________________
२६२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुभवति । एवं पञ्चभिर्गोभिः क्रीतः पञ्चगुः, कोशाम्ब्या निर्गतो निकोशाम्बिा, खट्वामतिक्रान्तोऽतिखट्वः, अतिब्रह्मबन्धुः, प्रियवामोरुः । गौणस्येत्येव-सुगौः, किंगौः, राजकुमारी, नक्षत्रमाला, परमब्रह्मबन्धूः । अकिप इत्येव-गामिच्छति क्यन् गव्यतीति कि गौः ततः प्रिया गौरस्य प्रियगौः । कुमारी मिच्छति क्यन् , किप ततः, कुमारी, ततः प्रियश्चासौ कुमारी च प्रियकुमारी चैत्रः । गोश्चेति किम् ? अतितत्रीः, ५अतिलक्ष्मीः, अतिश्री:, अतिभूः । अन्त इति किम् ? गोकुलम् , कुमारीप्रियः, कन्यापुरम्-अत्र गोशब्दो डयाद्यन्तं च समासार्थे न्यग्भूतत्वाद्गौणम् । अनंशिसमासेयो बहुव्रीहाविति किम् ? अर्द्ध पिप्पल्याः अर्द्धपिप्पली, बह्वयः श्रेयस्यो यस्य स बहुश्रेयसीपुरुषः ॥ सर्वशुक्ल इति सर्व शुक्लमस्य सर्वशुक्ल:-अत्र सर्वादित्वात्सर्वशब्दस्य पूर्वनिपातः । द्विकृष्ण इति-द्वौ कृष्णावस्य द्विकृष्णम्, चतुर्हस्वः, पञ्चदीर्घः, षडुन्नतः, सप्तरक्तः; उन्नतरक्तशब्दौ न क्तान्तावपि तु गुणशब्दौ तेन स्पर्द्ध क्तलक्षणः पूर्वनिपातो न १० भवति-शब्दस्पर्द्ध परत्वात् सर्वादिसङ्ख्ययोः सङ्ख्याया एव पूर्वनिपातः । त्र्यन्यः, द्वियुष्मत्कः, व्यस्मत्कः।
उभयोस्तु सर्वादित्वे स्पर्द्ध परस्य पूर्वनिपातः-व्यन्यः । बहुव्रीहाविति किम् ? उपसर्व प्रथमोक्तं प्राक्' (३।१।१४८) इत्यनियमे प्राप्ते नियमार्थ वचनम् । सर्वादिसययोर्विशेषणत्वेऽपि पृथग्वचनं शब्दपरस्य स्पर्द्धार्थम् ॥ ८॥
ताः॥९॥ [सि०३।११५१ ] १५ क्तान्तं नाम बहुव्रीही प्राक् स्यात् । कृतकटः । *कचिदा । शाङ्गरजग्धी जग्धशाङ्गरा । मासयाता यातमासा । जातसुखा सुखजाता । आहिताग्निः अग्याहितः। A उद्यतासिः अस्युद्यतः “प्रियः” (३।२।१५७) । प्राग्वा । गुडप्रियः, प्रियगुडः ॥९॥
क्ताः । कृतकट इति-कृतः कटो येन सः तथा । क्तान्तस्य विशेषणत्वात्पूर्वेण सिद्ध्यति, विशेष्यार्थ तु वचनम् । कटे कृतमनेन कृतकटः । स्पर्द्ध परत्वार्थ च कृतभव्यकटः । बहुवचनं व्याप्त्यर्थं तेन २० कृतप्रिय इत्यत्रापि परेणापि स्पर्द्ध क्तान्तस्यैव पूर्वनिपातः । *कचिद्वेति कचिद्बहुव्रीही समासे क्तान्तं वा
पूर्व निपतति । अत्रेयं सूत्रपद्धतिः "जातिकालसुखादे वा” (३।१।१५२) जातिवाचिभ्यः कालवाचिभ्यः सुखादिशब्ददशकाच बहुव्रीहौ क्तान्तं वा पूर्व निपतति । जाति.-शाङ्गारो जग्धोऽनयेति विग्रहे "अनाच्छादजात्यादेवा” (२।४।४७) इति क्तान्ताद् डीविकल्पे शाङ्गरजग्धी शागरजग्धा ।
क्तान्तस्य पूर्वनिपातपक्षे तु जग्धशाङ्गरा । जातिविशेषवचनोऽयम् । कटकृतः कृतकटः, व्यक्तिविव२५क्षायां तु "क्ताः" इत्यनेन कृतकट इत्यायेव भवति । काल.-मासयाता । यातमासा । सुखादयो
दश-सुखयाता यातसुखा दुःखहीना हीनदुःखा । सुख दुःख तृप्त कृच्छ्र अस्र अलीक करुण कृपण सोढ प्रतीप इति सुखादिः ॥ १०॥ अिम्याहित इति "आहितान्यादिषु" (३।१।१५३) आहिताग्न्यादिषु बहुव्रीहिसमासेषु क्तान्तं वा पूर्व निपतति । आहितोऽनिर्येन स आहिताग्निः, अन्याहितः । एवं जातपुत्रः २, जातदन्तः २, जातश्मश्रुः २, पीततैलः २, पीतघृतः २, पीतमद्यः २,
पीतविषः २, ऊढभार्यः २, गतार्थः २, च्छिन्नशीर्षः २ । बहुवचनमाकृतिगणार्थं तेन पीतदधिः ३१ दधिपीत इत्यादयोऽपि भवन्ति । A अस्युद्यत इति "प्रहरणात्" (३।१।१५४) प्रहरणवाचिनः
१ अस्यायं तात्पर्यार्थः-अल्पखरवात्सङ्ख्याशब्दस्य पूर्वप्रयोगे प्राप्त लक्षणातिक्रमेण विशेषणं सर्वादिसङ्ख्यमिति निर्देश: शब्दपरस्पर्थिः तेन तत्र सङ्खयेति सर्वादीति चोभयोः प्रसझे द्वयोरन्यत्र सावकाशलात् परत्वात् सङ्खयेति पूर्वप्रयोगो भवति । २ सामान्येऽपि सर्वादिले पाठापेक्षया यः परः सर्वादिस्तेन भाव्यम् । सङ्ख्याशब्दस्य तु सर्वादिखेऽसर्वादिले च पूर्वनिपात एवसूत्रे परत्रोपादानात् । ३ ननु सर्वादिसङ्ख्याभ्यामारब्धेऽपि बहुव्रीहावन्यपदार्थ स्यैव प्राधान्यात्तस्य च विशेष्यत्वादेतयोर्विशेषणलाद्विशेषणग्रहणेनैव भविष्यति, किमर्थ पृयगुपादानमित्याशङ्का ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org