________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । अव्ययीभावः
२७७ कृतं युद्धम् । युद्ध इति किम् । हस्ते च हस्ते च गृहीत्वा कृतं सङ्ख्यम् । युद्ध इति विषयनिर्देशायुद्धोपाधिकायामन्यस्यामपि क्रियायां भवति यथा माघे “रोषावेशादाभिमुल्येन कौचित् पाणिपाहं रहसैवोपयातौ । हित्वा हेतीर्मल्लवन्मुष्टिघातघ्नन्तौ बाहूबाहवि व्यासृजेताम्" ॥१॥ बाह्रोश्च २ मिथो गृहीत्वा व्यासङ्गं कृतवन्तौ इत्यर्थः । क्रियाव्यतिहारे आत्मनेपदम् शस्तनीआताम् ॥ ३६ ॥
अथाव्ययीभावात्समासान्तविधि दर्शयतिप्रतिपरोऽनोरव्ययीभावात् ॥ ३७॥ [सि०७३।८७] प्रत्यादिपूर्वादक्ष्यन्तादव्ययीभावादत् स्यात् । प्रत्यक्षम् । परोक्षम् । अन्वक्षम् ॥ ३७॥
"प्रति.” । प्रत्यक्षमिति-अक्षिणी प्रति प्रत्यक्षम् , "अवर्णेवर्णस्य” (७।४।६८) इतीकारलोपः । परोक्षमिति परसमानार्थः परस्शब्दोऽव्ययम् अक्ष्णोः परः परोऽक्षम् अत्ययेऽव्ययीभावः । अन्वक्षमिति-अक्ष्णोः समीपमन्वक्षम् । कथं प्रत्यक्षोऽर्थः परोक्षः काल इत्यादेरव्ययीभावस्य सत्त्ववचनता ?१० अभ्रादेराकृतिगणत्वादप्रत्ययेन भविष्यति । अक्षशब्देनेन्द्रियपर्यायेण सिद्धे प्रत्यादिपरस्याक्षिशब्दस्याव्ययीभावे प्रयोगो मा भूदिति वचनम् ॥ ३७॥
अनः ॥ ३८॥ [सि०७३।८८] अनन्तादव्ययीभावादत् स्यात् ॥ ३८॥ नोऽपदस्य तद्धिते ॥ ३९ ॥ (सि०७४।६१) नकारान्तस्यापदस्य तद्धिते परेऽन्त्यखरादे-१५ लुक् । उपराजम् ॥३९॥"नपुंसकाद्वा"॥४०॥(सि० ७।३।८९) उपचर्मम् उपचर्म ॥४०॥
सूत्रत्रयं स्पष्टम् ।
"गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवाद्वा" ॥४१॥ (सि० ७३९०) अन्तगिरम् अन्तर्गिरि । उपसमिधम् उपसमित् ॥ ४१ ॥ __ "गिरि०" अपश्चमवाद्वेति-पञ्चमरहिता ये वास्तदन्तादिति । एवं उपनदं उपनदि ।२० उपपौर्णमासं उपपौर्णमासि । उपाग्रहायणं उपाग्रहायणि । अपश्चमवर्य, उपसुचम् उपसुक् । अधिस्रजं अधिस्रक् । उपैडविडं उपैडविट् । प्रतिमरुतं प्रतिमरुत् । उपदृषदं उपदृषद् । उपककुभम् , उपककुब् ॥ ४१ ॥
सङ्ख्या समाहारे ॥ ४२॥[सि० ३३१०२८] नदीभिरित्यव्ययीभावे “सङ्ख्याया नदीगोदावरीभ्याम्” (७३।९१)। अत् स्यात् । २५ पञ्च नद्यः पश्चनदम् । द्विगोदावरम् । “शरदादेः” (७३।९२)। प्रतिशरदम् । “जराया जरस् च” (७३।९३)। उपजरसम् । “सरजसोपशुनानुगवम्” (७३।९४)। एतेऽदन्ता अव्ययीभावा निपात्याः॥ ४२ ॥ इत्यव्ययीभावः।
“सङ्ख्या०" सङ्ख्यावाचि नाम नदीवाचिभिर्नामभिस्समस्यते, समाहारे गम्यमाने, स समासोऽव्ययीभावः स्यात् । द्वयोर्यमुनयोः समाहारो द्वियमुनम् । एवम् त्रिगङ्गम् , पञ्चनदम् , सप्तगोदावरम्-३० अत्राव्ययीभावे समासान्तोऽम्भावश्च सिद्धो भवति । अन्ये तु पूर्वपदप्राधान्येऽव्ययीभावः-गोदावरीणां सप्तत्वं सप्तगोदावरम् , समाहारे तु सप्तगोदावरीति द्विगुरेवेत्याहुः । “सङ्ख्या०”। सङ्ख्यावा. चिनः परौ यौ नदीगोदावरीशब्दौ तदन्तादव्ययीभावादत् समासान्तः स्यात् । पञ्चनदमिति-इह नदीग्रहणं नित्यार्थम् । “शर०” । शरद् त्यद् तद् यद् कियद् हिरुक् हिमवत् उपसद् सदस् ( अदस् ? )३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org