________________
२५४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
अविशेषणे द्वौ चास्मदः॥ ५५॥ [सि० २।२।१२२] विशेषणरहितस्यासदो द्वावेकश्वार्थो बहुवद्वा स्यात् । आवां ब्रूवः । अहं ब्रवीमि । वयं ब्रूमः। विशेषणे तु आवां गाग्यौँ बेवः । अहं चैत्रो ब्रवीमीति यथाप्राप्तम् ॥ ५५ ॥
"अवि०"। नन्वेकसङ्ख्याकप्रत्यङ्गात्मकवचनत्वादस्मदः कथं द्वावौँ स्यातामिति । नैष दोषः । ५आत्मत्वं यदा परत्रोपचर्यते-अयं मे द्वितीय आत्मा अहमेव वाऽयमिति, त्वं चाहं चावामित्येकशेषो वा, तदा परस्याप्यस्मदर्थोपपत्तेरुपपन्नमस्मदर्थस्य द्वित्वमिति । आवां गाय? इत्यादि; एवमहं पण्डितो ब्रवीमीति । अत्र गोत्रं धर्मान्तरं संज्ञा ? चास्मदर्थस्य भेदकत्वेन उपादीयते इति सविशेषणत्वान्न भवति । ननु "नाट्ये च दक्षा वयम् । त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः" इत्यादौ कथं सवि
शेषणस्य बहुवद्भावो दृश्यते इति ? अत्रोच्यते । यदनूद्यमानमवच्छेदकं तद्विशेषणं दक्षत्वादिकं च १० विधीयमानं नानूद्यमानमिति नैवंविधो विषयः प्रतिषेधस्य । एकानेकस्य भावस्यात्मनोऽनेकस्वभावविव
क्षायां बहुवचनं सिद्धमेव । सविशेषणे निषेधार्थं तु वचनम्-अयं भावः-एकोऽप्यात्मा यथैकत्वेनानुभूयते तथा द्रष्टा श्रोता मन्तेत्यादि नानात्वेनापि । नोकान्तेनैकत्वेनानेकत्वेन वेतरविनिर्मुक्तेन प्रतिपत्तिरस्ति । तत्रैकत्वेन द्वित्वेन बहुत्वेन च तस्मिन् विवक्षिते एकद्विबहुवचनानि भवन्ति । यथा युष्मदर्थे
गुरौ चैकस्मिन्नपि बहुवचनं प्रयुज्यते । यूयं ब्रूथ, भवन्तो ब्रुवन्ति इति; एवं चास्मदर्थस्यापि बहुवचने १५सिद्धे सविशेषणे तस्मिन् विवक्षिते द्वयोरेकत्र च बहुत्वविवक्षानिषेधार्थ वचनमिति ।
इत्यादिशब्दात् “फल्गुनीप्रोष्ठपदस्य भे" (२।२।१२३ ) फल्गुनीशब्दस्य प्रोष्ठपदाशब्दस्य च भे नक्षत्रे वर्तमानस्य द्वावौँ बहुवद्वा स्याताम् । कदा पूर्वे फाल्गुन्यौ, कदा पूर्वाः फाल्गुन्यः । कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः । आभ्यां नक्षत्राभ्यां चन्द्रयुक्ताभ्यां युक्तः काल इत्यर्थः । “चन्द्रयुक्तात्काले लुस्वप्रयुक्ते" (६।२।६) इति सिद्धिः । उदिते पूर्वे फाल्गुन्यो, उदिताः पूर्वाः फाल्गुन्यः । उदिते २० पूर्वे प्रोष्ठपदे, उदिताः पूर्वाः प्रोष्ठपदाः, ज्योतिर्विशेष इत्यर्थः । भ इति किम् ? फल्गुनीषु जाते फल्गुन्यौ माणविके । द्वावित्येव-तेनैकस्मिन् ज्योतिषि न भवति-दृश्यते फल्गुनी । एकवचनान्तः प्रयोग एव नास्तीत्यन्ये । शब्दपरनिर्देशात्पर्यायस्य मा भूत्-अद्य पूर्वे भद्रपदे ॥ ५५ ॥
जात्याख्यायां नवैकोऽसङ्ख्यो बहुवत् ॥ ५६ ॥ [ सि० २।२।१२१ ] सङ्ख्याविशेषणरहितो जातिशब्द एकवच बहुवच वा स्यात् । सम्पन्नो यवः । सम्पन्ना यवाः। २५ सङ्ख्याविशेषणे तु एको व्रीहिः सम्पन्नः सुभिक्षं करोतीत्येकत्वमेव ॥ ५६ ॥
"जात्या०" । जायतेऽनया भिन्नेष्वभिन्नावभिधानप्रत्ययाविति जातिः सामान्यम् । जातेराख्यायामभिधाने एकोऽर्थो जातिलक्षणोऽसङ्ख्यः सङ्ख्यावाचिविशेषणरहितो बहुवद्वा स्यादित्यर्थः । जाति मायमेकोsर्थस्तदभिधाने एकवचनमेव प्राप्तमत इदमारभ्यते । अथ च बहुवदित्यतिदेशेन बहुवद्भावो जात्यर्थस्य । ननु जातिशब्दस्य तथात्वे हि सम्पन्ना यवा इत्यत्र यवशब्दादेव जातिशब्दाबहुवचनं स्यान्न तु सम्पन्न३०शब्दात्तद्विशेषणात् । जात्यर्थस्य तु बहुवद्भावे सम्पन्नादिविशेषणान्यपि सामानाधिकरण्याद्यवादिशब्दो
पात्ते जात्यर्थे वर्तन्ते इति तेभ्योऽपि बहुत्वाश्रयं बहुवचनमुपपन्नमिति । जातिग्रहणं किम् ? चैत्रःयदृच्छाशब्दत्वान्नायं जातिवाची, जातिर्हि शबलधवलाद्यनेकव्यक्तिषु गौगौरित्याद्यनुवृत्तिप्रत्ययहेतुसामा
न्यम् । यदि च बालकुमाराद्यवस्थाभेदेष्वनुवर्तमानं चैत्रमैत्रादिकं जातिरुच्येत तदा न जातिः कश्चि३४च्छब्दार्थोऽस्तीति जातिग्रहणमनर्थकं स्यादिति । आख्याग्रहणं किम् ? काश्यपप्रतिकृतिः काश्यपः-भव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org