________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे समासप्रक्रिया । बहुव्रीहिः २६३ शब्दात् क्तान्तं बहुव्रीही पूर्व निपतति । उद्यतोऽसिरनेन उद्यतासिः अस्युद्यतः, कलितप्रहरणः प्रहरण. कलितः, आकृष्टधन्वा धनुराकृष्टः, उद्यतमुसलः मुसलोद्यतः । “प्रियः” । स्पष्टम् ॥ ९ ॥
न सप्तमीन्द्रादिभ्यश्च ॥ १०॥[सि० ३।१।१५५] इन्द्वादिभ्यः प्रहरणार्थाच सप्तम्यन्तं बहुव्रीहौ प्राय न स्यात् । इन्दुमौलिः । चक्रपाणिः । "गडादिभ्यः " (३२१११५६)। वा । कण्ठेगडुः । गडकण्ठः ॥१०॥ __ "न स." इन्दुमौलिरिति इन्दुहेलौ यस्य स इन्दुमौलिः । एवं शशिशेखरः, पद्मनाभः, पद्महस्तः, शङ्खपाणिः, दर्भपवित्रपाणिः पद्मपाणिरित्यादि । प्रहरणात्-चक्रं पाणौ यस्य स चक्रपाणिः-एवं असिपाणिः शूलपाणिः शाङ्गपाणिः धनुःपाणिः धनुर्हस्तः पाशहस्तः खड्गहस्तः वज्रहस्तः वज्रपाणिः । बहुलाधिकारात् पाणिवत्रः हस्तवन इत्यत्र पूर्वनिपातोऽपि । बहुवचनं प्रयोगानुसरणार्थम् , एवमुत्तरत्रापि । "गड्वा०" कण्ठेगडरिति-एवं शिरसि गडुः गडुशिराः, शिरस्यरुः अरुःशिराः, मध्ये गुरुः गुरु-१० मध्यः, अन्ते गुरुः गुर्वन्तः, । व्यवस्थितविभाषया बहेगड़रियेव भवति ॥ १०॥ अथ बहुव्रीही पूर्वपदस्य कार्यविशेषमाह
परतः स्त्रीपुंवत्स्येकार्थेऽनूङ् ॥ ११॥ [सि० ३।२।४९] परतो विशेष्यवशास्त्रीलिङ्गः स्त्रीवृत्तावेकार्थे उत्तरपदे परे पुंवत्स्यात् न तूङन्तः। दर्शनीया भार्या यस्य सः दर्शनीयभार्यः । परत इति किम् ? दुणीभार्यः । रुयेकार्थ इति किम् ? गृहिणी-१५ नेत्राः । अनूडिति किम् ? करभोरूभार्यः ॥११॥
“परतः०" । दर्शनीयभार्य इति-'गुणवृत्तेराश्रयाद्वचनलिङ्गे' इति वचनात् दर्शनीयाशब्दः परतः स्त्री, एवं पटुभार्यः, कल्याणभार्यः, शोभनभार्यः । एनी भार्या यस्य स एनभार्यः । युवतिर्जाया यस्य स युवजानिः । कर्मधारयेऽपि-कल्याणी चासौ पञ्चमी च कल्याणपञ्चमी, पट्वी च मृद्वी च पट्वीमृट्यौ ते भार्ये यस्य स पट्वीमृदुभार्यः । अत्र द्वन्द्वपदानां परस्परार्थसङ्कमात् व्यर्थस्य मृदुशब्दस्य व्यर्थेन २० भार्याशब्देन सामानाधिकरण्यमिति पुंवद्भावः । पूर्वस्य तु व्यवधानान्न भवति । अनूङिति किम् ? ब्रह्मबन्धूभार्यः। अनूडिति प्रसज्यप्रतिषेधात्, इडविडोऽपत्यं स्त्री "राष्ट्रक्षत्रियात्सरूपात्०" (६।१।११४) इत्यन् “देरबऽणोऽप्राच्यभर्गादेः" (६।१।१२३) इति तस्य लुप् इडविड् सा चासौ भार्या च ऐडविडभायेत्यादिषु "पुंवत्कर्मधारये ( ३।२।५७) इत्यनेन पुंवद्भावः, नत्वनेन-स्वाङ्गाद् ङीर्जातिश्चेति निषेधात् । पर्युदासे हि ऊसदृशप्रत्ययान्तस्यैव पुंवद्भावः स्यादिति ॥ नन्वनूङिति निषेधोऽत्र सूत्रे किमुच्यते १२५ "नाप्रियादौ” (३।२।५३) इत्यादौ निषेधाधिकारे एव युक्तः । सत्यम् । ययत्रैवं न कुर्यात्तत्रैव अङिति सूत्रान्तरं विदध्यात्ततो यथा नाप्रियादीनां निषेधानां "पुंवत्कर्मधारये" ( ३।२।५७) इति प्रतिप्रसव उक्तस्तथाऽस्यापि स बाधकः स्यात् , स मा भूदित्येवमर्थमनूङिति वचनमत्र युक्तम् ॥ द्रुणीभार्य इति-द्रोण्यादिशब्दानां नित्यस्त्रीत्वान परतः स्त्रीत्वम्, एवं द्रोण्यादिशब्दानामपि । एवं कुटीभार्यः, पात्रीभार्यः। ननु कुटपात्रशब्दावन्यलिङ्गावपि स्तस्तत्कथमाविष्टलिङ्गत्वम् ? सत्यम् , कुटशब्दो गेहे पात्रशब्दस्तु ३० भाजने वर्तमानः स्त्रीलिङ्ग एव कैश्चिदुक्तस्तदभिप्रायेणेदमुच्यते इति । ननु द्रोण्यादीनां त्रयाणामाविष्टलिङ्गानां पुंवद्भावे किं स्यादित्याशङ्कायामाह-अत्र पुंवद्भावे शब्दतः प्रत्यासन्ना द्रोणकुटपात्रशब्दाः प्राप्नुयुः द्रुणीभार्यः वरटाभार्यः वडवाभार्यः । ननु गुणशब्दस्य वृश्चिकवाचकस्य 'वृश्चिको द्रुणः आल्यालिः' इति वचनात्पुंस्त्वमपि दृश्यते तत्कथं नित्यत्रीत्वम् ? सत्यम् । न तद्वैयाकरणसम्मतं किन्त्वऽभिधानकाराणा-३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org