________________
२६८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
1
णार्थः । "ऋन्नि०” । “श्रीदूतः " ( १।४।२९ ) इति सूत्रेण येभ्यो ङितां नित्यं दैदासाद्यादेशा भवन्ति ते नित्यदितः । ऋकारान्तान्नित्यादिदन्ताश्च बहुव्रीहेः कच् स्यात् । "दध्यु ०" दध्यादिषङ्कान्ताहुत्रीहेः कच् स्यात् । व्यूढोरस्क इति एवं प्रियसर्पिष्कः प्रियमधुकः प्रियोपानत्कः प्रियशालिकः । “पुम०” एकत्वविषये एतत्पञ्जकान्ताद्बहुव्रीहेः कच् स्यात् । प्रियपुंस्क इति - एवं प्रियानडुत्कः प्रियनौकः ५ प्रियपयस्कः प्रियलक्ष्मीकः । एकत्व इति किम् ? द्विपुमान् द्विपुंस्कः । केचिल्लक्ष्मीशब्दाद्दित्वबहुत्वयोरपि नित्यं कचमिच्छन्ति । अपरे तुल्ययोगेऽपि सलक्ष्मीको विनाशित इति । “नत्रो०” नमः परो योऽर्थशब्दस्तदन्ताद्बहुव्रीहेः कच् स्यात् । न विद्यतेऽर्थोऽस्य अनर्थकं वचः । नत्र इति किम् ? अपार्थम् अपार्थकम् । “शेषा०” यस्माद्बहुव्रीहेः समासान्तप्रत्ययः आदेशो वा न विहितः स शेषस्तस्मात्कच् स्यात्, वा ॥ अस्यापवादमाह -* कचिन्नेत्यादि । अत्रायं विवेक:- " न नाम्नि” ( ७।३।१७६) । संज्ञायां १० कच् न स्यात् । बहुदेवदत्तः, एवंनामा ग्रामः । विश्वदेवः, पद्मश्रीः; एवंनामानौ स्त्रीपुंसौ । " ईयसोः " ( ७|३|१७७ ) । ईयस्वन्ताद्बहुव्रीहेः कच् न स्यात् । बहुश्रेयानिति । लिङ्गविशिष्टस्यापि ग्रहणात् बहवः श्रेयांसो बह्वयः श्रेयस्यो वा यस्याः सा बहुश्रेयसी । एवं बहुप्रेयसी । "सहात्तुल्ययोगे” ( ७।३।१७८ ) । तुल्ययोगार्थ सहशब्दादेर्बहुव्रीहेः कच् न स्यात् । तुल्ययोगो वर्त्तिपदार्थस्य पुत्रादेर्वृत्त्यपित्रादिना सह क्रियागुणजातिद्रव्यैः साधारणः सम्बन्धो यथा सपुत्र आगतः । तुल्ययोग इति किम् ? १५सह विद्यमानानि लोमान्यस्य सलोमकः । सपक्षकः । “भ्रातुः स्तुतौ” (७।३।१७९) । शोभनो भ्राताऽस्य सुभ्राता । स्तुताविति किम् ? मूर्ख भ्रातृकः । " नाडीत श्रीभ्यां खाने” ( ७।३।१८० ) । स्वाने यौ नाडीतश्रीशब्दौ तदन्तात्समासात् कच् न स्यात् । बहुनाडिः कायः । बहुतश्री ग्रीवा । तनी धमनी, ज्याद्यन्ताभावान्न ह्रस्वः । स्वाङ्ग इति किम् ? बहुनाडीकः स्तम्बः । बहुतन्त्रीका वीणा । “निष्प्रवाणिः” (७।३।१८१) । अत्र कजभावो निपात्यते । प्रोयतेऽस्यामिति प्रवाणी, तन्तुवायशलाका, २० सा निर्गतास्मादिति निःप्रवाणिः पटः कम्बलो वा । तत्रादचिरोद्धृत इत्यर्थः । 'गोश्चान्ते हस्व ० ' । इत्यादिना ह्रस्वः । ऊयतेऽस्यामिति वानिः । प्रभृता वानिः प्रवाणिः । सा निर्गता तन्तुभ्योऽस्येति निष्प्रवाणिः सदश इत्येके । “सुभ्वादिभ्यः ” ( ७।३।१८२ ) । एभ्यः कच् न स्यात् । सुभ्रूः लेखाभ्रूः शलाकाभ्रूः कोमलोरूः वरोरूः पीवरोरूः । जातिवचनत्वादुदन्ता एते । एवं हि आमच्ये सौ ह्रस्वो भवति । एतत्सर्व *कचिनेति सङ्क्षेपेणाह । इति कच्समासान्तः ॥ २० ॥
1
सुयुत्सुरभेर्गन्धादिगुणे ॥ २१ ॥ [ सि० ७|३ | १४४]
२५
स्वादिपूर्वाद्गन्धादित्स्यात् । सुगन्धि द्रव्यम् । “वाऽऽगन्तौ ” (७।३।१४५) । सुगन्धिः सुगन्धो वा कायः । “वाल्पे” ( ७|३ | १४६ ) । सूपगन्धि सूपगन्धं वा भोजनम् “वोपमानात् " (७|३|१४७) । पद्मगन्धि पद्मगन्धं वा मुखम् । बहुव्रीहौ पादादीनां पात्प्रभृतयः आदेशाः समासान्ताः स्युः ॥ २१ ॥
३०
“सुपू०” । गन्धादिति -गन्धशब्दान्ताद्बहुव्रीहेरित्यर्थः । शेषं स्पष्टम् । " वागं० " स्वादिचतुष्टयात्पर आगन्तौ आहार्ये गुणे वर्त्तमानो यो गन्धशब्दस्तदन्ताद्बहुव्रीहेरित्स्यात् । काय इति - कायस्य स्वाभाविकसुगन्धित्वाभावात्तस्यागन्तुत्वम् । "वा०" अल्पेऽर्थे यो गन्धशब्दस्तदन्ताद्बहुव्रीहेरित् वा स्यात् ३३ सूपगन्धीति - सूपस्य गन्धो मात्राऽस्मिन् सूपगन्धि - अल्पसूपमित्यर्थः । असमानाधिकरण्येऽपि उष्ट्रमुखा -
१ खमते तु 'सहात्तुल्यायोगे' इति निषेधात्कच् न भवति । २ वर्तन्ते पूर्वोत्तरपदान्यन् 'विदि वृत्तेर्वा इ: ' वर्त्तिः समा सस्तस्य पदानि वेषामर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org