________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे समासप्रक्रिया । बहुव्रीहिः
२६९ दित्वात्समासः । “वोप०” उपमानात्परो यो गन्धशब्दस्तदन्ताद्वहुव्रीहेरिन् स्यात् । पद्मगन्धीति-पद्ममिव गन्धो यस्य स तथा । इतीत्समासान्तः॥२१॥ । अथ बहुव्रीहौ आदेशान् समासान्तान् सझेपतो वक्तुमुपक्रमते-बहुव्रीहावित्यादि।
पात्पादस्याहस्त्यादेः ॥ २२ ॥ [ सि० ७।३।१४८] हस्त्यादिवर्जादुपमानात्पादस्य पात , अघुदस्वरादौ, पदादेशश्चास्य । व्याघ्रपात् । व्याघ्रपदः पश्य। हस्त्यादिनिषेधात् हस्तिपादः। "सुसङ्ख्यात्” (७।३।१५०)। सुपात् द्विपात् । “वयसि" (७३।१५१)। दन्तस्य दतः। ऋकारो नोऽन्तार्थः। सुदन द्विदन् बालः । “वाग्रान्तशुद्धशुभ्रवृषवराहाहिमूषिकशिखरात्” (७३।१५४)। कुन्दाग्रदन् कुन्दाग्रदन्तः । शुद्धदन् शुद्धदन्तः । “धनुषो धन्वन्” (७३।१५८) । शार्ङ्गधन्वा । "वा नाग्नि” (७३१५९)।१० पुष्पधन्वा । पुष्पधनुः । “जायाया जानिः” (७३।१६४)। भूजानिः । “स्त्रियामूधसोऽन्” (७३।१६९)। कुण्डोधी गौः ॥ २२ ॥ इति बहुव्रीहिः।
"पापा." अघुट्स्वरादाविति-अत्र सूत्रम् , "यखरे पादः पदणिक्यघुटि” (२।१।१०२) णिक्यघुट्वर्जे यादौ स्वरादौ च प्रत्यये पादस्य पद् स्यात् । व्याघ्रपादोऽपत्यं वैयाघ्रपद्यः । व्याघपदः पश्य । अणिक्यघुटीति किम् ? व्याघ्रपादमाचष्टे व्याघ्रपादयति । व्याघ्रपादमिच्छति व्याघ्रपाद्यति ।१५ व्याघ्रपादौ । हस्त्यादीत्यादि-हस्तिन् अश्व कटोल कटोलक कण्डोल कण्डोलक गण्डोल गण्डोलक गडोल गडोलक गण्ड महेला दासी गणिका कुसूलं कपोल जाल अज १८ इति अष्टादशको हस्त्यादिः । "कुम्भपद्यादिः” (७।३।१४९)। कुम्भपद्यादयः शब्दाः कृतपात्समासान्ता ङयन्ता एव बहुव्रीहयो निपात्यन्ते । कुम्भपदी जालपदी एकपदी शतपदीत्यादि । “सु०” । सुपूर्वस्य सङ्ख्यापूर्वस्य च पादशब्दस्य बहुव्रीही पादित्ययमादेशः समासान्तः स्यात् । “वयसि" । सुपूर्वस्य सङ्ख्यापूर्वस्य च दन्त-२० शब्दस्य बहुव्रीहौ वयसि गम्यमाने दतृ इत्ययमादेशः समासान्तः स्यात् । “वाग्रां.” । अग्रान्तेभ्यः शुद्धादिभ्यः सप्तभ्यश्च परस्य दन्तशब्दस्य बहुव्रीहौ दतृ इत्यादेशः स्यात् ।।
अत्रेदं ज्ञेयम्-"स्त्रियां नान्नि" (७।३।१५२) । नित्यम् । अयोदती फालदती परशुदती-एवंनामा काचित् । “श्यावारोकाद्वा” (७।३१५३)। संज्ञायाम् । श्यावाः कपिशाः, अरोका निश्छिद्रा निर्दीप्तयो वा दन्ता अस्य श्यावदन् श्यावदन्तः, अरोकदन् अरोकदन्तः । पात्प्रभृतय इत्यत्र २५ प्रभृतिग्रहणाच्च जुज्ञादयोऽप्यादेशाः सूचिताः । तथाहि “सम्प्राजानोर्जुज्ञौ” (७।३।१५५ ) । सङ्गते जानुनी अस्य संजः संज्ञः । प्रगते प्रवृद्धे प्रणते प्रकृष्टे वा जानुनी अस्य प्रक्षुः प्रज्ञः । “वोद्धात्" (७।३।१५६) । ऊर्ध्वगुः ऊर्ध्वज्ञः ऊर्ध्वजानुः । “सुहृद्दर्हन् मित्रामित्रे” (७।३।१५७) । मित्रे सख्यौ अमित्रे शत्रावभिधेये एतौ निपात्येते । मित्रामित्र इति किम् ? सुहृदयो मुनिः, दुहृदयो व्याधः "खरखुरान्नासिकाया नस्” (७।३।१६०)। खरा खरस्येव नासिकाऽस्य खरणाः । खुर इव ३० नासिका यस्य खुरणाः । “अस्थूलाच नसः” (७।३।१६१)। स्थूलवर्जितात्पूर्वपदात् खरखुराभ्यां च नासिकाया नसः स्यात्, नाम्नि । गुणसः खरणसः खुरणसः । अस्थूलादिति किम् ? स्थूलनासिकः । "उपसर्गात्” (७।३।१६२)। उपसर्गग्रहणं प्रादीनामुपलक्षणम् , नासिकाशब्दस्याक्रियार्थत्वेन तं प्रत्युपसर्गत्वायोगात् । “यत्रोपसर्गत्वं न सम्भवति तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते न तु सम्भवत्यु-३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org