________________
२७०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
पसर्गत्वे” इति न्यायात्, अस्मात्परस्य नासिकाशब्दस्य बहुव्रीहौ नस इत्ययमादेशो भवति । प्रगता प्रवृद्धा वा नासिकास्य प्रणसं मुखं "नसस्य " ( २।३।६५ ) इति णः । उन्नता उद्गता वा नासिकाऽस्य उन्नसं मुखम् । असंज्ञार्थं वचनम् । “वेः खुत्रग्रम्" ( ७।३।१६३ ) । विशब्दादुपसर्गात्परस्य नासिकाशब्दस्य बहुव्रीहौ एते आदेशाः स्युः । विगता नासिकाऽस्य विखुः विस्रः विप्रः । उपसर्गादि५त्येव–वेः पक्षिण इव नासिकाऽस्य विनासिकः । "व्युदः काकुदस्य लुक् ” ( ७।३।१६५ ) । आभ्यां परस्यास्य बहुव्रीहौ लुगन्तादेशो भवति । विगतं काकु ताल्वस्य विकाकुद् उत्काकुत् । " पूर्णाहा " ( ७।३।१६६) । पूर्णकाकुद् पूर्णकाकुदः । " ककुदस्यावस्थायाम् ” ( ७।३।१६७) । अवस्था वयः, ककुदं वृषस्कन्धम्, कूटम्, ककुदशब्दस्य बहुव्रीहौ अवस्थायां गम्यमानायां लुग् समासान्तो भवति । न सञ्जातं ककुदमस्य असञ्जातककुद् - बालः । पूर्णककुद् - युवा । स्थूलककुद् - बलवान् । यष्टिककुद् - नाति१० स्थूलो नातिकृशः । सन्नककुद् - कृशः । पन्नककुद् - वृद्धः । अवस्थायामिति किम् ? श्वेतककुदः । ककुच्छब्दे
नैव सिद्धे ककुदशब्दस्यास्मिन् विषये प्रयोगनिवृत्त्यर्थं वचनम् “ त्रिककुद् गिरौ” ( ७।३।१६८ ) । निपात्यते । त्रीणि ककुदानि तदाकाराणि शिखराण्यस्य स तथा । निपातनं गिरिविशेषप्रतिपत्त्यर्थं तेनान्यस्मिन् गिरौ त्रिककुद इत्येव । "धनु०" "वा ना०" "जाया०” इति सूत्रत्रयं स्पष्टम् । "स्त्रियां०" । स्त्रियां वर्त्तमानस्य ऊधस्शब्दस्य बहुव्रीहौ नकारादेशः समासान्तो भवति ।। २२॥
इति बहुव्रीहिः 'अथाव्ययीभावं निरूपयति'
विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिपश्चात्क्रमख्याति युगपत्सदृक्सम्पत्साकल्यान्तेऽव्ययम् ॥ २३ ॥ [ सि० ३|१|३९]
एष्वर्थेषु वर्त्तमानमव्ययं नाम्ना सह पूर्वपदार्थे वाच्ये नित्यं समासोऽव्ययीभावः स्यात् । २० विभक्तिः-विभक्त्यर्थः कारकम् । स्त्रीषु अधि इति विग्रहे ॥ २३ ॥
“विभक्ति०” एष्वर्थेष्विति विभक्त्यादिषु अन्तपर्यन्तेषु पञ्चदशस्वर्थेषु इत्यर्थः ॥ २३ ॥ प्रसङ्गात्सर्वत्रापि समासप्रकरणे पूर्वपदव्यवस्थामाह
१५
प्रथमोक्तं प्राक् ॥ २४ ॥ [ सि० ३|१|१४८ ]
अत्र समासप्रकरणे प्रथमान्तेन सूत्रे यन्निर्दिष्टं तत्प्राक् स्यात् इत्यव्ययस्य पूर्वभाव:, २५ “ऐकार्थ्ये” ( ३|२|८ ) इति विभक्तिलोपः । अधिस्त्रि इति भवति ॥ २४ ॥
*" द्वन्द्वैकत्वाव्ययीभावौ" इत्यव्ययीभावस्य क्लीवत्वात् हस्वत्वम् । नामसंज्ञायां स्यादिः ।
“प्रथमोक्तं०” । स्पष्टम् । स्त्रीषु अधीति सप्तम्यर्थस्यैवात्र द्योतकोऽधिः । स्त्रीषु अधि इत्यलौकिकं विग्रहवाक्यम् । अत्र निपातेनाभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमीति कौमुद्याम् । न्यासे तु - अत्राधिशब्दस्य क्लृप्तानेकार्थवृत्तेराधाररूपविभक्त्यर्थवृत्तित्वं प्रकाशयितुमुक्ताधारस्यापि सप्तम्यन्तेन ३० स्त्रीशब्देन समास इति ॥ २४ ॥ अधिस्त्रि इत्यत्र द्वन्द्वैकत्वेत्यादिलिङ्गानुशासनवचनात् क्कीबत्वे ह्रस्वत्वे स्याद्युत्पत्तौ च सूत्रम् ।
अनतो लुप् ॥ २५ ॥ [ सि० ३।२२६] ३३ अदन्तवर्जस्याव्ययीभावस्य स्यादेर्लुप् स्यात् । अधिस्त्रि गृहकार्यम् ॥ २५ ॥
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org