________________
२७४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुव्ययपक्षे तु यावन्त्यमत्राणीति । पूर्वार्थ(पूर्वपदार्थ ?)प्रधानत्वादव्ययत्वे सिः, अनव्यये तु जस् समासात् । ततोऽम्भावः । इयत्त्व इति किम् ? यावदत्तं तावद्भुक्तं कियहत्तं कियद्भुक्तमिति नावधारयति अत एवात्र तावदित्युपादीयते । समासे तु उक्तार्थत्वान्न तत्प्रयोगः ॥ २९ ॥
पर्यपाबहिरच् पञ्चम्या ॥ ३०॥ [सि० ३॥१॥३२] ५ पर्यादीनि पञ्च पञ्चम्यन्तेन समस्यन्ते । परित्रिगर्तेभ्यः परित्रिगर्तम् । एवमपत्रिगर्तम् । बहिनामम् । आग्रामम् । प्राग्रामं पृष्टो मेघः ॥३०॥
"पर्य०" परित्रिगर्त्तमिति-"पर्यपाभ्यां वये" (२।२।७१) इति पञ्चमी ततोऽनेन समासः । एवमपत्रिगर्तेभ्यः अपत्रिगतम् । त्रिगतं नाम नगरं वर्जयित्वा वृष्टो मेघ इत्यर्थः ॥ आग्रामं इति
"आङावधौ (२।२।७०) इति पञ्चमी, आग्रामात् , ततोऽनेन समासः । बहि ममिति-"प्रभृत्यन्या१०र्थदिक्शब्दबहिरारादितरैः” (२।२।७५) इति पञ्चमी, बहिर्गामात्ततोऽनेन समासः । पर्यादिसाहच
र्यात् अश्चतिरिह धा एनलुबन्तोऽव्ययं गृह्यते प्राग्ग्रामात् प्राग्राममिति । एवं प्रत्यग्ग्रामात् प्रत्यग्ग्रामम् । अपाग्प्रामात् । अपाग्ग्रामम् । उदग्ग्रामात् उदग्ग्रामं वृष्टो मेघः । अव्ययग्रहणादिह न भवति-प्राङ् प्रामात् चैत्रः । पञ्चम्येति किम् ? परिवृक्षं विद्योतते विद्युत् ॥ ३० ॥
लक्षणेनाभिप्रत्याभिमुख्ये ॥ ३१ ॥ [सि० ३॥१॥३३ ] १५ आमिमुख्ये वर्तमानौ अभिप्रती चिह्नवाचिना समस्येते । अभ्यग्नि प्रत्यग्नि शलभाः पतन्ति ।
“दैयेऽनुः" (३।१।३४) । अनुगङ्ग काशी । “समीपे" (३३१॥३५)। अनुवनमशनिर्गता "तिष्ठदग्वित्यादयः” (३३१॥३६)। साधवः । तिष्ठद्वः कालः ॥३१॥
"लक्षणे०" । अभ्यग्नीति-"भागिनि च प्रतिपर्यनुभिः” (२।२।३७) इति द्वितीयायामनेन समासः। अभि अग्निं अभ्यग्नि । प्रति अनि प्रत्यग्नि शलभाः पतन्तीति-अनामिना शलभपातो लक्ष्यते इत्यग्नि२०लक्षणं भवति, तस्य चाभिप्रतिभ्यामाभिमुख्यं द्योत्यते । लक्षणेनेति किम् ? स्रघ्नं प्रतिगतः, प्रतिनिवृत्त्य
त्रुघ्नमेवाभिमुखं गत इत्यर्थः । “दैर्येऽनुः” दैये आयामविषये यल्लक्षणं तद्वाचिनाऽनुः समस्यते । अनुगङ्गां दीर्घा अनुगङ्गं काशी-गङ्गाया लक्षणभूताया दैर्येण काश्या दैर्घ्य लक्ष्यते । दैर्ये इति किम् ? वृक्षमनु विद्योतते विद्युत्-अत्र वृक्षो विद्योतनस्य लक्षणं न तु दैय॑स्य । लक्षणेनेति किम् ?
लक्ष्येण काश्यादिना अनोः समासो मा भूदिति । "समीपे" समीपेऽर्थे वर्तमानोऽनुः समीपि२५ वाचिना समस्यते । अनुवनमिति-अनोरव्ययत्वाद् “विभक्तिसमीप०" (३।११३९) इत्यादिनैव
समासे सिद्धे विकल्पार्थं वचनं, तेन वाक्यमपि भवति-अनुवनस्याशनिर्गता । पृथग्वचनम् लक्षणेनेत्यस्य निवृत्त्यर्थमिति श्रीसूरयः। पाणिनीयादयस्तु अत्रापि लक्षणेनेत्यनुवर्त्तनीयं समीपसमीपिनोलक्ष्यलक्षणभावोऽनुना द्योत्यते । वनसामीप्यगताया अशनेर्वनं लक्षणमित्याहुः "तिष्ठग्वित्यादयः" तिष्ठद्गुप्रभृतयः समासशब्दा अव्ययीभावसंज्ञा भवन्ति । यथायोगमन्यपदार्थे पूर्वपदार्थे ३० चाभिधेये । तिष्ठन्ति गावो यस्मिन्काले गर्भग्रहणाय दोहाय वा वत्सेभ्यो निवासाय जलपानार्थ वा स कालः । एवं वहन्ति गावो यस्मिन् स कालो वद्भुः । इणः शतरि "ह्विणोरप्वि०" (४।३।१५) इति यत्वे ज्यां आयत्यो गावो यस्मिन् स कालः आयतीगवम् । अत्र पूर्वपदस्य पुंवद्भावाभावः समा
सान्तश्च निपातनात्-एते अन्यपदार्थे काले ॥ तथा खले यवा यस्मिन् स कालः खलेयवम् । खले३४ बुसम्-निपातनात्सप्तम्या अलुप् । एवं लूनयवम् । लूयमानयवम् । एवं पूतयवं पूयमानयवम् , संहृतयवं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org