः । “काकाद्यैः क्षेपे"५ (३।११९०)। तीर्थकाका तीर्थश्वा इत्यादि । __ "ङस्यु०" विभक्त्युत्पत्तेः प्रागेव समास इति-तेन चर्मन् टाक्रीत इत्यादौ कच्छ अम् प इत्यादौ च समासे सत्यकारान्तत्वात् डीः सिद्धः । चर्मक्रीती कच्छपी इत्यादि । यदि पुनर्विभक्त्यन्तैः कृदन्तैः समासः स्यात्तदान्तरङ्गत्वाद्विभक्तेः प्रागेवापः प्राप्तावकारान्तत्वाभावात् बीन स्यात् । तथा माषान् वापिन् इत्यादौ समासे नकारस्यानन्तत्वात् “वोत्तरपदान्तनस्यादे०” (२।३७५) इति णत्वम् सिद्धम् । १० माषवापिणी । विभक्त्यन्तेन तु समासेऽन्तरङ्गत्वाद्विभक्तेः प्रागेव डीप्राप्तौ नकारस्यान्त्यत्वाण्णत्वं न स्यात् । पूर्वपदस्य च विभक्त्यन्तत्वनियमात् चर्मक्रीतीत्यादिषु पदकार्य नकारलोपादिकं सिद्धम् । "तृतीय०" | "दशेस्तृतीयया" (५।४।७३ ) इत्यारभ्य यत् तृतीयोक्तं नाम, तत् कृता नाना, वा समस्यते । वाशब्दो नित्यसमासनिवृत्त्यर्थः । तेन वाक्यमपि भवति ॥ ४४ ॥
सङ्केपेण तत्पुरुषसमासप्रकरणं सङ्ग्रहीतुकामः फक्किकामाह । *यथायोगमित्यादि । तत्र सूत्राणि १५ चैवम् । “द्वितीया खट्टा क्षेपे” (३।१।५९)। द्वितीयान्तं खट्वा इत्येतनाम क्तान्तेन समस्यते । क्षेपः समासार्थो न वाक्येन गम्यते इति नित्य एवायं समासः । खट्वारूढो जाल्मः-उत्पथप्रस्थित एवमुच्यते ॥ "काल" (३।१६०)। द्वितीयान्तं कालवाचि क्तान्तेन समस्यते । रात्रिमधिरूढाः राज्यधिरूढाः । अव्याप्त्यर्थ आरम्भः ॥ "व्याप्तौ०” (३।१।६१)। गुणक्रियाद्रव्यैरत्यन्तसंयोगो व्याप्तिः । व्याप्तौ या द्वितीया तदन्तं कालवाचि नाम व्यापकवाचिना नाम्ना समस्यते । मुहूत्तं सुखं २० मुहूर्तसुखम् ॥ "श्रितादिभिः" (३।१।६२ )। द्वितीयान्तं श्रितादिभिः समस्यते । धर्म श्रितो धर्मश्रितः । श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्न गमित आगामिन् इति नव श्रितादयः । बहुवचनमाकृतिगणार्थम् । तेन ओदनबुभुक्षुः । हिताशंसुः । तत्त्वबुभुत्सुः । सुखेच्छुरित्यादि सिद्धम् ॥ “प्राप्तापन्नौ तयाच" (३।१।६३)। प्राप्तापन्नौ सामर्थ्यात् प्रथमान्तौ तया द्वितीयान्तेन समस्येते । तत्सन्नियोगो चानयोरन्तस्य अकारो भवति । प्राप्ता जीविकां प्राप्तजीविका । आपन्ना जीविकां आपन्नजीविका । अद् २५ वचनं स्त्रीलिङ्गार्थम् , प्राप्तापन्नयोः प्रथमोक्तत्वात्पूर्वनिपातार्थ वचनम् । श्रितादित्वाचानयोर्द्वितीयाया अपि प्रथमोक्तत्वाज्जीविकाप्राप्तो जीविकापन्न इत्यपि भवति ॥ “ईषद्गुणवचनैः” ( ३।१।६४) गुणे वर्त्तित्वा तद्योगाये गुणिनि वर्तन्ते, ते गुणवचनास्तैरीषदिति समस्यते । ईषदल्पं पिङ्गलः ईपत्पिङ्गलः॥ इति द्वितीयातत्पुरुषः॥
"तृतीया तत्कृतैः" (३।१।६५)। तृतीयान्तं तत्कृतैर्गुणवचनैः समस्यते । शङ्खलया कृतः ३० खण्डः शङ्कुलाखण्डश्चैत्रः । एवं गिरिकाणः । मदपटुः । क्षारशुक्लः । कुसुमसुरभिः । कृतार्थो वृत्तावन्तभूत इति कृतशब्दो न प्रयुज्यते । गुणवचनैरित्युक्तत्वात् शुद्धगुणवाचिना समासो न भवति-घृतेन पाटवम् ; अत्रापि समासो भवतीति कश्चित् ॥ "चतस्रार्द्धम्” (३।११६६) । तृतीयान्तोऽर्द्धशब्दस्तत्कृतार्थेन चतसृशब्देन समस्यते । अर्द्धन कृताश्चतस्रः अर्द्धचतस्रो मात्राः । एवं अर्द्धचतस्रः खार्यः । ३४
१ नयेकार्थोत्तरपदाभावात् 'परतः स्त्री.' इति पुंवद्भावो न प्राप्नोतीत्यत्करणम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org