________________
२६७
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे समासप्रक्रिया । बहुव्रीहिः
२६७ नात् ॥ १७ ॥ [सि० ३।२।१२५] उत्तरपदे परे नञः अ: स्यात् । अप्रजाः सुप्रजाः ॥१७॥
"नबत्" स्पष्टम् । अप्रजा इति अविद्यमानाः प्रजा अस्य अप्रजाः । अप्रजसौ । अस्प्रत्ययान्तानां सुवचस्शब्दवद्रूपाणि ॥ १७ ॥
____ मन्दाल्पाञ्च मेधायाः ॥ १८ ॥ [सि० ७।३।१३८] ५ नादिभ्यस्त्रिभ्यो मन्दाल्पाभ्यां च मेधाया अस् । अमेघाः । मन्दमेघाः । अल्पमेधाः ॥१८॥ “मन्दा०" अमेधा इति-एवं सुमेधाः दुर्मेधाः मन्दमेधाः । इत्यसूसमासान्तः ॥ १८ ॥
द्विपदाधर्मादन् ॥ १९॥ [ सि० ७।३।१४१] "समानस्य धर्मादिषु" (३।२।१४९) धर्मादायुत्तरपदे समानस्य सः । सधर्मा ॥ १९ ॥
"द्विप०" । धर्मशब्दान्ताद्विपदाबहुव्रीहेरन् समासान्तो भवति । अत्रोपयोगिसूत्रमाह "समा०"१० सधर्मेति-समानो धर्मोऽस्य सधर्मा, तथा समानो वा धर्मः सधर्मः । एवं समाना जातिरस्य सजातीयः । समानं नामास्य सनामा, समानं नाम सनाम इति वा । धर्म जातीय नाम गोत्र रूप स्थान वर्ण वयस् वचन ज्योतिस् जनपद रात्रि नाभि बन्धु पक्ष गन्ध पिण्ड देश कर लोहित कुक्षि वेणि इति द्वाविंशतिः धर्मादयः । (धर्मादिषु वचनान्तेषु नवसु) विकल्पमिच्छन्त्येके-कल्याणधर्मा कल्याणधर्मकः । द्विपदादिति किम् ? परमः खो धर्मोऽस्य परमस्वधर्मः । इह कस्मान्न भवति परमः १५ स्वधर्मोऽस्य परमस्वधर्मः ? प्रत्यासत्तेर्द्विपदस्य बहुव्रीहेर्यदि धर्म एवोत्तरपदं भवति तदा स्यान हतीह न भवति । एवं "सहरिततणसोमाजम्भात" (७।३।१४२)। जम्भशब्दोऽभ्यवहार्यवचनो दंष्टावचनो वा । "दाढिका दंष्ट्रिका दाढा दंष्ट्रा जम्भो” इति अभिधानचिन्तामणिः । "जम्भः स्याहानवान्तरे""दन्तभोजनयो"रिति अनेकार्थः । स्वादिपूर्वो यो जम्भशब्दस्तदन्ताबहुव्रीहेरन् समासान्तो भवति-शोभनो जम्भो जम्भा वास्य सुजम्मा, हरितजम्मा तृणजम्मा, दंष्ट्रापक्षे तृणमिव जम्भोऽस्य तृण-२० जम्भा एवं सोमजम्भा । स्वादिभ्य इति किम् ? चारुजम्भः पतितजम्भः । “दक्षिणेर्मा व्याधयोगे" (७।३।१४३ ) । ईम बहु व्रणं वा दक्षिणमङ्गमीर्ममस्य दक्षिणेर्मा मृगः-व्यबुकामस्य व्याधस्य दक्षिणं भागं बहूकृत्य व्यधनानुकूलं स्थितो व्याधेन वा दक्षिणभागे कृतव्रण एवमुच्यते । व्याधयोग इति किम् ? दक्षिणेम शकटम् , दक्षिणेमः पशुः । इत्यन्समासान्तः॥ १९ ॥
इनः कच् ॥ २०॥ [सि०७३।१७० ] बहुदण्डिका सेना । “ऋन्नित्यदितः” (७।३।१७१)। बहुकर्तृको बहुनदीको बहुवधूको देशः । “दध्युर सर्पिर्मधूपानच्छाले” (७३।१७२)। प्रियदधिकः । व्यूढोरस्कः। “पुमन्नडुन्नौपयोलक्ष्म्या एकत्वे” (७३।१७३)। प्रियपुंस्कः । “
नोत्” (७३३१७४)। अनर्थकं वचः । “शेषादा" (७३।१७५)। बहुखट्वका बहुखट्वः । *कचिन्न-बहुश्रेयान् पहुश्रेयसी ॥२०॥
"इन०" इन्नन्ताद्वहुव्रीहेः स्त्रियां कच् स्यात् । बहित्यादि-बहवो दण्डिनोऽस्यां सा तथा "अनिनस्मिन्ग्रहणान्यर्थवतानर्थकेन च तदन्तविधि प्रयोजयन्तीति" मिनाद्यन्तानामपि भवति-बहुस्वामिका बहुवाग्मिका पुरी । स्त्रियामित्येव-बहुदण्डिको राजा । चकारो "न कचि” (२।४।१०५) इति विशेष-३३
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org