________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । अव्ययीभावः
२७३ यथाऽथा ॥ २८॥ [सि० ३३१४१] थाप्रत्ययरहितमव्युत्पन्नं यथेत्यव्ययं नाम्ना समस्यते । यथारूपं चेष्टते । अथेति किम् ? यथा चैत्रस्तथा मैत्रः॥२८॥
“यथा०" थाप्रत्ययेत्यादि-अयं भावः-द्वौ यथाशब्दौ; एकस्तावत् थाप्रत्ययरहितमव्युत्पन्नमव्ययम् , अन्यस्तु थाप्रत्ययान्तं व्युत्पन्नमव्ययम् । तत्राव्युत्पन्नस्य यथेत्यव्ययस्य योग्यतादिष्वनेनाव्ययीभावः५ स्याद्यथारूपं चेष्टते रूपस्य योग्यमित्यर्थः । यथावृद्धमर्चय-वीप्सेयम् ,-ये ये वृद्धास्तानित्यर्थः । नन्वत्र क्रमोऽपि प्रतीयते-उच्यते, प्रतीयतां क्रमो वीप्सापि तु प्रतीयते, नोकोऽनेकार्थो न स्यात् । यथासूत्रं चेष्टते-सूत्रानतिवृत्त्येत्यर्थः । एतच्च “योग्यतावीप्सा.” (३।११४०) इत्यादिसूत्रेण सिद्ध्यत्येव, परन्त्वस्य सादृश्ये समासप्रतिषेधार्थं वचनमत एवायमव्युत्पन्नः सादृश्ये नास्तीति प्रतीयते, व्युत्पन्नस्य थाप्रत्ययान्तस्य यथाशब्दस्य "विभक्तिसमीप०" (३।१।३९) इत्यादिसूत्रेण सहगर्थे “योग्यतावीप्सा०" इत्यादि-१० सूत्रेण वा सादृश्यार्थे प्राप्तोऽव्ययीभावोऽथेत्यनेन निषिध्यते । तथाहुः श्रीसूरयः-पूर्वेणैव सिद्धे सादृश्ये प्रतिषेधार्थ वचनमिति । ननु यथा चैत्रस्तथा मैत्र इत्यादौ चैत्रसदृशो मैत्र इत्यर्थ एव प्रतीयते इति सहगर्थ एवायं न तु सादृश्यार्थ इति किमुक्तं सादृश्ये प्रतिषेधार्थमित्यत्रोच्यते-सादृश्योपाधिकत्वासहगपि सादृश्यशब्देनोच्यते इति यथा चैत्र इत्यादि । “प्रकारे था" (७२।१०२)। सप्तम्या इति निवृत्तम् । यथासम्भवं विभक्तिसामान्यस्य भिद्यमानस्य भेदान्तरानुप्रवृत्तौ भेदः प्रकारस्तस्मिन् १५ वर्तमानात् किमयादिसर्वाद्यऽवैपुल्यबहोः थाप्रत्ययो भवति । सर्वेण प्रकारेण सर्वथा । एवं यथा तथा उभयथा अन्यथा अपरथा इतरथा; बहोस्तु परत्वाद्धा भवतीत्यादि । अयं च थाप्रत्ययान्तो यथाशब्दः केवलः सादृश्ये । तथोक्तमलङ्कारचूडामणी-उपमावाचका इव-वा-यथाशब्दाः । अत्रोदाहरणं "क्षणं कामज्वरोच्छित्त्यै भूयः सन्तापवृद्धये । वियोगिनामभूञ्चान्द्री चन्द्रिका चन्दनं यथा" ॥ १॥ तथायं प्रकृतार्थो प्रदर्शने-यथालङ्कारचूडामणी-सा उपमा वाक्ये वृत्तौ च भवति । वाक्ये यथाशब्दः २० प्रस्तुतार्थो प्रदर्शने प्रयुक्तः किं च तथाशब्दसमभिव्याहृतोऽयं सादृश्ये यथा चैत्रस्तथा मैत्र इति । अयमुपेक्षायाम्-यथातथा वा तद्भूयादनेनाप्रस्तुतेन किम् ? अयमविचारितभाषणेऽपि-यथातथा जल्पति बालिशोऽयमिति । सत्येऽप्ययम्-ऋतं तथ्यं यथातथमित्यादि । सर्वेषामप्येषां थाप्रत्ययान्तत्वादेव न समासस्ततः सुसूचितमाचार्यैः यथाऽथेति । कौमुद्यां तु “यथाऽसादृश्ये" असादृश्ये एव यथाशब्दः समस्यते इत्युक्तमिति ज्ञेयम् ॥ २८ ॥
.. . यावदियत्त्वे ॥ २९ ॥ [सि० ३॥१॥३१] इयत्वे गम्ये यावदिति समस्यते । यावन्त्यमत्राणि तावन्त इति यावदमत्रं श्राद्धान् भोजय ॥ २९ ॥ ___ "याव०” इयं परिणाममेषामियन्तः "इदं किमोऽतुरियकिय चास्य" (७।१।१४८) इति सिद्धिः । इयतां परिच्छिन्नसङ्ख्यानामियतो वा परिच्छिन्नपरिमाणस्य भाव इयत्त्वम् , तस्मिन् गम्य इति । ३० यावन्त्यमत्राणीत्यत्र विज्ञातसङ्ख्यापरिमाणैरमत्रैस्तावन्त इति श्राद्धपरिमाणमिह गम्यते । एवं यावानोदनो यावदोदनम् , यावानवकाशो यावदवकाशमित्यत्रावच्छिन्नपरिमाणेनोदनाविना श्राद्धपरिमाणमवधार्यते । यावदित्यव्ययमनव्ययं च गृह्यते । अव्ययमेवेत्यन्ये । तत्रानव्ययं यच्छब्दात् “यत्तदेतदो डावादिः" (७।१।१४९) इति डावादिना वतुप्रत्ययेन सिद्धम् । अव्ययपक्षे यावदमत्राणीति वाक्यम् । अन-३४
है• प्रका० पूर्वा० ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org