________________
२७२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुतत्र हि "गतिकन्यस्तत्पुरुषः" (३।१।४२) इत्यतोऽन्य इत्यधिकारादन्य इत्यस्य च बहुव्रीह्यादिलक्षणरहित इत्यर्थात् । ज्येष्ठस्पेति, क्रमेणेति-क्रम आनुपूर्व्यम् । ख्यातिरिति ख्यातिः शब्दप्रथा इति । भद्रबाह्निति-एवं तद्भद्रबाहु अहो भद्रबाहु भद्रबाहुशब्दस्य लोके प्रकाश इत्यर्थः इति । तत् अहो इत्येषां
चादित्वादसस्ववृत्तित्वेऽपि अत्र ख्यातिवाचित्वावृत्तिविषये सत्त्ववृत्तित्वम् । निष्कौशाम्बिरतिखट्वः ५प्रकटो विकट इत्यादिवृत्तिविषये तथादर्शनात्ततश्च भद्रबाहोः ख्यातिरिति स्वरूपपरेण षष्ठ्यन्तेन भद्रबाहुशब्देन ख्यात्यर्थानामिति प्रभृतीनां समास इति । चक्रेण युगपदिति-युगपत् एककालार्थः । सचक्रं घेहीति चक्रेण सहककालं चक्राणि वा युगपद्धेहीत्यर्थः । शब्दशक्तिखाभाव्याच्चान्यपदार्थप्रधानोऽयम् , योगपद्यार्थो ह्ययमव्ययीभावः । अत्रोपयोगिसूत्रम्-"अका." । अयं भावः-सहशब्दस्याऽकालवाचिन्युत्तरपदेऽव्ययीभाव समासे सादेशो भवति । अकाल इति किम् ? सपूर्वाहं शेते साकल्येऽयम१० व्ययीभावः । अत्रायं विशेष:-"ग्रन्थाते" (३।२।१४७) । ग्रन्थान्तवाचिन्युत्तरपदेऽव्ययीभावे सहस्य
सः स्यात् । कलामन्तं कृत्वा सकलज्योतिषमधीते । एवं सकाष्ठं समुहूर्त्तम् । कलादिशब्दाः कालविशेषवाचिनोऽपि तत्सहचारिषु प्रन्थेषु वर्तन्ते इति अन्यान्तवाचित्वमुत्तरपदस्य अन्त इत्यव्ययीभावः । कालार्थ आरम्भः। सनतमिति व्रतस्य सहशमित्यर्थः। एवं सशीलं सदेवदत्तमित्यादि । ब्रह्मणः सम्पदिति
सम्पत् सिद्धिः । सिद्धिरात्मभावनिष्पत्तिः, समृद्धिस्तु ऋद्धेराधिक्यमित्यनयोमिथो विशेषः । साधूनां १५ सब्रह्मेति, सम्पन्नं ब्रह्मेत्यर्थः । एवं सवृत्तं मुनीनाम् , सक्षत्रमिक्ष्वाकूणाम् । सतृणमिति तृणमप्यपरित्यज्य भुके। अत्र न किञ्चित्त्यजतीति साकल्ये तात्पर्य न तु तृणभक्षणे इति । प्राग्वदसमर्थसमासोऽयम् । अन्ते इति अन्तः समाप्तिः । पिण्डेषणेति दशवकालिकश्रुतस्कन्धस्य पञ्चममध्ययनम् । तत्पर्यन्तमधीते, न तु सकलपन्थमिति । तथाहुः श्रीसूरया-अत्र समाप्तिरसकलेऽप्यध्ययने प्रतीयते इति साकल्येऽ
नन्तर्भावः । पूर्वपदार्थ इत्येव-समृद्धा मद्राः सुमद्राः । अव्ययमित्येव-समीपं कुम्भस्य ॥ २६ ॥ २० योग्यतावीप्सार्थाऽनतिवृत्तिसादृश्ये ॥ २७॥ [सि० ३११४०] ___ एतदर्थानामव्ययानामव्ययीभावः सात् । रूपस्य योग्यमनुरूपम् । अर्थमर्थ प्रति प्रत्यर्थ समीक्ष्यते । शक्तिमनतिक्रम्य यथाशक्ति दत्ते । शीलस्य सादृश्यमिति सशीलमनयोः ॥२७॥
"योग्यता०" । एतदानामिति-एते चत्वारोऽर्था येषामिति । अनुरूपमिति-अत्रानुर्योग्यतायाम् । प्रत्यर्थमिति-अत्र प्रति वीप्सायाम् , समासेन वीप्साया उक्तत्वान्न तन्निमित्ता द्विरुक्तिः । “भागिनि च २५ प्रतिपर्यनुभिः" (२।२।३७) इति द्वितीयाविधानादत्र वाक्यमपि भवति । वाक्ये तु लक्षणाद्यनेकार्थसम्भवाहिरुक्तिमन्तरेण वीप्सा न प्रतीयते इति "वीप्सायाम्" (७४।८०) इत्यनेन द्विर्भावः । वीप्सा च पृथक्सङ्ख्यायुक्तानां बहूनां सजातीयानामर्थानां साकल्येन प्रत्येकं क्रियया गुणेन द्रव्येण जात्या वा युगपत् प्रयोक्तुाप्तुमिच्छा, तस्यां यद्वर्त्तते शब्दरूपं तहिरुच्यते । वीप्सा च स्याद्यन्तेष्वेव
भवतीति तेषामेव द्विवचनम्-वृक्षं वृक्षं सिञ्चति, प्रामो ग्रामो रमणीयः, गृहे २ऽश्वाः, योद्धा २ क्षत्रिय ३० इत्यादि । यथाशक्तीति-यथाशब्दो अत्र अर्थानतिवृत्तौ, अर्थानतिवृत्तिश्च पदार्थानतिक्रमः । पदमुत्तरपदं
शक्त्यादिरूपं तस्यार्थः सामर्थ्य तस्यानतिक्रम इति । नात्र विन्यासविशेष इति क्रमानेदः । मूर्तस्यानेकस्य पदार्थस्य नियतदेशाद्यपेक्षं व्यवस्थापनं विन्यासः, स एव विशेषः । पूर्वसूत्रे सदृग्ग्रहणेनैव सिद्धे इह सादृश्यग्रहणं मुख्यसादृश्यपरिग्रहणार्थम् , सहगशब्दो हि धर्मिवाचीति चैत्रस्य सहग् स चैत्र
मैत्र इत्यादि सामानाधिकरण्यमेव स्यात् । सादृश्यशब्दस्तु धर्मवाचीति, इह सादृश्यग्रहणे चैत्रस्य ३५ सादृश्यं स चैत्रमैत्रस्येति वैयधिकरण्यमपि सिद्ध्यति ॥ २७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org