________________
२५८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
तेन जीमूतस्येवेत्यादौ तैत्तिरीयाणां पृथक्पदत्वेन पाठः । "उद्वाहुरिव वामन” इत्यादौ व्यस्तप्रयोगश्च सङ्गच्छते इति” । तथा भूतः पूर्वं भूतपूर्वः, एवं दृष्टपूर्वः श्रुतपूर्वः । सर्वेषु चैषु विशेषसंज्ञाप्राप्तावनेनैव समासः । बहुलमिति शिष्टप्रयोगानुसरणार्थम् । नामेति किम् ? चरन्ति गावो धनमस्य । नान्नेति किम् ? चैत्रः पचति । बहुलवचनादेवं कचिदनामापि समस्यते - भात्यर्कोऽत्र भात्यर्कं नभः, नभसा सामानाधि५ करण्यं समासफलम् । कचिदनाम्नापि - अनुव्यचलत्, अनुप्रावर्षत्, यद् व्यकरोत्, यत् परियन्ति । अत्र नित्यसन्ध्यादिसमासफलम् । समासस्य च नामत्वेऽपि सङ्ख्यायास्त्यादिभिरेवोक्तत्वान्न स्यादयो भवन्ति । पेदत्वार्थमुत्पन्नस्य वा प्रथमैकवचनस्य त्याद्यन्तार्थप्राधान्यान्नपुंसकत्वे लोपो भवति । अत्र मनोरमाएतदपि योगविभागस्येष्टसिद्ध्यर्थत्वादेव लभ्यते छन्दस्येवेति एतच्च सम्प्रदानसंज्ञासूत्रे पदमञ्जर्यां स्पष्टम् । यदि हि लोकेऽपि स्यात्तर्हि अभिप्रैतीत्यादौ समासात् स्यादयः स्युः । पचतिकल्पमित्यादौ तद्धितान्ता१० द्यथा । न च लिङ्गसर्वनामनपुंसकताभ्युपगमेन निर्वाहः, यत्प्रकुरुते इत्यादौ ह्रस्वापत्तेः प्रकुर्वीरन्नित्यत्र नलोपपत्तेश्चेति । समासप्रदेशा :- "वौष्ठतौ समासे" ( १।२।१७ ) इत्यादयः । समासभेदानाह - स च षोढेति-तत्पुरुषविशेषः कर्मधारयस्तद्विशेषो द्विगुरिति विवक्षायां चतुर्द्धापि । इयं च भेदसङ्ख्या प्रायिकी एतदतिरिक्तानामपि पूर्वोक्तयुक्तया नाम नान्नेति समासविधानात् । यद्वैवं समासभेदानाहुः -
I
सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा । सुबन्तेनेति विज्ञेयः समासः षड्विधो बुधैः” ॥१॥
१५
सुपा राजपुरुषः, तिङा पर्यभूषयत्, नाम्ना कुम्भकारः, धातुना कटप्रूः न जसतीत्यजस्त्रम्, तिङां तिङा - पिबत खादताऽखादतमोदता । तिङां सुपा-कुंधि विचक्षणमिति यस्यां क्रियायां सा कंधिविचक्षणा । एहीडादयोऽन्यपदार्थे इति - मयूरव्यंसकादिपाठात्समासः । षण्णामपि नामान्याह - बहुव्रीहिरित्यादि । षण्णामपि प्रधानपदार्थव्यवस्थामाह - तत्र बहुत्री हिरित्यादि । एतदपि प्रायिकं सूपप्रति उन्मत्तगङ्गमित्याद्यव्ययीभावे, अतिमालादौ तत्पुरुषे, द्वित्रा इत्यादि बहुव्रीहौ, दन्तोष्ठमित्यादि द्वन्द्वे चाभावात् । २० पूर्वपदादिप्राधान्ये हेतुमाह, तस्येत्यादि - क्रियान्वयि प्रधानमिति वचनात् । समासप्रयोजनमाह-एकपद्यादिकमिति । आदिशब्दादैकस्वर्यं तच्च वेदेऽधिकृतम् । समासप्राग्भाविनो वाक्यस्य लक्षणं संज्ञा चाह- समर्थ इत्यादि । अयं भावः - समासैकशेषकृत्तद्धितक्यनाद्यन्तधातुरूपाः पञ्च वृत्तयः । परार्थाभिधानं वृत्तिः, वृत्त्यर्थावबोधकं वाक्यं विग्रहः । स द्विधा - लौकिकोऽलौकिकश्च । परिनिष्ठितत्वात्साधुलकिकः, प्रयोगानर्होऽसाधुरलौकिकः । यथा राज्ञः पुरुषः - राजन् अस् पुरुषस् इति । अविग्रहो २५ नित्यसमासः अस्खपदविग्रहो वेति ॥ १ ॥
आरूढाः १-३ पुरुषा १ - ३ यमिति वाक्ये -
यथोद्देशं निर्देश इति प्रथमं बहुव्रीहिसमासप्रक्रियामाह - आरूढा इत्यादि
एकार्थं चानेकं च ॥ २ ॥ [ सि० ३।१।२२ ]
एकमनेकं चैकार्थ समानाधिकरणं नाम, अव्ययं च, नाम्ना, द्वितीयाद्यन्तान्यपदस्यार्थे, सम३० स्यते । स च बहुव्रीहिः ॥ २ ॥
----
१ ऐकपद्यात् 'हखोsपदे वा' इति हखविकल्पाप्रवृत्तेर्नित्यं यत्वादि भवतीत्यर्थः । २ अन्ये लाहु:-एको द्वावित्यादिवदुकेष्वप्येकत्वादिषु नामार्थत्वात् केवलायाश्च प्रकृतेः प्रयोगाभावाद्भाव्यमत्र प्रथमैकवचनेन तस्य च 'दीर्घङयान्' इत्यनेन लुप् 'अनतो लुप्' इति तन्मतग्रहणायाह पदत्वार्थमिति । ३ त्याद्यन्तस्य साध्यार्थप्रधानत्वादसत्ववाचित्वम् असत्वं च सामान्यम्; सामान्यं च नपुंसकम् ततः 'अनतो लुप्' ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org