________________
२७८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुअनस् मनस् विपाश् दिश् दृश् विश् उपानत् अनडुङ् चतुर् दिव् १९ इति एकोनविंशतिकः शरदादिः । अत्रापञ्चमवर्गान्त्यपाठो नित्यार्थः । “जरा०"। जराशब्दान्तादव्ययीभावादत्समान्तस्तत्सन्नियोगे च जराशब्दस्य जरसादेशः । "सर"। सह रजसा सरजसमभ्यवहरति-साकल्येऽव्ययीभावः । शुनः समीपे उपशुनं तिष्ठति-अत्र निपातनाद्वस्योत्वम् । गामन्वायतं अनुगवं "दैर्येऽनुः" (३।११३४ ) इत्य५व्ययीभावः, दैर्ध्यादन्यत्र न भवति-गवां पश्चादनुगु यानम् ॥ ४२ ॥
-> इत्यव्ययीभावः ।
अथ तत्पुरुष निरूपयतिप्रात्यवपरिनिरादयो गतकान्तकृष्टग्लानक्लान्ताद्यः .
प्रथमाद्यन्तैः ॥ ४३ ॥ [ सि० ३।११४७] १० प्रादयो गताधाः प्रथमान्तैरत्यादयः क्रान्ताद्यर्था द्वितीयान्तैरवादयः क्रुष्टाद्यर्थास्तृतीयान्तैः
पर्यादयो ग्लानाधर्थाश्चतुथ्यन्तैर्निरादयः क्लान्ताद्यर्थाः पञ्चम्यन्तैर्नित्यं समस्यन्ते, स तत्पुरुषः। प्रगतः प्रकृष्टो वा आचार्यः प्राचार्यः । गौणस्य यावन्तस्यान्तस्थस्य हस्खः । अतिक्रान्तः खट्वामतिखट्वः । अवक्रुष्टः कोकिलयाऽचकोकिलः । परिग्लानोऽध्ययनाय पर्यध्ययनः । निर्गतः कौशाम्ब्याः निष्कौशाम्बिः । “अव्ययं प्रवृद्धादिभिः” (३।१।४८)। समस्यते । पुनः प्रवृद्धं १५बर्हिः॥४३॥
"प्रात्य." प्राचार्य इति-एवं सङ्गतोऽर्थः समर्थः । विरुद्धः पक्षो विपक्षः । प्रत्यर्थी पक्षः प्रतिपक्षः । प्रतिबद्धं वचः प्रतिवचः ॥ अतिखट्व इति-एवं उद्गतो वेलां उद्वेलः । प्रतिगतोऽक्षं प्रत्यक्षः। अनुगतः प्रतिगतो वा लोमानि अनुलोमः प्रतिलोमः । अभिप्रपन्नो मुखमभिमुखः ॥ अवकोकिल इति-एवं परिणद्धो वीरुद्भिः परिवीरुत् । अनुगतमर्थेन अन्वथं नाम । सङ्गतमक्षेण समक्षं वस्तु । एवं २० सङ्गतमर्थेन समर्थं पदम् , विमुक्तमर्थेन व्यर्थं वचः॥ पर्यध्ययन इति-एवं उद्युक्तः सङ्गामाय उत्सङ्ग्रामः ।
शक्तः कुमार्यै अलङ्कुमारिः । शक्तः पुरुषेभ्योऽलम्पुरुषीणः ।। निष्कौशाम्बिरिति-एवं अपगतः शाखायाः अपशाखः । अन्तर्गतोऽङ्गल्या अन्तरङ्गुलो नखः । उत्क्रान्ता कुलात् उत्कुला कुलटा । एवं उद्वेल: समुद्रः । उच्छास्त्रं वचः । उत्सूत्रो न्यायः। उच्छृङ्खलः कलभः । अपगतमर्थात् अपार्थं वचः । अपक्रम कार्यमित्यादि । बहुलाधिकारात् षष्ठयन्तेनापि अन्तर्गतो गार्ग्यस्य अन्तर्गायैः ॥ सप्तम्यन्तेनापि-प्रतिग२५ तमुरसि प्रत्युरसम् । (गताचा इति किम् ? वृक्षं प्रति विद्योतते विद्युत् । साधुर्देवदत्तो मातरं प्रति )
अन्य इत्येव-प्राचार्यको देशः । वक्ष्यमाणे "गतिकन्यस्तत्पुरुषः” (३।१।४२) इति तत्पुरुषलक्षणसूत्रे अन्य इत्यस्य हि अन्यो बहुव्रीह्यादिलक्षणरहितस्तत्पुरुषो भवति इत्यर्थः ॥ बहुवचनमाकृतिगणार्थम् । "अव्य." । पुनरुत्स्यूतं वाप्तः, । पुनर्निष्क्रीतो रथः, पुनरुक्तं वचः, पुनर्नवं वयः, पुनःशृतं पयः, स्वर्यातः, अन्तर्भूतः, प्रातःसवनं, उच्चै?षः, नीचैर्गतं अंधस्पदम् , अनद्वापुरुषः, प्रायश्चित्तम् , सद्यस्क्रीः, ३० प्राग्वृत्तम्, पुराकल्पः, श्वःश्रेयसम् , श्वोवसीयसं इति प्रवृद्धादयः । बहुवचनमाकृतिगणार्थम् ॥ ४३ ॥
ङस्युक्तं कृता ॥४४॥ [सि० ३११४९] कृत्प्रत्ययविधायकसूत्रे उस्यन्तनाम्नोक्तं कृदन्तेन नाम्ना नित्यं समस्यते । कुम्भं करोतीति ३३ कुम्भकारः । “कर्मणोऽण" (५।११७२) इत्यण् । “गतिकारकङस्युक्तानां कृदन्तैर्विभक्त्युत्पत्तेः
१ अधःस्थाने पदमित्येव कार्य न बधस्तादिति तस्याप्यव्ययत्वात्। २ अनिर्णयोऽनद्वा तेन पुरुषः न विद्यते द्वा संशयोऽस्येति व्युत्पत्त्याद्वा धर्मी उच्यते । न अदा अनद्वा संशयितः पुरुषः ससंशयः पुरुषो वा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org