________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासपक्रिया । बहुव्रीहिः २५९
२५९ "एका०" । एकः समानोऽर्थोऽधिकरणं यस्य तदेकार्थ समानाधिकरणमित्यर्थः ॥ २ ॥ अत्रोपयोगिसूत्रमाह
ऐकार्थे ॥३॥ [सि० २२२८] ऐकार्यमैकपद्यं तनिमित्तस्य सादे प् स्यात् । अत एव लुब्विधानात् नाम नाम्नेत्युक्तावपि स्याघन्तानां समासः (अव्ययेभ्यः स्यादयोऽनुमीयन्ते इति बृहद्वृत्तौ)। 'उक्तार्थानामप्रयोगः'५ इति यच्छब्दाप्रयोगे *आरूढपुरुषो गिरिः । अयं चान्यपदार्थप्राधान्यात्तत्सम्बन्धिनीलिङ्गसङ्ख्याविभक्तीरनुसरति । कृतानि पुण्यानि येन सः कृतपुण्यः । एवं दत्तदानो वीतदुःखो बहुधनोऽनन्तज्ञानः । अनेकं च-आरूढबहुपुरुषो गिरिः । अव्ययं खल्वपि । उच्चैर्मुखः॥३॥ ___ "ऐका." । एकार्थस्य भाव ऐकार्यम् । आरूढाः पुरुषा यम् । इदं हि लौकिकं वाक्यम् , अलौकिके वाक्ये तु-आरूढ अस् पुरुष अस् इति स्थिते विभक्तिलोपे आरूढपुरुष इति । एवं पुत्रमिच्छति १० पुत्रीयति पुत्रकाम्यति, कुम्भं करोतीति कुम्भकारः, उपगोरपत्यमोपगवः एषु पुत्र अम् य, पुत्र अम् काम्य, कुम्भ अम् कार, उपगु अस् अ इति स्थिते ऐकायें सति तन्निमित्तस्य स्यादेर्लुप् । ऐकार्य इति निमित्तसप्तमीविज्ञानादैकार्योत्तरकालस्य न भवति चित्रगुः । ऐकार्थ्य इति किम् ? चित्रा गावो यस्येत्यादि वाक्ये न भवति ॥ *आरूढपुरुषो गिरिरिति द्वितीयाबहुव्रीहिः । एवं कृतपुण्य इत्यादयस्तृतीयादिबहुव्रीहयो ज्ञेयाः । अनेकं चेति-अनेकमपि समानाधिकरणं नाम नाम्ना द्वितीयाद्यन्तान्यपद-१५ स्यार्थे समस्यते, स च समासो बहुव्रीहिर्यथा-आरूढा बहवः पुरुषा यं स आरूढबहुपुरुषो गिरिः। एवं ऊढा बहवो रथा येन स ऊढबहुरथोऽनड्वान् । शोभनाः सूक्ष्मजटाः केशा यस्य स सुसूक्ष्मजटकेशः। शोभनं नतमजिनं वासोऽस्य सुनताजिनवासाः । सञ्जातान्यन्तेषु शितानि रन्ध्राण्यस्मिन्-समन्तशितिरन्ध्रः । पञ्च गावो धनमस्य पश्चगवधनः । पञ्च नावः प्रिया अस्य पश्चनावप्रियः । नामनाम्नेति विव. क्षितसङ्ख्यत्वादनेकस्य समासो न स्यादित्यनेकग्रहणम् । अव्ययं खल्वपि-उच्चैर्मुखमस्योच्चैर्मुखः, एवं २० नीचैर्मुखः; अन्तरङ्गमस्यान्तरङ्गः, एवं बहिरङ्गाः, कत्तुं कामोऽस्य कर्तुकामः, एवं हर्तुमनाः । व्यधिकरणत्वादव्ययस्य न प्राप्नोतीत्यव्ययाकर्षणार्थश्चकारः। सामानाधिकरण्ये त्वेकार्थमित्यनेनापि सिद्ध्यति-अस्ति क्षीरमस्या अस्तिक्षीरा गौः। क्रियावचनत्वे त्वस्त्यादीनां नाम नाम्नेत्यादिनैव सिद्धम् । ऐकार्यग्रहणं किम् ? पञ्चभिर्भुक्तमस्य । द्वितीयाद्यन्यार्थ इत्येव-वृष्टे मेघे गतः । यथा मे माता तथा मे पिता । सुस्नातं भोः । इह कस्मान्न भवति, वृष्टे मेघे गतं पश्य-बहिरङ्गाऽत्र द्वितीयान्ततेति । शब्दे कार्यासम्भवादर्थे लब्धे२५ यदर्थग्रहणम् , तदन्यपदार्थस्य या लिङ्गसङ्ख्याविभक्तयस्ता यथा स्युरित्येवमर्थम् । बहुलाधिकारात्-राजन्वती भूरनेन, प्राग्ग्रामो अस्मात् , पञ्च भुक्तवन्तोऽस्येत्यादिषु न भवति ॥ ३ ॥
उष्ट्रमुखादयः॥४॥ [सि० ३३१॥२३ ] एते बहुव्रीहिसमासा निपात्यन्ते । उष्ट्रस्य मुखमिव मुखं यस्य स उष्ट्रमुखः। वृषस्कन्धः॥४॥
"उष्ट्र०" वृषस्कन्ध इव स्कन्धोऽस्य स वृषस्कन्धः । एवमिभकुम्भाविव स्तनौ यस्याः सेभकुम्भ-३० स्तनी । एवं नागनासोरूः, हरिणाक्षी, हंसगमना, चन्द्रमुखी, कमलवदना, बिम्बोष्ठी, चक्रनितम्बा । पितुरिव स्थानमस्य पितृस्थानः । पितरीव स्थानीयमस्मिन् पितृस्थानीय इत्यादि । अत्रोपमानमुपमेयेन ३२
१ समासेऽपि विभक्तेः सम्भव इति । २ ऐकार्यस्य च पूर्वकालवाचिन्येव विभक्तिर्निमित्तं तस्यामैकार्यस्य भावात् , उत्तर. कालभाविन्यास्तु विभक्तेरैकार्यमेव निमित्तम् , सत्यैकपद्ये तस्याः सम्भवादिति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org