________________
२६६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुसुज्वार्थे सङ्ख्या सङ्ख्येये सङ्ख्यया बहुव्रीहिः ॥ १५॥ [सि० ३।१।१९] __ वारविकल्पार्थयोः सङ्ख्या सङ्ख्यया बहुव्रीहिः स्यात् , सङ्ख्येयार्थे । “प्रमाणीसङ्ख्याडुः" (७।३।१२८) द्विर्दश द्विदशा घटाः । द्वौ वा त्रयो वा द्वित्राः पञ्चषाः ॥ १५ ॥
"सुज्वा०” सुचोऽर्थों वारः, वाऽर्थो विकल्पः संशयो वा । सुज्वार्थे वर्तमानं सङ्ख्यावाचि नाम ५सङ्खयेये वर्तमानेन सङ्ख्यावाचिना नाम्ना सहकार्ये समाससंज्ञं बहुव्रीहिसंज्ञं च भवति । "प्रमाणी" प्रमाणीशब्दान्तात् सङ्ख्यावाचिशब्दान्ताच्च बहुव्रीहेर्डः समासान्तो भवति । स्त्री प्रमाणी येषां ते स्त्रीप्रमाणाः कुटुम्बिनः । सङ्ख्या. द्विदशा द्वित्रा इत्यादि । एवं त्रिर्दश त्रिदशाः, द्विविंशतिबिर्विशास्त्रिर्विंशतित्रिविंशाः । सुज्विकल्पार्थयोः समासेनैवाभिहितत्वादप्रयोगः । प्रमाणशब्देन सिद्धे कजभावार्थं प्रमाणी
शब्दग्रहणम् । सङ्ख्यान्तस्य प्रतिपदोक्तस्य बहुव्रीहेर्ग्रहणादिह न भवति । अत्रिः, प्रियपञ्चानः ॥ १० "सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीपदाजपदप्रोष्ठपदभद्रपदम्” ( ७।३।१२९) एते नव बहुव्रीहयो डप्रत्ययान्ता निपात्यन्ते । शोभनं कर्म प्रातरस्य सुप्रातः पुमान् । शोभनं कर्म श्वोऽस्य सुश्वः । शोभनं कर्म दिवास्य सुदिवः । शारेरिव कुक्षिरस्य शारिकुक्षः । चतस्रोऽश्रयोऽस्य चतुरश्रः । एण्या इव पादावस्य एणीपदः । एवमजपदः । प्रोष्ठपदः-प्रोष्ठो गौः । भद्रौ पादावस्य भद्रपदः । निपातनात् पद्भावो विषयव्यवस्था च भवति । इति डप्रकरणम् ॥ १५ ॥ १५ अप् । अत्र सूत्राणि-'पूरणीभ्यस्तत्प्राधान्येऽप्” (७।३।१३०) व्याख्यातं चेदं प्राक्
नसुव्युपत्रेश्चतुरः॥ १६ ॥ [ सि० ७७३।१३१] अचतुराः । सुचतुराः। विचतुराः । उपचतुराः। त्रिचतुराः । “नाभेर्नाम्नि" (७३।१३४) पद्मनाभः। “नसुदुर्व्यः सक्तिसक्थिहलेवा” (७।३।१३६ )। सञ्जनं सक्तिः । असक्तः
असक्तिः ॥१६॥ २० "न" । अविद्यमानानि अदृश्यानि वा चत्वारि यस्य सोऽचतुरः । एवं सुचतुरः विचतुरः ।
चत्वारः समीपे येषां ते उपचतुराः । त्रयो वा चत्वारो वा त्रिचतुराः । “नाभे०" पदं नाभौ यस्य स तथा । एवं ऊर्णनाभः, हेमनाभः, वज्रनाभः, हिरण्यनाभः, । नाम्नि इति किम् ? सरोजनाभिः। एवं "अन्तर्वहिन्या लोन:” (७।३।१३२) अन्तर्लोमान्यस्य अन्तर्लोमः । एवं बहिर्लोमः "भान्नेतुः" (७।३।१३३ ) भान्नक्षत्रवाचिनः परो यो नेतृशब्दस्तदन्ताद्बहुव्रीहेरप् समासान्तो भवति । मृगो २५ नेता यासां ता मृगनेत्रा रात्रयः । नेत्रशब्देनैव सिद्धे नेतृशब्दात् कच् मा भूदिति वचनम् । “नञ्बहोचो माणवचरणे” (७३।१३५) न विद्यन्ते ऋचोऽस्य अनुचो माणवः । एवं बढचश्वरणः । “न” नमादिभ्यो ये सत्यादयस्तदन्ताबहुव्रीहेरपू समासान्तो वा भवति । असक्त इति किम् ? 'पंजी सङ्गे', सञ्जनं सक्तिः । अविद्यमाना सक्तिरस्य असक्तः, पक्षे असक्तिः । एवं सुसक्तः
२, दुःसक्तः २, अहलः २, सुहलः २, दुर्हलः २ । हलसक्तशब्दाभ्यां सिद्धे कजभावार्थं वचनम् , ३० तेन न विद्यते हलमस्य अहलक इत्यादि न भवति । सक्तिथशब्दानेच्छन्त्यन्ये । वचनभेदो यथासङ्ख्यनिवृत्त्यर्थः । इत्यप् समासान्तप्रकरणम्
"प्रजाया अस्" (सि० ७।३।१३७) "प्रजा०” नादयोऽनुवर्त्तन्ते । नत्रादिभ्यः परो यः ३३ प्रजाशब्दस्तदन्ताबहुव्रीहेरस्समासान्तो भवति ॥ १६ ॥ अनोपयोगिसूत्रमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org