________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । अव्ययीभावः २७५ संह्रियमाणयवम् , संहृतबुसं संह्रियमाणबुसम्-एते प्रथमैकवचनान्ता एवाऽन्यपदार्थे । काले देशेऽपीत्यन्ये-तेन खलेयवं पश्य, खलेयवेन कृतमित्यादयः प्रयोगा असाधवः (द्वितीयाद्यन्ता इति शेषः)। द्वितीयादिविभक्त्यन्ता अप्येते साधव इत्यन्ये ॥ 'नाभेरधः' अधोनाभं निपातनादत्समासान्तः । पूर्वपदार्थप्रधानोऽयं तथा 'समत्वं भूमेः' समभूमि, एवं समपदाति, पक्षे पूर्वपदस्य मान्तत्वमपि निपात्यते समभूमि । समंपदाति । एतौ देशकालभावेष्वन्यपदार्थेष्वित्यन्ये; उत्तरपदार्थप्राधान्ये तु समा५ भूमिः समभूमिः, समपदातिरिति कर्मधारय एव । तथा शोभनत्वं समस्य शोभनत्वं समायाः शोभना समा यत्र सुषमम् , एवं विषमं दुःषमं निष्पमं अपरसमम् , उत्तरपदार्थप्राधान्ये तु तत्पुरुष एव । शोभना समा सुषमा, शोभने समे सुषमे । समशब्देनाव्ययीभाव इत्यन्ये । तथा समाया आयतीत्वं आयती समा, यत्र आयतीसमेति वा आयतीसमम् । एवं पापसमं पुण्यसमम् । समशब्देन तृतीयासमास इत्यन्ये। आयत्या समम् आयतीसमम् एवं पापसमं पुण्यसमम् । तथा प्रगतत्वं प्रकृष्टत्वं वाह्नःप्राई १० निपातनादह्लादेशः एवं प्ररथम् प्रमृगम् प्रदक्षिणम् । अन्यत्र प्रगता मृगा अस्मात् प्रमृगो देशः । देशेऽप्यन्ये । उत्तरपदार्थप्राधान्ये तु तत्पुरुष एव ॥ प्राहः प्ररथः प्रमृगः प्रदक्षिणा । तथा एकत्वमन्तस्य एकोऽन्त इति वा एकान्तम्, देशेऽन्यपदार्थेऽपीत्यन्ये, एवं प्रान्तं समपक्षं समानतीर्थ समानतीरम् , तथा सम्प्रत्यसम्प्रत्यप्रदक्षिणानि यथासङ्ख्यं वर्तमानावर्त्तमानवामेषु, तथा युद्धे इजन्तं च केशाकेशि दण्डादण्डि द्विदण्डि द्विमुशलि । तिष्ठद्गु इत्यत्रेतिशब्दः स्वरूपपरिग्रहार्थस्तेनेह समासान्तरं न भवति ।१५ परमं तिष्ठद्गु, तिष्ठद्गु प्रियमस्य इति वाक्यमेव भवति । अत एव प्रदक्षिणसम्प्रतिभ्यां सह नसमासेन सिद्धावप्रदक्षिणासम्प्रत्योः पाठः। इजन्तस्य तिष्ठद्गवादिपाठः "इच् युद्धे” (७।३।७४) इत्यनेन इजन्तस्य समासान्तरप्रतिषेधार्थः, द्विदण्ड्यादेरव्ययाभावार्थश्च । अन्ये तु परपदेनैव समासं प्रतिषेधन्ति, तन्मते परमतिष्ठद्गु आतिष्ठद्गु जपन्सन्ध्याम् इत्यादयोऽपि साधवः । तिष्ठद्ग्रवादिराकृतिगणस्तेन प्रसव्यं अपसव्यं यत्प्रभृति तत्प्रभृति इतःप्रभृति इत्यादि सिद्धम् ॥ ३१ ॥
नित्यं प्रतिनाऽल्पे ॥३२॥ [सि० ३११३७] अल्पेऽर्थे वर्तमानेन प्रतिना नित्यं समस्यते, सोऽव्ययीभावः स्यात् । शाकस्याल्पत्वं शाकप्रति ॥ ३२॥ ___ "नित्यं.” शाकप्रतीति । एवं सूपस्य मात्रा सूपप्रति । पूर्वपदार्थे इत्यधिकारेप्यसम्भवादत्रोत्तरपदार्थप्रधान एवायं समासः । अथवाव्ययानां दोषामन्यमहर्दिवामन्यारात्रिरितिवद्वृत्तिविषये सत्त्वप्रधा-२५ नत्वदर्शनान्मात्रावति प्रतिशब्दस्य वृत्तेरविरोधादल्पः सूप इति विग्रहः । ___ इत्यादिरित्यत्रादिशब्दसामर्थ्यात् “सङ्खयाक्षशलाकं परिणा द्यूतेऽन्यथावृत्तौ” (३।१।३८)। सङ्ख्यावाचिनाम अक्षशलाके च द्यूतविषयेऽन्यथावर्त्तने परिणा समस्यन्ते, तथा चैषां कर्तृत्वात्तृतीयान्तत्वमक्षशलाकयोस्त्वेकवचनान्तयोरेवेष्यते । पञ्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकादिभिर्वा भवति तत्र यदा सर्वे उत्ताना अवाचो वा पतन्ति तदा पातयितुर्जयः, अन्यथापाते पराजयः । एकेनाःण ३० शलाकयाऽन्यथावृत्तं एकपरि, द्विपरि, त्रिपरि, यावच्चतुःपरि । पञ्चसु त्वेकरूपेषु जय एव भवतीति पञ्चपरीति न भवति । अक्षेण शलाकया वेदं तथावृत्तं यथापूर्व जये अक्षपरि शलाकापरि । केचित्समविषमद्यूते सममित्युक्ते यदा विषमं भवति, तदाक्षपरि शलाकापरीति प्रयुज्यत इत्याहुः । अन्ये पूर्वं पदमाहूतं तच्च पतितमिष्टं सिद्धम् , पुनस्तदाहूतं यदा न पतति तदायं प्रयोगोऽक्षपरिशलाकापरीत्याहुः । “नदीभिर्नान्नि" (३।१।२७) । नदीवाचिभिर्नामभिर्नाम संज्ञायामन्यपदार्थे समस्यते । ३५
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org