________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । अव्ययीभावः २७१ "अन." स्पष्टम् । अधिस्त्रि गृहकार्यमिति विभक्त्यर्थेऽव्ययीभावः ॥२५॥ अथ समीपार्थेऽव्ययीभावमाह-तत्र कुम्भस्य समीपमिति विग्रहे प्राग्वत् उपकुम्भ इति जाते स्याद्युत्पत्तौ सूत्रम् ।
अमव्ययीभावस्यातोऽपञ्चम्याः ॥ २६ ॥ [सि० ३३२२] अदन्तस्याव्ययीभावस्य स्यादेरम् स्यात्, न तु पञ्चम्याः। उपकुम्भमस्ति, पश्य, देहि, देशः। उपकुम्भादानय । “वा तृतीयायाः” (३।२।३)। उपकुम्भं उपकुम्भेन कृतम् । “सप्तम्या५ वा" (३।२।४)। उपकुम्भं उपकुम्भे निधेहि ॥ मद्राणां समृद्धिः सुमद्रम् ॥ विगता ऋद्धिय॒द्धिः। यवनानां व्यृद्धिर्दुर्यवनम् ॥ अर्थाभावो धर्मिणोऽसत्त्वम् । मक्षिकाणामभावो निर्मक्षिकम् ॥ अत्ययोऽतीतत्वम् । वर्षाणामत्ययोऽतिवर्षम् ॥ असम्प्रति इति वर्तमानकाले उपभोगाद्यभावः । कम्बलस्यासम्प्रति अतिकम्बलम् ॥ रथस्य पश्चादनु रथं याति ॥ ज्येष्ठस्य क्रमेणानुज्येष्ठं प्रविशन्तु ॥ भद्रबाहोः ख्यातिरिति भद्रबाहु अहो भद्रबाहु ॥ चक्रेण युगपत् सचक्र धेहि । १० "अकालेऽव्ययीभावे" (३।२।१४६) सहस्य सः॥ व्रतेन सदृक् सव्रतम् ॥ ब्रह्मणः सम्पत् सब्रह्म साधूनाम् ॥ तृणैः सह सकलं सतृणं भुते ॥ पिण्डेपणापर्यन्तमिति सपिण्डेषणमधीते । अत्र सर्वत्राव्ययार्थप्राधान्यमित्यादि प्राग्वत् ॥ २६ ॥
"अम०" स्पष्टम् । तृतीयायां विशेषमाह-सूत्रम् “वा.” स्पष्टम् । सप्तम्यां विशेषसूत्रम् "सप्त०" । उपकुम्भमित्यादि-अस्तीत्यादिक्रियापदैः प्रथमाद्यन्तत्वमव्ययीभावे दर्शितम् । समीपार्थ-१५ ग्रहणात् समया प्रामम् , निकषा लङ्काम् । आराद्वनादित्यत्र तु नाव्ययीभावः । अभितः-परितः-अन्यारादिति द्वितीयापञ्चम्योर्विधानसामर्थ्यादिति कौमुद्याम् । श्रीहेमसूरिभिस्तु नेदमुदाहृतम् । समया-निकषायोगेऽपि द्वितीयाविधानसामर्थ्यस्य जागरूकत्वादिति । इति समीपार्थेऽव्ययीभावः । अथ शेषेष्वर्थेषु क्रमेणाव्ययीभावानाह-समृद्धिरिति । सम् इत्याधिक्य ऋद्धेराधिक्यमित्यर्थः । व्यद्धिरिति ऋद्धेरभाव इत्यर्थः । अत्र दुर्यवनमित्यादौ यवनादेरुत्तरपदार्थस्य यो२० धर्मः ऋद्धिलक्षणस्तस्याभावो, नतूत्तरपदार्थस्य धर्मिण इत्यर्थाभावात् भिद्यते, तत्र हि निर्मक्षिकमित्यादौ धर्मिण एवाभाव इति धर्मिणोऽसत्त्वमिति । अत्र धर्मिणो मक्षिकादेरनुत्पत्तिरेव, नतु सतोऽभाव इत्यर्थाऽभावोऽत्ययाद्विशिष्यते । अत्ययो हि सतोऽतिक्रान्तकालसम्बन्धिनी सत्तैवोच्यते, न साम्प्रतिकवस्त्वभाव इत्यर्थाभावाद्भिद्यते । ननु च वर्षाणामत्ययो नाम वर्षाणामभाव एव, प्रध्वंसाभावो हि सः, तत्रार्थाभाव इत्येव सिद्धे किमर्थमत्ययग्रहणमित्यत्रोच्यते-अर्थाभाव इति । धर्मिणोऽसद्भावमात्रमुच्यते; २५ यथा निर्मक्षिकमिति मक्षिका भूत्वा वा माभूवन्नभूत्वा वा परमधुना तास्तत्र सर्वथा न सन्तीत्येतावन्मानं प्रतीयते नतु प्राक् पश्चाद्वेति विशेषः । अत्ययस्तु सत एवातिक्रान्तत्वमिति । असम्प्रतीतिसम्प्रतीत्यव्ययमिदानीमित्यर्थे-“साम्प्रतमधुनेदानी सम्प्रत्येतहि” इति अभिधानचिन्तामणिवचनात् । बाहुलकादसमर्थसमासोऽयम्-यथाऽसूर्यम्पश्या इत्यत्र सूर्यमपि न पश्यन्तीति परपुरुषाविलोकिन्यो ज्ञायन्तेऽन्यथा सूर्य तु पश्यन्त्येवेत्यसमर्थपदत्वम् , एवमत्राप्यसम्प्रतीति न सम्प्रतिकालो निषिध्यते किन्तु ३० सम्प्रतिकाले उपभोग इति । अतिकम्बलमिति, कम्बलस्योपभोगं प्रति नायं काल इत्यर्थः । एवं निद्रा सम्प्रति न युज्यते इत्यतिनिद्रम् इति । अनुरथमिति ननु पश्चादित्यव्ययस्यापि पश्चादर्थत्वाव्यभिचारान्नित्यसमासत्वाच्च रथस्य पश्चादिति वाक्यं न प्राप्नोतीत्यत्रोच्यते-पश्चाच्छब्दस्य तु नायं समासः, ततः पश्चात् संस्यते इति भाष्ये प्रयोगादिति कौमुद्याम् ।न्यासे तु "सर्वपश्चादादयः” ( ३।१।८० ) इति वचनात्पश्चाच्छब्दस्याव्ययीभावसमासविषये नाव्ययत्वम् , तथात्वे ह्यस्याव्ययीभावप्राप्तौ तत्पुरुषो न स्यात् । ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org