________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कारकप्रक्रिया । अर्थान्तरविधानम् २५५ त्ययं जातिशब्दो नत्वनेन जातिराख्यायते किं तर्हि ? तत्प्रतिकृतिः । एक इत्येकसङ्ख्याक इत्यर्थः । लौकिक्या भेदपरिगणनरूपया सङ्ख्यया जातिलक्षणोऽर्थोऽसावेकः, न तु वैशेषिकाभिप्रेतगुणपदार्थसङ्गृहीतया, सा हि गुणत्वाद्र्व्य एव समवेता न पदार्थान्तरे; ततश्चैकग्रहणात्सम्पन्नौ व्रीहियवौ इत्यादौ न बहुवद्भावः । अत्र हि द्वयोर्जात्योराख्या नत्वेकस्या इति । “मगधेषु स्तनौ पीनौ कलिङ्गेष्वक्षिणी शुभे" इत्यादावपि सव्येतरत्वलक्षणावान्तरजातिद्वयोपाधियोगादेकत्वं नास्तीति वहुवद्भावो न स्यात् । ५ जातिमात्रविवक्षायां भवत्येव-मगधेषु स्तनाः पीनाः इति । सङ्ख्याविशेषणे स्वित्यादि । अत्र एके व्रीहयः सुभिक्षं कुर्वन्तीति न भवति ॥ ५६ ॥
गुरावेकश्च ॥ ५७ ॥ [सि० २२२।१२४ ] गुरौ गौरवाहे द्वावेकश्वार्थो बहुवद्वा स्यात् । युवां गुरू । यूयं गुरवः । एष मे पिता । एते मे पितरः ॥ ५७॥ इति श्रीमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां कारकप्रक्रिया समाप्ता । __ "गुरा०" । गौरवाहे इति गौरवार्थे वर्तमानस्य शब्दस्येत्यर्थः । एष मे पितेत्यादि-नन्वेकस्मिन्नेव पितरि कथमेकत्वं बहुत्वं च, किञ्च एकस्मिन्नपि जलकणे बहुवचनान्तोऽपशब्दः प्रयुज्यते, एकस्यामपि योषिति पुंल्लिङ्गो बहुवचनान्तश्च दारशब्दः, वर्षा इत्येकस्मिन्नपि ऋतौ स्त्रीलिङ्गो बहुवचनान्तः । एकस्मिन्नपि गृहे बहुवचनान्तः पुंलिङ्गो गृहशब्दः, पश्चाला जनपद इत्येकस्मिन्नपि बहुत्वैकत्वानुपपत्तिः । १५ नह्येक एवार्थ एकोऽनेकश्च भवति, विरोधात्कथञ्चित्तथाभावे तूभयमप्युभयसङ्ख्यायोगि स्यान्न चैतदिष्यते। एवं गोदौ ग्राम इति द्वित्वैकत्वनियमायोगः । खलतिकं वनानीत्येकवचनान्तेन बहुवचनाभिधानमनुपपन्नं, हरीतक्यः फलानीति स्त्रीनपुंसकलिङ्गायोगः, पञ्चालमथुरे इत्यनुत्तरपदस्य देशवृत्तेर्बहुविषयस्य बहुवद्भावप्रतिषेधानुपपत्तिः । एवं चश्चाभिरूपो मनुष्य इत्यादावपि चञ्चादिलिङ्गता स्यादित्यादि सर्व कथं समञ्जसं भवतीत्यत्रोच्यते-सर्वलिङ्गसङ्खये वस्तुनि स्याद्वादमनुपतति, मुख्योपचरितार्थानुपातिनि २० च शब्दात्मनि रूढितस्तत्तल्लिङ्गसङ्ख्योपादानव्यवस्थानुसतव्येति । अयं भावः-सर्वाणि त्रीण्यपि लिङ्गानि सर्वाश्चैकत्वद्वित्वबहुत्वलक्षणाः सङ्ख्या एकस्मिन्नेव वस्तुनि सन्ति, तथाहि-वस्त्वर्थो मात्रेतिशब्दाः सर्वत्रवस्तुतत्त्वे घटवस्तु घटार्थो घटमात्रेति प्रवर्त्तन्ते इति लिङ्गानि दृश्यन्ते । गुणगुणिद्रव्यपर्यायावयवावयविरूपे वस्तुनि घट इत्यभेदविवक्षायामेकत्वसङ्ख्या,-गुणगुणिनौ द्रव्यपर्यायावयवावयविनौ घटो नैकैकमात्र इति द्वित्वसङ्ख्या, गुणपर्यायावयवानां बहुत्वात्तद्भेदविवक्षायां गुणाश्च गुणी गुणिनो घटा इति २५ बहुत्वसङ्ख्या । न चैतदेकस्मिन्नपि वस्तुनि स्याद्वादानुपातिनि विरुद्धम् । स्यादित्यनेकान्तद्योतकमव्ययं ततश्च कथञ्चिदिति वादः स्याद्वादः तथाहि-स एवायं मैत्र इत्याजन्ममरणमविच्छेदः प्रतीयते, तन्न भेदमात्रं वस्तु । बालोऽयं न युवा, युवायं न बालः; सुप्तोऽयं नोत्थितः, उत्थितोऽयं न सुप्त इति विच्छेदश्च प्रतीयते तन्नाभेदमात्रम् ; न च तयोर्भेद एव, मैत्रो बालो मैत्रो युवेत्येकत्वेन प्रतिभासनाद्गौरश्व इतिवद्भेदप्रतिभासाभावादेकान्तेन चाभेदेऽन्यतरविलोपः, तथा च भेदाभेदप्रतिभासायोगो नचान्यतरस्य मिथ्यात्वमि-३० तराविशेषात्तस्मादन्तरालावस्थं वस्तु, तदेतत्स्याद्वादानुत्पातीति नानानेकरूपता विरुद्ध्यते । तदेवं क्रमाक्रममाव्यनेकभेदात्मके वस्तुनि सर्वमुपपद्यते, तेन आपः दारा इत्यादिषु गुणपर्यायावयवभेदोपादानाद्वस्तुसामर्थ्याद् बहुत्वोपपत्तिः । एवं पश्चाला इति वस्तुशक्तिस्वाभाव्यादवयवद्वारेण प्रवर्तते । जनपद इति समुदायद्वारेण । एवं गोदौ ग्राम इत्यादावप्येकानेकसङ्खयोपपत्तिः । हरीतक्यः फलानीति लिङ्ग-३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org