________________
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
सामान्यवाचिना च सह समस्यते । उपमेयसरूपस्य चोपमानपद्स्य यथासम्भवं लोपः । कण्ठे स्थिता इत्यलुप्समासस्ततः कण्ठे स्थिताः काला यस्य स कण्ठे कालः, एवमुरसि स्थितानि लोमान्यस्योरसिलोमा, एवमुदरेमणिः, वहेगडुरित्यादिषु सप्तमीपूर्वपदं समानाधिकरणं समस्यते उत्तरपदस्य च लोपः । व्यधिकरणो वा कण्ठेकालादिषु बहुव्रीहिः । केशसङ्घातचूडाऽस्य केशचूडः, सुवर्णविकारोऽलङ्कारोऽस्य ५ सुवर्णालङ्कार इत्यादिषु सङ्घातविकारापेक्षया षष्ठ्या समस्तं सामानाधिकरण्यं समस्यते, उत्तरपदलोपश्च ॥ केशसङ्घातचूडः, सुवर्णविकारालङ्कारः इत्यप्यन्यः ॥ तथा प्रपतितानि पर्णान्यस्य प्रपर्णः प्रपतितपर्णः, प्रपलाशः प्रपतितपलाशः, उद्रश्मिः उद्गतरश्मिरित्यादिषु प्रादिपूर्व धातुजं पदं समस्यते, तस्य च विकल्पेन लोपः । तथा अविद्यमानः पुत्रोऽस्य अपुत्रः अविद्यमानपुत्र इत्यादिषु नम्पूर्वमस्त्यर्थपदं समस्यते, तस्य च वा लोपः । बहुवचनमाकृतिगणार्थम् ॥ ४ ॥ बहुव्रीहिविशेषमाहसहस्तेन ॥ ५ ॥ [ सि० ३|१|२४ ]
१०
२६०
तेनेति तृतीयान्तेन सहशब्दोऽन्यपदार्थे समस्यते ॥ ५ ॥
" सह ०" । तेनेति अयं भावः - तुल्ययोगे विद्यमानार्थे च वर्त्तमानं सह इत्येतन्नाम तृतीयान्तेन नाना अन्यपदार्थे समस्यते स समासो बहुव्रीहिसंज्ञो भवति ॥ ५ ॥ अत्रोपयोगिसूत्रमाहसहस्य सोऽन्यार्थे ॥ ६ ॥ [ सि० ३।२।१४३ ]
१५ बहुव्रीहौ सहस्य सो वा स्यात् । सपुत्रः सहपुत्रो वा गतः *वचिन्नित्यम् - सरसा दूर्वा । साग्निः कपोतः । सद्रोणा खारी । कचिन्न - स्वस्ति गुरवे सहशिष्याय ॥ ६ ॥
“सहस्य ०”। आगत इति अत्र तुल्ययोगे सहशब्दः आगमनक्रियया पितापुत्रयोरुभयोरपि योगात् । विद्यमानार्थे - सह कर्मणा वर्त्तते सकर्मकः ; विद्यमानताऽत्र सहार्थो न तु तुल्ययोगः । सह इति किम् ?
सार्द्धं सत्र अमा पुत्रेणागतः । बहुलाधिकाराद्विद्यमानार्थे क्वचिन्न भवति - सहैव दशभिः पुत्रैर्भारं वहति २० गर्दभी । सहैव धनेन भिक्षां भ्रमति । प्रथमान्तान्यपदार्थ आरम्भः सहस्तेनेति सूत्रे । अन्यार्थ इति किम् ? सह कृत्वा सह युध्वा सहकारी सहजः । *क्वचिदित्यादि - "नाम्न्नि” ( ३।२।१४४ ) अन्यार्थे समासे उत्तरपदे सहशब्दस्य सादेशो नित्यं भवति, संज्ञायां विषये । सरसा दूर्वेति - एवं सहाश्वत्थेन वर्त्तते साश्वत्थं, सपलाशं सशिंशिपं वनम् । एवंनामानि वनानि । अन्यार्थे इत्येव - सह चरतीति सहचर: कुरण्टकः । सह दीव्यति सहदेवः कुरुः । सामिरित्यादि । अत्र सूत्रम् - " अदृश्याधिके” (३।२।१४५) अदृश्यं २५ परोक्षम् । अधिकमधिरूढम् । तद्वाचिनोरुत्तरपदयोरन्यार्थे समासे सहशब्दस्य नित्यं सादेशो भवति । तत्र अदृश्ये - साभिः कपोतः, सपिशाचा वात्या । अधिके सद्रोणा खारी, समाषः कार्षापणः । क्किचिन्नेति अत्र सूत्रम् - " नाशिष्यगोवत्सहले” (३।२।१४८) आशिषि गम्यायां गवादिवर्जिते उत्तरपदे परे सहशब्दस्य सादेशो न भवति । अगोवत्सहले इति किम् ? स्वस्ति भवते सगवे सहगवे, सवत्साय सहवत्साय, सहलाय सहहलाय । एतत्सर्वं *कचिदित्यादिना सङ्क्षेपेणाह || ६ || पुनरपि बहुव्रीहिविशेषमाह— दिशो रूढ्यान्तराले ॥ ७ ॥ [ सि० ३।१।२५ ]
३०
दक्षिणस्याः पूर्वस्याश्च यदन्तरालं सा दक्षिणपूर्वा दिक् । सर्वादयोऽस्यादौ इति पुंवद्भावः । * इत्यादयोऽपि बहुव्रीहिसमासा ज्ञेयाः । यत्र प्रधानस्यैकदेशो विशेषणतया ज्ञायते स तद्गुण३३ संविज्ञानः । लम्बौ कर्णौ यस्य स लम्बकर्णः ॥ ७ ॥
१ साधारणधर्मवाचिनावस्थानादिना रूपेणेत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org