________________
२६१
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । बहुव्रीहिः "दिशो." । रूब्या दिशः सम्बन्धिनाम रूढ्यैव दिशः सम्बन्धिना नानाऽन्तराले अन्यपदार्थेsभिधेये समस्यते, स समासो बहुव्रीहिसंज्ञो भवति । दक्षिणपूर्वा दिगिति एवं पूर्वोत्तरा, उत्तरपश्चिमा, दक्षिणपश्चिमा।"सर्वादयोऽस्यादौ" (३।२।६१) इति-सूत्रमिदम् ; अस्यायमर्थ:-सर्वादिर्गणः परतः स्त्री पुंवत्स्यात् , अस्यादौ-स्यादिपरश्चेन्न स्यात् । स्यादिवर्जनात् प्रत्यये पदे च परे भवति । सर्वासां प्रियः सर्वप्रियः, भवत्याः पुत्रो भवत्पुत्रः, एकस्याः क्षीरम् एकक्षीरम् , एकस्या आगतम् एकरूप्यम् , एक-५ मयम् , तया प्रकृत्या तथा तेन प्रकारेणेत्यर्थः । स्त्रीत्वव्यक्त्यर्थमेवं निर्देशः (अथ चात्र पुंबद्भावः किमर्थः समजनि ? उच्यते-अत्र वद्भावे सति स्त्रियामाप् न भवति । एवं यथा तदेत्यादि) एवं यथा। तस्यां वेलायां तदा । एवं यदा कदा सर्वदा अन्यदा तर्हि यहि कर्हि । सर्वामिच्छति सर्वकाम्यति, भवकाम्यति, एककाम्यति । परत्वात्प्रतिषेधविषयेऽपि-सर्वा प्रियाऽस्य सर्वप्रियः ( सर्वादय इति किम् ? कन्यापुरम् कुमारीवासः । कन्याशब्दो व्याकरणे कन्य इति पुमानपि प्रसिद्ध इत्यत्र सूत्रसाफल्यम् ) १० अस्यादाविति किम् ? सर्वस्यै दक्षिणपूर्वस्यै । बहुवचनं व्याप्त्यर्थम् , तेन भूतपूर्वसर्वादेरपि-दक्षिणोत्तरपूर्वाणाम् , "न सर्वादिः” (१।४।१२) इति सर्वादित्वाभावः ॥ कथं पश्चिमदक्षिणा, पश्चिमोत्तरा कथम् , कर्मधारयोऽयम् , बहुव्रीहौ हि सर्वनाम्नः पूर्वनिपातः स्यात् । रूढिग्रहणं यौगिकनिवृत्त्यर्थं तेन ऐन्द्रयाश्च कौबेर्याश्च दिशोर्यदन्तरालं इति वाक्यमेव
*इत्यादयोऽपीति इत्यत्रादिशब्दात् “आसन्नादराधिकाध्यो दिपूरणं द्वितीयाद्यन्या-१५ थै" (३।१।२०) आसन्नादीनि चत्वारि अर्धशब्दपूर्वपदं च पूरणप्रत्ययान्तं नाम सङ्ख्यावाचिना नाम्नैकार्थे समस्यते, द्वितीयाद्यन्तस्यान्यस्य पदस्यार्थे सङ्ख्येयरूपेऽभिधेये, स च समासो बहुव्रीहिसंज्ञो भवति । आसन्ना दश दशत्वं येभ्यो येषां वा ते आसन्नदशा:-नवैकादश वा । एवमासन्नविंशाः-एकोनविंशतिरेकविंशतिर्वा, एवमदूरदशा अदूरविंशा । अधिका दश येभ्यो येषु वा ते अधिकदशा एकादशादयः। अधिकत्वं च दशानामेकाद्यपेक्षम् । अवयवेन विग्रहः समुदायः समासार्थः । एवमधिकविंशा एक-२० विंशत्यादयः । अद्ध्यर्द्धा विंशतिर्येषां ते अद्ध्यर्द्धविंशाः, त्रिंशदित्यर्थः । एवमद्ध्यर्द्धत्रिंशाः । अर्द्धपञ्चमा विंशतयो येषां ते अर्द्धपञ्चमविंशाः, नवतिरित्यर्थः । एवमर्द्धचतुर्थविंशाः, सप्ततिरित्यर्थः । अर्द्धतृतीयविंशाः, पञ्चाशदित्यर्थः "अव्ययम्” (३।१।२१) अव्ययं नाम सङ्ख्यावाचिना नाम्नैकार्थे समस्यते, द्वितीयान्ताद्यन्यार्थे सङ्ख्येयेऽभिधेये, स च समासो बहुव्रीहिसंज्ञो भवति । उप समीपे दश येषां ते उपदशाः-नवैकादश वा । एवमुपविंशाः, उपत्रिंशाः, उपचत्वारिंशाः । पुनरपि बहुव्रीहिविशेषमाह-२५ यत्रेत्यादि निगदसिद्धम् ॥ ७ ॥ अथ बहुव्रीही पूर्वपदव्यवस्थामाह
विशेषणं सर्वादिसङ्ख्यं बहुव्रीहौ ॥८॥[सि० ३।१।१५०] विशेषणं सर्वादिकं सङ्ख्यावाचि च बहुव्रीहौ प्राक् स्यात् । गौणस्य गोशब्दस्य ड्याद्यन्तस्य चान्तस्थस्य हस्खो वक्तव्यः। चित्रगुः । सर्वशुक्ल: । द्विकृष्णः ॥८॥
"विशेषण." चित्रगुरिति-चित्रा गावोऽस्येत्यत्र चित्रस्य विशेषणत्वात् पूर्वनिपातः । अत्र कार्य-३० विशेष लेशेनाह-गौणस्येत्यादि, ड्याद्यन्तस्येति-ड्यन्तस्याबन्तस्य ऊऊन्तस्येत्यर्थः-अघ्रायं सूत्रसम्प्रदायः "गोश्चान्ते हखोऽनंशिसमासेयो बहुव्रीहौ” (२।४।९६) गौणस्याकिपो गोशब्दस्य याद्यन्तस्य च नानोऽन्ते वर्तमानस्य ह्रखो भवति, न चेदसावनंशिसमासान्त ईयस्वन्तबहुव्रीह्यन्तो वा ३३
१ कल्याणी प्रियेत्यादौ 'नाप्रियादी' (३।२।५३) इत्यादि प्रतिषेधः सावकाशः । भवत्पुत्र इत्यादी खयं विधिः । सर्वा प्रियाऽस्य सर्वप्रिय इत्यादौ तूभयप्राप्ती द्वयोरन्यत्र सावकाशले परसादनेन पुंवद्भावः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org