________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । बहुव्रीहिः
२६५ नादेयीचरी । सौतङ्गमीयते । स्रौनीमानिनी । तद्धित इति किम् ? कुम्भकारी भार्याऽस्य स कुम्भकारभार्यः । वृद्धिहेतुरिति किम् ? अर्द्धप्रस्थे भवा अर्द्धप्रस्थी सा भार्याऽस्य, अद्धप्रस्थभार्यः । *"अर्टा
परिमाणस्याऽनतो वा त्वादेः” (७।४।२०) इति आदिस्वरस्य वृद्धिविकल्पे आर्द्धप्रस्थीत्यपि । *अर्द्धात्परिमाणस्येति सूत्रस्यायमर्थः-अर्द्धशब्दात्परस्य परिमाणवाचिनः कुडवादेः शब्दरूपस्य ब्णिति तद्धिते परे स्वरेष्वादेः स्वरस्यानतोऽकाररहितस्य वृद्धिर्भवति, वा त्वादेः-परिमाणात्पूर्वस्य त्वर्द्धशब्दस्य ५ वा भवति । अर्द्धकुडवेन क्रीतं अर्द्धकौडविकम् आर्द्धकौडविकम् । अनत इति किम् ? अर्द्धप्रस्थिकम् आर्द्धप्रस्थिकम्-आदिविकल्प उत्तरपदवृद्ध्यनपेक्ष इति भवत्येव । अतः प्रतिषेधादाकारस्य वृद्धिर्भवयेव । अर्द्धखार्या भवा अर्द्धखारीकः । कः पुनरत्र विशेषः सत्यामसत्यां वा वृद्धौ ? । उच्यते । अर्द्धखारी भार्याऽस्य अर्धखारीभार्य इति । यद्यत्र वृद्धिप्रतिषेधः स्यात्तदायं तद्धितो न वृद्धिहेतुरिति पुंवद्भावप्रतिषेधो न स्याद्यथा अर्द्धप्रस्थभार्य इति । स्वरेति किम् ? वैयाकरणभार्यः । अन्ये तु वृद्धिमात्रहेतोणितस्तद्धितस्य १० पुंवत्प्रतिषेधमिच्छन्ति-तन्मते वैयाकरणीभार्यः । अरक्तविकार इति किम् ? कषायेन रक्ता काषायी, सा बृहतिकाऽस्य काषायबृहतिकः । लोहस्य विकारो लौही, लौही ईषाऽस्य लौहेषः ॥ १२ ॥ अथ बहुव्रीहिसमासे समासप्रत्ययप्रकरणं सझेपेणाह
टडापसन्कचितः ॥ १३ ॥ सप्तैते समासान्तास्तद्धिता बहुव्रीहेः स्युः । पङ्कजाक्षीत्यादि ॥ १३ ॥
टडापेत्यादि--टश्च डश्च अप् च अस् च अन् च कच् च इत् च टडापसन्कचितः । सप्तैते इत्यादि स्पष्टम् । तद्धिता इति-एते समासान्ताः प्रत्ययास्तद्धितीया भवन्तीति ज्ञेयम् । पङ्कजाक्षीति-पङ्कजमिव अक्षिणी यस्याः सा तथा । अत्र पङ्कज अक्षि इति स्थिते
सक्थ्यक्ष्णः स्वाङ्गे (७३।१२६) स्वाङ्गवाची यः सक्थिशब्दोऽक्षिशब्दश्च तदन्ताद्बहुव्रीहेष्टः समासान्तो भवति ॥ १३ ॥ अत्रोप-२० योगिसूत्रमाह
अवर्णेवर्णस्य ॥१४॥[सि०७४।६८] अपदस्थानयोस्तद्धिते परे लुक् स्यात् । टित्प्रत्ययान्तानां स्त्रियां डीः। पङ्कजाक्षी स्त्री ॥१४॥
"अवर्णे०” । अवर्णश्च इवर्णश्च अवर्णेवर्णम् , तस्य । अनयोरिति-अवर्णेवर्णयोः । अपदस्थति किम् ? शुक्लतमः ऊर्णायुः अत्र "नामसिदव्यञ्जने” (१११।२१) इति पदसंज्ञा । तद्धित इत्येव-२५ वृक्षः, अन्योः । टित्प्रत्ययान्तानामिति-"अणबेयेकण्ननटिताम्" (२।४।२०) इति ङीः । पकजाक्षी । एवं गौर सक्थ्यस्या गौरसक्थी । स्वाङ्ग इति किम् ? दीर्घसक्थि शकटम् , स्थूलाक्षिरिक्षुः । टसमासान्तस्य शेषसूत्राण्येवम्-"बहुव्रीहे: काष्ठे टः” (७।३।१२५) अङ्गुल्यन्ताबहुव्रीहेः काष्ठे वर्तमानाट्टः समासान्तो भवति । द्वे अङ्गुली यस्य तत् व्यङग्लम् , व्यङ्गुलम् , चतुरङ्गुलम् , पश्चाङ्गुलम् अङ्गुलीसदृशावयवं धान्यकण्टकादीनां विक्षेपणकाष्ठमुच्यते । अङ्गुलिशब्दादयं विधिः । अङ्गुलीशब्दात्तु ३० द्वावङ्गुलीसदृशावयवौ यस्य, व्यङ्गुलीकं दारुरित्यायेव भवति ॥ "द्वित्रेनों वा" (७३।१२७) द्विमूर्द्धः द्विमूर्द्धा, त्रिमूर्द्धः त्रिमूर्द्धा, द्विमूर्ली स्त्री । इति टप्रकरणम् ॥ १४ ॥
३३
१ समासान्तविधेरनित्यत्वात् “अक्ष्णोऽप्राण्य?" (३३८५) इसनेनापि न भवति ।
है. प्रका. पूर्वा०३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org