SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ २५६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुभेदश्च सर्वलिङ्गत्वाद्वस्तुनः । पञ्चालमथुरे इति पञ्चालादीनां बहुत्वविषयाणां समासे उत्तरपदादन्यत्र समुदायाभिधानं नत्ववयवाभिधानमिति बहुत्वाभावः । नियतविषयाश्च शब्दशक्तयो भवन्ति, यथा राज्ञः पुरुष इति वाक्ये राजशब्दो विशेषणादियोगिनमर्थमाचष्टे, वृत्तौ तु तद्विलक्षणं राजपुरुष इति । चश्चाभिरूपो मनुष्य इति सादृश्यान्मनुष्यवृत्तेश्च तद्रूपं यत्नविशेषणयोगि । पञ्चालादिशब्दानां च क्षत्रियाद्य५र्थवृत्तीनामपि सोऽयमित्यभिसम्बन्धादुपचाराजनपदाद्यर्थेऽपि वृत्तिरित्युक्तं मुख्योपचारितार्थानुपातिनीत्यादि । अत्र च रूढिः प्रमाणम् , रूढिश्च शिष्टव्यवहारप्रसिद्धिरिति ॥ ५७ ॥ यां शिष्योऽद्भुतकीर्तिकीर्तिविजयश्रीवाचकाहर्मणे राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः। तस्यां शासितसाधुशब्दसरणौ स्वोपज्ञसत्प्रक्रिया वृत्तौ सम्प्रति कारकप्रकरणं सम्पूर्णतामासदत् ॥ १ ॥ . 000000000 Boooo000000 A . .. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy