________________
२६४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुमेव । ननु गुण्यादीनां त्रयाणामाविष्टलिङ्गानां पुंल्लिङ्गे प्रयोगादर्शनात्पुंवद्भावे किं स्यादित्यत्रोच्यते-अत्र पुंवद्भावेऽर्थतः प्रत्यासन्नाः कूर्महंसाश्वशब्दाः प्राप्नुयुः । परतः स्त्रीत्यत्र स्त्रीति किम् ? ग्रामणि कुलं दृष्टिरस्य ग्रामणिदृष्टिः-अत्र प्रामणिशब्दस्य परतो नपुंसकस्य पुंस्त्वं मा भूत् । गृहिणीनेत्रा इति-नेत्रमिव नेत्रम् , गृहिणीनेत्रं येषां ते तथा; अत्र यद्यपि नेत्रशब्दो गृहिणीशब्देन सहकार्थोऽस्ति, तथापि नासौ ५स्त्रीवृत्तिरिति । कल्याण्याः माता कल्याणीमातेत्यत्र श्रीवृत्तावुत्तरपदे सत्यपि नैकार्थ्यमिति ॥ ११ ॥ अत्र पुंवद्भावस्य विधिसूत्राणि चत्वारि सन्ति । तेष्वेकमिदमुक्तम् , त्रीणि च तद्धिते पूरणप्रत्ययाधिकारे वक्ष्यन्ते । अतः परं चत्वारि पुंवद्भावप्रतिषेधसूत्राणि निरूप्यन्ते
स्वाङ्गान्डीर्जातिश्चामानिनि ॥ १२॥ [ सि० २२॥५६] . वाङ्गायो डीस्तदन्तो जातिवाची च परतः स्त्रीवन स्यात । दीर्घकेशीभार्यः । शूद्राभार्यः। १० कठीभार्यः । अमानिनीति किम् ? दीर्घकेशमानिनी । कचिदन्यत्राप्येवम्-कल्याणीपश्चमा रात्रयः । कल्याणीप्रियः । मद्रिकाभार्यः । कारिकाभार्यः। द्वितीयाभार्यः । दत्ताभार्यः॥१२॥
"स्वाङ्गा०” । स्वाङ्गादित्यादि स्पष्टम् । अमानिनीति–मानिनि शब्दे चोत्तरपदे पुंवद्भावनिषेधो न भवति । दीर्घकेशमानिनी कठमानिनी । जातिवाचित्वेऽपि "आकृतिग्रहणाजातिः, अत्रिलिङ्गा च यान्विता । आजन्मनाशमर्थानां सामान्यमपरे विदुः ॥ १॥ अत्र प्रथमजातिलक्षणानुसारेण कुमारी१५भार्यः किशोरीभार्यः इति भवति, द्वितीयलक्षणानुसारेण तु कुमारभार्य किशोरभार्य इति भवति, नहि
कुमारत्वाद्युत्पत्तेः प्रभृत्याविनाशमनुवर्तते, दीर्घकेशीभार्य इति दीर्घाः केशाः यस्याः सा तथा "असहनविद्यमान०" (२।४।३८) इत्यादिना डीः । कठीभार्य इति 'गोत्रं च चरणैः सहेति' कठीशब्दस्य जातिवाचित्वम् । कचिदन्यत्राप्येवमिति-बहुव्रीह्यादौ पूर्वपदस्य पुंवद्भावो न भवतीत्यर्थः । कल्याणी. त्यादि-अत्रेयं सूत्रवीथी-"नाप्रियादी" (३।२।५३) पूरण्यप्प्रत्ययान्ते सयेकार्थे उत्तरपदे प्रियादौ २० च परे परतः स्त्री पुंवन्न भवति । कल्याणी पञ्चमी रात्रिर्यासां ताः कल्याणीपश्चमा रात्रयः, “पूर
णीभ्यस्तत्प्राधान्येऽप्" (७।३।१३०) पूरणप्रत्ययान्तः स्त्रीलिङ्गशब्दः पूरणी, तदन्ताबहुव्रीहेरप् समासान्तो भवति, तत्प्राधान्ये-तस्याः पूरण्याः प्राधान्ये । समासेनाभिधीयमानो ह्यर्थः प्रधान भवति । अत्र रात्रयः समासार्थस्तासु पञ्चम्यपि रात्रित्वेनानुप्रविष्टेति प्रधानम् । कल्याणी प्रिय इतिकल्याणी प्रिया यस्य स तथा, एवं भव्याप्रियः प्रियासुभगः कल्याणीदुर्भगः ॥ प्रिया मनोज्ञा २५ कल्याणी सुभगा दुर्भगा स्वा क्षान्ता कान्ता वामना समा सचिवा चपला बाला तनया दुहित
भक्ति इति षोडशकः प्रियादिगणः । वामेत्यप्यन्ये प्रियावामः । कथं दृढभक्तिरिति दृढं भक्तिरस्येत्येवमस्त्रीपूर्वपदस्य विवक्षितत्वात् । मद्रिकाभार्य इत्यादि अत्र सूत्रम् "तद्धिताककोपान्त्यपूरण्याख्या:" ( ३।२।५४ ) तद्धितप्रत्ययस्याऽकप्रत्ययस्य च यः कः स उपान्त्यो यासां तास्तद्धिताककोपान्त्याः, पूरणीप्रत्ययान्ता आख्याः संज्ञाः तद्रूपाश्च परतः स्त्रियः पुंवन्न भवन्ति । तद्धितक-मद्रिका३० भार्यः वृजिकाभार्यः "वृजिमद्राद्देशात्कः” (६॥३॥३८) इति च भवार्थे कः । लाक्षिकीभार्यः ॥
अक-कारिकाभार्यः ॥ पूरणी-द्वितीयाभार्यः पञ्चमीभार्यः ॥ आख्या-दत्ताभार्यः ॥ क्यङ्मानिपित्तद्धिते परेऽप्यासा परतः स्त्रीणां पुंषद्भावो न भवति । मद्रिकायते वृजिका वेश्या । एवं पाचिकायते पाचिकामानिनी पाचिकाकल्पा । पश्चमीयते षष्ठीमानिनी द्वितीयाकल्पा । दत्तायते दत्तामानिनी दत्ताकल्पा ।
"तद्धितः खरवृद्धिहेतुररक्तविकारे" (३।२।५५) स्वरस्थानीयाया वृद्धों हेतुस्तद्धितो रक्ता३५द्विकाराचान्यत्रार्थे विहितस्तदन्तः परतः स्त्रीलिङ्गः पुंवन्न भवति । माथुरीभार्यः । माथुरीदेश्या ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org