________________
२७६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुउन्मत्ता गङ्गा यत्र स उन्मत्तगङ्गं देशः, एवं लोहितगङ्गं तूष्णीङ्गङ्गं शनैर्गङ्गम् इमानि देशनामानि । नदीभिरिति बहुवचननिर्देशानदीविशेषाणां तत्स्वरूपस्य च ग्रहणम् । उत्तरसूत्रे पश्चनदमित्यत्र स्वरूपअहणाच पर्यायाणा स्रोतस्विनी-निम्नगा-सिन्धुप्रभृतीनां च प्रहः । नाम्नीति किम् ? शीघ्रगङ्गो देशः । "वंश्येन पूर्वार्थ" (३।१।२९)। विद्यया जन्मना वा प्राणिनामेकलक्षणः सन्तानो वंशस्तत्र भवो ५वश्यः । स इहाद्यः कारणपुरुषो गृह्यते, तद्वाचिना नाना सयावाचि नाम समस्यते, पूर्वपदस्थार्थेऽभिधेयेऽव्ययीभावश्च समासो भवति । एको मुनिवश्य एकमुनि व्याकरणस्य । द्वौ मुनी वंश्यौ द्विमुनि व्याकरणस्य । विद्यया तद्वतामभेदविवक्षायां द्विमुनिव्याकरणमित्यादि सामानाधिकरण्यं भवति । सप्त काशयो वंश्या राज्यस्य सप्तकाशि राज्यस्य । पूर्वार्थे इति किम् ? द्वौ मुनी वंशावस्य द्विमुनिक व्याकरणमित्याद्यन्यपदार्थे बहुव्रीहिरेव । अन्ये तु पूर्वार्थे इति विशेषं नेच्छन्ति, तन्मते एकश्चासौ १० मुनिश्चेति कर्मधारयप्रसङ्गे, द्वौ मुनी समाहृताविति द्विगुप्रसङ्गे, एको मुनिश्योऽस्येति बहुव्रीहिप्रसङ्गे चाव्ययीभाव एव स्यादिति । एतत्सर्वं इत्यादिशब्दात् पाह्यम् ॥ ३२ ॥
पारेमध्येऽन्तः षष्ठया वा ॥ ३३ ॥ [सि० ३।१।३०] एषां चतुर्णा षष्ठयन्तेन सहाव्ययीभावो वा स्यात् । गङ्गायाः पारे पारेगङ्गम् । मध्येगङ्गम् । अग्रवणम् । अन्तर्गिरि । निपातनादेत्वम् । पक्षे गङ्गापारम् ॥ ३३ ॥ १५ “पारे०" निपातनादेत्वमिति-आद्यानां त्रयाणां पक्षे गङ्गापारमिति वावचनात् पक्षे षष्ठीसमास
इत्यर्थः ॥ ३३ ॥ *तत्रादायमिथस्तेनप्रहृत्येति सरूपेण युद्धेऽव्ययीभावः ॥३४॥ [सि० ३।१।२६]
सप्तम्यन्तं मिथ आदायेति तृतीयान्तं च मिथः प्रहत्येति युद्धे वाच्ये सरूपेण नाम्नाव्ययीभावः स्यात् ॥ ३४॥ २० "तत्रा०” स्पष्टम् ॥ ३४ ॥
इच् युद्धे ॥ ३५ ॥ [सि० ७।३।७४ ] युद्धे यः समासस्तसादिच् समासान्तः स्यात् ॥ ३५ ॥ "इच्०” स्पष्टम् ।। ३५ ॥
इच्यखरे दीर्घ आञ्च ॥ ३६॥ [सि० ३३२२७२] २५ इजन्तेऽखरादावुत्तरपदे पूर्वपदस्य दीर्घत्वमाच स्याताम् । केशेषु केशेषु मिथो गृहीत्वा कृतं
युद्धं केशाकेशि । मुष्टिभिर्मुष्टिभिर्मिथः प्रहृत्य कृतं युद्धं मुष्टीमुष्टि । मुष्टामुष्टि । अखर इति किम् । अस्यसि ॥ ३६॥ __"इच्य०" । मुष्टामुष्टीति, एवं बाहूबाहवि बाहाबाहवि । दीर्घत्वात्वयोरकारान्तादन्यत्र विशेषः ।
दीर्घसाहचर्यादात्वमपि स्वरान्तानामेव भवति । दोर्दोषि धनुर्धनुषि अस्यसीति-एवमिष्विषवीत्यादि । ३० *तत्रेति तेनेति च किम् ? केशांश्च केशांश्च गृहीत्वा कृतं युद्धम् । मुखं च मुखं च प्रहृत्य कृतं युद्धम् ।
आदायेति प्रहृत्येति किम् ? केशेषु केशेषु च स्थित्वा कृतं युद्धम् पक्षिभ्याम् । केशशब्देनात्र नीवाण्यु
च्यन्ते । दण्डैश्च दण्डैश्चागत्य कृतं युद्धमेताभ्याम् । मिथ इति क्रियाव्यतिहारः किम् ? केशेषु केशेषु च ३३गृहीत्वा युद्धमनेन एकः सकेशोऽन्यश्च मुण्ड इति मिथो नास्ति । सरूपेणेति किम् ? हस्ते पादे च गृहीत्वा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org