________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । लक्षणमधिकारश्च
अ थ स मा मैं सोनि रूप्यते
अथेति-कारकप्रक्रियायां यथाविधि नाम्नां विभक्तयो विहिताः, अथ तेषां मिथः समासकथनं युक्तमित्यत आह- अथ समासो निरूप्यते इति ।
२५७
नाम नाम्नैकार्थ्ये समासो बहुलम् ॥ १ ॥ [ सि० ३|१|१८ ]
नाम नाम्ना सहैकार्थ्ये सामर्थ्यविशेषे सति समासो बहुलं स्यात् । लक्षणं चेदमधिकारश्च, ५ तेन बहुव्रीह्यादिसंज्ञाऽभावे यत्रैकार्थता तंत्रानेनैव समासः - विस्पष्टपटुः । स च षोढा - बहुव्रीहिः १ अव्ययीभावः २ तत्पुरुषः ३ कर्मधारयो ४ द्विगु: ५ द्वन्द्वश्च ६ । तत्र बहुव्रीहिरन्यपदार्थ - प्रधानः । अव्ययीभावः पूर्वपदार्थप्रधानः । द्विगु तत्पुरुषौ परपदार्थप्रधानौ । द्वन्द्वकर्मधारयौ चोभयपदार्थप्रधानौ । तस्य क्रियाभिसम्बन्धात् ऐकपद्यादिकं च समासप्रयोजनम् । समर्थः पदसमुदायो विग्रहो वाक्यमिति च ॥ १ ॥
१०
39
"नाम ० । नाम नाम्नेत्यादि, अयं भावः - नाम नाम्ना सह ऐकार्थ्ये एकार्थीभावे सति समाससंज्ञं बहुलं भवतीति । सामर्थ्यविशेषे इति- स च सामर्थ्याविशेषः पृथगर्थानां पदानां केचित्परस्परव्यपेक्षालक्षणं सामर्थ्यमनुभूय भवति यथा, राज्ञः पुरुषो राजपुरुषः, नीलं च तदुत्पलं च नीलोत्पलम् । क्कँचिदननुभूयैव भवति यथा, उपकुम्भम्, कुम्भकारः । वाक्यान्तरेण त्वर्थः प्रदर्श्यते - कुम्भस्य समीपं कुम्भं करोतीति । कचिन्न भवत्येव यथा, छात्राणां पञ्चमः रामो जामदम्य इति । विस्पष्टुं पटुः १५ विस्पष्टपटुः, विचित्रं कटुकः विचित्रकटुकः । एवं विविक्तकषायः व्यक्तलवणः सम्पन्नमधुरः पवम्लः निपुणपण्डितः कुशलदक्षः चपलवत्सलः इत्यादिषु गुणविशेषणस्य गुणवचनेन समासः ॥ काष्ठापरं प्रकर्षमध्यायकः काष्ठाध्यायकः । दारुणमध्यायकः दारुणाध्यायकः । अमातापुत्रमध्यायकः अमातापुत्राध्यायकः, निष्ठुरमध्यायक इत्यर्थः । वेशं सुभगमध्यायकः वैशाध्यायकः । एवमनाज्ञाताध्यायकः अयुताध्यायकः अद्भुताध्यायकः भृशाऽध्यायकः घोराध्यायकः परमाध्यायकः स्वध्यायक ः २० अत्यध्यायकः इत्यादिषु क्रियाविशेषणस्य क्रियावता समासः । तथा सर्वश्वर्मणा कृतः सार्वचर्मीणो रथः, अद्य श्वो वा विजायते अद्यश्वीना गौः, दशभिरेकादश गृह्णाति दशैकादशिकः, ऊर्ध्वं मुहूर्ताद्भयमौहूर्त्तिकम् एवमौर्ध्वदेहिकम्, और्ध्वदमिकम्, कृतः पूर्व कटोऽनेन कृतपूर्वी कटम्, भुक्तपूर्वी ओदनम्, गतपूर्वी ग्राममित्यादिषु तद्धितार्थे समासः । तथा कन्ये इव, दम्पती इव, वाससी इव, इत्यादिष्विवैनालुप्समासः । ऐकपद्यं च समासफलम् ; तथोक्तं सिद्धान्तकौमुद्याम् - "इवेन समासो विभक्त्यलोपश्च-जीमूतस्येव" । अत्र मनोरमा - " इवेनेति अयमपि समासः पूर्ववत् काचित्क एव, २६
"
Jain Education International
१ ननु अधिकारोऽयं लक्षणं वा ? उभयमपि ब्रूमः । अधिकारस्तावद्देवदत्तः पचतीत्यत्र विशेषसमासनिवृत्त्यर्थः । अन्यथा हि पचतीत्यनेन कर्तृसामान्यं यदुपात्तं तद्देवदत्त इत्यनेन कर्तृविशेषेण विशेष्यते इति सामानाधिकरण्येन विशेषणविशेष्यभावोऽस्ति । नमित्यादावुत्तरपदानुपादाने उत्तरपदोपस्थापनार्थश्च । लक्षणं च यस्य समासस्यान्यलक्षणं नास्ति तस्येदं लक्षणं तेन विस्पष्टादीनि गुणविशेषणानि गुणवचनेन विस्पष्टं पटुः, विस्पष्टपटुरिति समस्यन्ते । पवादयः शब्दाः पटुत्वादिगुणयोगात् मुख्यतया गुणिनि वर्तमाना अपि गौणतया पाटवादावपीति विस्पष्टादयः पद्वादीनां प्रवृत्तिनिमित्तस्य पाटवादेर्विशेषणानि न तु द्रव्यस्येति विस्पष्टमिति नपुंसकलम् । अत एव मुख्यं सामानाधिकरण्यं नास्ति इति कर्मधारयतत्पुरुषाभावः । २ यत्र सर्वाणि सत्त्वार्थाभिधायीनि पदानि भवन्ति । ३ यत्र त्वेकमसत्त्वाभिधाय्युपकुम्भमित्यादौ तत्र सामर्थ्यमननुभूयैव समासः । नित्यसमासत्वादिति शेषः ।
है० प्रका० पूर्वी० ३३
For Personal & Private Use Only
www.jainelibrary.org